कोट्टयम् > भर्तृहरेः नीतिशतम् वैराग्यशतकम् श्रृङ्गारशतकम् च कैरल्याम् अनुवादं कृत्वा प्रकाशयन्ते । त्रयाणां ग्रन्थानाम् टङ्गणक्रिया (DTP) तथा पुटविन्यास: च (layout) जङ्गमदूरवाणीमुपयुज्य आसीत्। अनेन मार्गेण प्रकाश्यमानः प्रथमः अनुवादग्रन्थः भवति इयं सुभाषितग्रन्थावली। ग्रन्थस्य लेखनादिकार्याणि सम्प्रति वार्तया कृता। पुनर्वाचनाय कागदलेशोऽपि नोपयुक्तः। ग्रन्थकारः मान्यवरः साधु. डा-डा. जेक्कब् कट्टय्कल् महोदयः अमेरिका राष्ट्रे उषित्वा सम्प्रति वार्तायाः ओण् लैन् सौकर्यमुपयुक्तवान्। अस्य महात्मनः 101, 102, 103-तमाः ग्रन्थाः भवन्ति। ग्रन्थानां मुद्रणम् कोट्टयं गुड् षेपेर्ट् मुद्रणालयेन कृत:। अद्य मध्याह्ने द्विवादने केरलेषु प्रसिद्धां भरणङ्ङानं क्रैस्तवदेवालयस्य परिकर-प्रकोष्ठे (parish hall ) अभिवन्द्य बिषप् डा. जोसफ् कल्लरङ्ङाट् साधुवर्येण प्रकाशयिष्यन्ते । OUR YouTube Channel 1. SampratiVartah |
marquee
Monday, January 18, 2016
कोट्टयम् > भर्तृहरेः नीतिशतम् वैराग्यशतकम् श्रृङ्गारशतकम् च कैरल्याम् अनुवादं कृत्वा प्रकाशयन्ते । त्रयाणां ग्रन्थानाम् टङ्गणक्रिया (DTP) तथा पुटविन्यास: च (layout) जङ्गमदूरवाणीमुपयुज्य आसीत्। अनेन मार्गेण प्रकाश्यमानः प्रथमः अनुवादग्रन्थः भवति इयं सुभाषितग्रन्थावली। ग्रन्थस्य लेखनादिकार्याणि सम्प्रति वार्तया कृता। पुनर्वाचनाय कागदलेशोऽपि नोपयुक्तः। ग्रन्थकारः मान्यवरः साधु. डा-डा. जेक्कब् कट्टय्कल् महोदयः अमेरिका राष्ट्रे उषित्वा सम्प्रति वार्तायाः ओण् लैन् सौकर्यमुपयुक्तवान्। अस्य महात्मनः 101, 102, 103-तमाः ग्रन्थाः भवन्ति। ग्रन्थानां मुद्रणम् कोट्टयं गुड् षेपेर्ट् मुद्रणालयेन कृत:। अद्य मध्याह्ने द्विवादने केरलेषु प्रसिद्धां भरणङ्ङानं क्रैस्तवदेवालयस्य परिकर-प्रकोष्ठे (parish hall ) अभिवन्द्य बिषप् डा. जोसफ् कल्लरङ्ङाट् साधुवर्येण प्रकाशयिष्यन्ते । Sunday, January 17, 2016
राज्ये नीतिनिर्वहणस्य कार्यक्षमतां गुणवैशिष्ट्यं च दृढीकर्तुमेव नैतिक अकादमी स्थापिता। कोच्ची अन्ताराष्ट्र विमाननिलयस्य समीपे अत्ताणीप्रदेशे स्थापिताया अकादम्याः उद्घाटनसमारोहे मुख्यमन्त्री उम्मन् चाण्टिवर्यः केन्द्रमन्त्री डि वि सदानन्दगौडावर्यः केरलस्य उच्चन्यायालयस्य मुख्यन्यायाधिपः अशोकभूषणवर्यः इत्यादयः सन्निहिताः।
