एकादशवयस्का बालिका स्नातकोत्तरपदवीं प्राप्तवती। अस्याः बौद्धिकमानं ऐन्स्टीनापेक्षया उन्नतम्।
मेक्सिको नगरे अधारा पेरेस् साञ्चस् नाम बालिका एकादशतमे वयसि अभियांत्रिकशास्त्रे (Engineering) स्नातकोत्तरपदवीं प्राप्तवती। अस्याः लघुप्रतिभायाः बौद्धिकमानम् (intelligence Quotient ) आल्बर्ट ऐन्स्टीन्, स्टीफन् हॉकिङ्ग् इत्येतयोः अपेक्षया अधिकमस्ति। उभयोः बुद्धिमानं १६० आसीत्। बालिकायाः अस्याः बुद्धिमानं १६२ भवति इति सि इ डि ए टि (CEDAT) संस्थया दृढीकृतः।अभियान्त्रिकशास्त्रविषये स्नातकोत्तरपदवीं प्राप्ता ओटिसं (Autism) नाम रोगाक्रान्ता बालिका विद्यालये अन्येषाम् अनादरेण बहूनि क्लेशानि अभिमुखीकृतवती। नासायाः बाह्याकाशयात्रिका भवितुम् इच्छति एषा बालिका। तृतीये वयसि एव बालिकायाम् ओटिसं नाम रोगः प्रत्यभिज्ञातः।

.jpg)





.webp)

.webp)