Saturday, January 16, 2016
नवदिल्ली >६-१० संख्याकाः मुहम्मद जयषे भीकराः पाकिस्तानसीमामुल्लङ्घ्य गूढमार्गेण भारतं प्रविष्टा इति भारतजाग्रताविभागेन (इन्टलिजन्स् ब्यूरो) विज्ञापितम्। केन्द्र गृहमन्त्रिणा संचालिते उन्नततलसम्मेलने एव अयं विषयः विज्ञापितः। अतः राष्ट्रस्य प्रधानस्थानेषु स्थापनेषु च अतिसुरक्षां पालयितुम् आदिष्टम्।
मार्गसुरक्षावाराघोषस्य अङ्गतया देहल्यां जातायां सङ्गोष्ठ्यां भाषमाणः आसीत् मन्त्री । अपघातान् न्यूनीकर्तुम् अधिकारिण: सेवासंस्थाः च सर्वकारेण सह मेलनीयम् इति तेन उक्तम् । तेषां संख्यान्यूनीकरणं कष्टसाध्यम् इत्यपि मन्त्रिणोक्तम् ।
टोक्यो > जाप्पानस्य उत्तरभागे होकैड नाम तीरदेशे आसीत् भूकम्पः।गुरुवासरे १२.३० वादने जायमानस्य कम्पनस्य शाक्ति: ६.७ मितः। ४० निमेषः पर्यतं कम्पितः चेदपि अपायः नास्ति। अणुशक्तिनिलय : सुरक्षितः च।
Friday, January 15, 2016
रन्ध्रिकासमये एव अनन्तपुरिस्थिते सर्वशिक्षा अभियान् कार्यालये ज्ञातुं शक्यते।
Thursday, January 14, 2016
कर्म शिष्टमस्ति इति हेतोः निषेधः न स्यात् । किमपि विशिष्टं कार्यमस्ति चेदेव विरामनिषेधः स्यात् ......।
बंगलादेशविमोचनयुद्धकाले भारतसैन्यस्य पूर्वकमाण्डन्ट् विभागस्य नेता आसीत् जेक्कब्वर्यः। धाक्का प्रविश्यायां पाक्सैन्यस्य पराजय अस्य बुद्धिपूर्वकक्रियाविधेः फलमासीत्।
Wednesday, January 13, 2016
Tuesday, January 12, 2016
भारते असहिष्णुता वर्धते इति वादे प्रवर्धमाने एव प्रधानमन्त्रिणः वाचः । जयिन् आचार्य रत्न सुन्दर्सुरीश्वर्महाराजेन रचितस्य मै इण्ड्या नोबिल् इनण्ड्या इति पुस्तकम् वीडियो कोण्फरन्स् द्वारा प्रकाशयन् आसीत् स: I आङ्गलेय , हिन्दी , गुजराती , मराठी , भाषासु प्रकाशितम् पुस्तकमिदम् ..।
१९४५ आगस्ट् मासस्य १८ तमदिनाङ्के तय्वान् मध्ये दुरापन्ने विमानदुरन्ते नेताजिवर्यः दिवंगत इति तेषां विज्ञप्तिपत्रे सूचितम्।दृढीकरणाय बहूनां साक्षिणां विवरणान्यपि विज्ञप्तिपत्रे आयोजितानि।
वियट्नां राष्ट्रस्य टूरन् नामकात् विमानपत्तनात् जप्पानस्य राजधानी टोक्कियोनगरं लक्षीकृत्य विमानम् उड्डयितम्। परन्तु यान्त्रिकदोषकारणेन विमानं यातत्रामध्ये भग्नमभवत्। नेताजिवर्यं विना १३यात्रिकाः वैमानिकश्च आसन्। जप्पानस्य सैन्याधिपः लफ्.जनरल् सुना मास सिदय् आसीत् तेषु प्रमुखः।
किन्तु ईदृशविज्ञप्तिपत्रस्य आधिकारिकतामधिकृत्य ब्रिट्टीष् सर्वकारस्य प्रतिकरणम् इतःपर्यन्तं नाभूत्।
Monday, January 11, 2016

अद्य जनुवरि 12 युवदिनम्।
सनातनधर्मस्य संरक्षणाय काले काले अत्र भारते पुण्यजन्मनि बहूनि अभवन्। तेषु अन्यतमं भवति विवेकानन्दस्वामिनः जन्म। सः 1863 जनुवरि मासस्य 12 दिने कोलकत्तायां जनिम् अलभत। तस्य पिता विश्वनाथदत्तः माता भुवनेश्वरी देवी च आस्ताम् । नरेन्द्रस्य व्यक्तित्व विकासे तस्य पितरौ अतीव स्वाधीनम् अकुरुताम्। बाल्यकाले एव ईश्वरचिन्तायां तथा आत्मीय चिन्तायां प्रवृत्तः नरेन्द्रः पश्चात् भारतीयतत्वशास्त्रचिन्तकेषु प्रमुखं स्थानं प्राप्य लोकराष्ट्रेषु प्रसिद्धः अविस्मरणीयश्च बभूव।
स्वामिविवेकानन्दस्य शैक्षिक प्रणाली भारतस्य दार्शनिक आध्यात्मिक परमपरायाः अनुरूपा आसीत्। विद्याध्ययनेनैव सर्वेषाम् अभ्युदयः इति सः प्रत्यपादयत्। परिपूर्णतायाः व्यक्तता एव ज्ञानोपार्जनेन संभवति। अध्ययनं नाम केवलं विषयसंग्रहः अपि तु तेन देशस्य कृते किं लभ्येत तदेव प्रामुख्यम् । तस्य मते अध्ययनं नाम अर्न्तनिहित पूर्णतायाः अभिव्यक्तिरेव ।
मातृभाषया साकं संस्कृतभाषयाः शिक्षणमपि आवश्यकमिति विवेकानन्दस्य मतम्। अस्माकं धर्मग्रन्थस्थानि आध्यात्मिक -रहस्य-रत्नानि अन्विष्य संस्कृतभाषया तत् ज्ञानस्य बहिरानयनं करणीयम्। स्त्रीणां कृते विद्यादानम् अवश्यं करणीयम् इति च तस्य मतम्। एवं विद्या सर्वजनस्पर्शिनी स्यात् इति विवेकानन्दः वदति। स्वामि विवेकानन्दः 1897 तमे वर्षे रामकृष्णमिशन् इति एकं सेवास्थानं स्थापितवान्। भारतेस्य विविधेषु प्रदेशेषु एवं विदेशेषु च अस्य संस्थानस्य शाखाः उद्धाटिताः आसन् सम्प्रति च वर्तन्ते।
महापुरुषाः अल्पमेव कालं जीवन्ति इत्यस्ति अनुभवः । तस्यापि सैव। भारतसर्वकारः तस्य जन्मदिनं युवदिनत्वेन आचरन् वर्तते। कस्यापि महतः स्मरणं तस्यजन्मदिनाचरणसीमितं न भवेत्। तेन ज्वलितानाम् आदर्शानां परिपूरणम् अस्माकं दायित्वमेव। संस्कृत-संवर्धनमेव अस्माकं धर्मः। तदर्थं दिनस्यैतस्य प्रेरणां प्राप्नुयाम।
उत्तिष्टत! जाग्रत !
अमेरिक्कादेशस्य हों लान्ट् सेक्यूरिटी इति मन्त्रालयसंस्था एव अस्याः पद्धत्याः आदर्शत्वेन स्वीकृता।
Sunday, January 10, 2016
सर्वकारस्य अनुकूलिनः विपक्षिदलाः च पञ्चवर्षाणि यावत् युद्धं कुर्वन्नस्ति। अत एव ऐ. एस् आदीनां राष्ट्रान्तर-भीकराणाम् आवासत्वेन राष्ट्रं दुष्टम् अभवत् । अनेन कारणेन विदेशराष्ट्रैः व्योमाक्रमणमपि आरब्धम्I शान्ति किमिति तै: न ज्ञायते। अस्याम् अवस्थायाम् सस्य लतादीन् अपि जन्तुवत् भोक्तुम् आरब्धा: अत्रत्याः हत भाग्या: I तेषां बाह्यबन्धस्य बाधा अस्ति इत्यस्मात् इमां दुरितावस्थां एतावत् कालं न ज्ञायते।
अनशनतया, रोगेण, युद्धमुखे पतित्वा च मारिताः बहव:। मारितानां संख्या कियन्मात्रमिति वक्तुं न शक्यते ।
अहम्मदाबादे निर्मसर्वकलाशालायां अन्ताराष्ट्रसम्मेलने भाषमाणः आसीत् सः।अध्यापकानाम् एतादृशानि उत्तरदायित्वानि अध्यापने विघाताय भवतीति विविधाभिः संस्थाभिः परामर्शाः उद्भूताः ।सर्वोच्चन्यायालयेनापि एतद्विषये सर्वकारं प्रति निर्देशः कृतः।
Saturday, January 9, 2016
पथसञ्चलने फ्रञ्च् सैन्यमपि ।
मुफ्ति मुहम्मद् सयिद् दिवङ्गतः।
तस्य पुत्री मेहबूबा मुफ्ती मुख्यमन्त्री भविष्यति।
लवणमधुरमेदाधिकानां भोज्यवस्तूनां विक्रयः अल्पाहारगृहे समीपापणेषु च निरुद्धः।अतः भर्जः चाकलेहः पिसा बर्गरः इत्यादीनां विक्रयणे नियन्त्रणं भविष्यति।एतादृशानां भोज्यानामुपयोगेन छात्रेषु रोगाः वर्धन्त इत्यवसिथां परिगण्य एव सि बि एस् सि संस्थया अयं निर्णयः कृतः।
Friday, January 8, 2016
कोच्ची > अनन्तपुरिनगरे जनवरी १९ दिनाङ्कादारभ्य प्रचाल्यमानस्य ५६तम केरलराज्यस्तरीयविद्यालयकलोत्सवस्य स्वागतगानरचनायाः नियोगः संस्कृताध्यपिकायै। कोट्टयं जिल्लायां पाला पूवरणीग्रामस्थे सर्वकारीय प्राथमिकविद्यालये संस्कृताध्यपिका सुप्रसिद्धा युवसाहित्यकारी केन्द्रसाहित्य अक्कादम्याः पुरस्कारजेत्री च पि.आर्याम्बिका एव कलोत्सवगानरचनायै नियुक्ता।केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः कोट्टयं जिल्लाध्यक्षा भवत्येषा।अस्य गानस्य संगीत साक्षात्कारं करोति प्रशस्तः हिन्दुस्तानी संगीतज्ञः रमेष् नारायणः।
अणुपरीक्षणम्-उत्तरकोरियां विरुध्य ओबाम।
वाषिङ्टण् > अणुपरीक्षणं कृतम् इति उक्तवताम् उत्तरकोरियां विरुध्य सुशक्तम् प्रतिरोधं भविष्यति इति अमेरिकाराष्ट्रस्य राष्ट्रपतिः बारक् ओबामा अवदत्। तदर्थं दक्षिणकोरिया जपान् राष्ट्रयोः सहकारितां संस्थापितवान् च।

नवदिल्ली > भारतस्य युद्धविमानं (तेजस् ) बह्रिन् राष्ट्रस्य प्रदर्शनमेलायां प्रति गच्छति। जानुवरी मासस्य 21 दिनाङ्कत: 23 पर्यन्तं सक्कीर् एयर् बेस् मध्ये प्रदर्शनम् आयोजितम्। लोक विपणीम् उद्दिश्य एव अस्य प्रदर्शनम्।
Thursday, January 7, 2016
भवत: बलदेवानन्दसागरः।
संस्कृतस्य अधिकाधिकः व्यावहारिकोपयोगः स्याद् इत्येतदर्थं केचन परामर्शाः तेन महात्मना कृताः । संस्कृतस्य सम्यक् व्यापनमेव तस्य उद्देश:। सर्वषां कृते पत्रमेतत् समर्प्यते ।
भवन्तस्तु जानन्त्येव यत् "यस्तु क्रियावान् पुरुषः स विद्वान् |" अतः वयम् आशास्महे यत् एते अधिगताः अधिगम्यमानाः च परामर्शाः परमार्थेन कार्यान्विताः भवितारः | एतदर्थं प्रशासनेन संस्कृताभिमानिभिः च सम्भूय प्रयतनीयम् | एते परामर्शाः सन्ति-
गुरुदस्पुरे सैनिक वेषं धृत्वा द्वै पुरुषौ -जाग्रता निर्देशः उद्घोषितःI
Wednesday, January 6, 2016
भीकराक्रमणं - सुरक्षाभ्रंश अभवत्- रक्षामन्त्री।
पठान्कोट्ट् - व्योमनिलये संवृत्तं भीकराक्रमणं सुरक्षाराहित्यहेतुतः जातमिति केन्द्र रक्षामन्त्री मनोहरपरीक्करः अवदत्। तीव्रवादिनः अन्तःप्रवेशः आशङ्कां जनयति इत्युक्त्वा परं विशदीकरणाय विमुखःअभवत्।व्योमकेन्द्रसन्दर्शनानन्तरं वार्ताहरान् प्रति भाषमाणः आसीत् मन्त्रिवर्यः।
Tuesday, January 5, 2016
इम्भाल् > भारतस्य पूर्वोत्तर भागेषु जायमानायां भूकम्पदुर्घटनायां १४ जना: मृताः २१० जनाः व्रणिताः। तेषु ९ जना: भारतीयाः पञ्च जना: बङ्गलादेशीया: च। रक्षा प्रवर्तनेषु इदानीमपि सैनिकाः निरताः। रिक्टर् मापिन्यां ६.८ अङ्ग: कम्पन तीव्रता मापिता । मणिपुरम्, असम् राज्ययो: तीव्रता अधिकतया अनुभूता। ब्राह्म यामे ४.३५ वादने आसीत् कम्पः। आहतेषु भारतात् ११० बङ्गलादेशात् १०० जना: च अभवन्। म्यान्मर् तिबत् सीमा च कम्पिता ।Monday, January 4, 2016
सि पि एम् नेतृत्वे धर्मातीत-योगप्रदर्शनम्।
पठान्कोट्ट्व्योमनिलये पुनरपि संघट्टनम्
सैनिकाः वीरमृत्युं प्राप्तः।
कोमण्वेल्त् सुवर्णपतकजेता पत्ते सिंहः ,गुरुसेवकसिंहः, हवील्दार् कुल्वन्त् सिंह, जगदीशसिंहः , सञजीव् कुमारः इत्येते मृत्युमुपगताः अन्ये सैनिकाः।
Sunday, January 3, 2016
संस्कृतेन प्रभावितः मुख्यमन्त्री।
विदर्भा >महाराष्ट्रराज्ये संस्कृत -अकादमी 'गठिता'(प्रारभेत) भवति इति मुख्यमन्त्रिणा देवेन्द्र फडणवीस महोदयेन उद्घोषितम्। ह्य:संस्कृतभारत्या: विदर्भप्रान्तीयसम्मेलने मुख्यातिथिरूपेण उपस्थित: आसीत् मुख्यमन्त्री। शालेयसंस्कृतशिक्षणक्षेत्रे अपि परिवर्तनम् करिष्यति इत्यपि तेन प्रतिपादितम्।
१०३तमस्य भारतीयविज्ञानसम्मेलनस्य कर्णाटकराज्ये मैसूरुनगरे श्रीगणेशः श्रीमोदिनः पाणिपद्माभ्याम्। व्यासनद्यां हैदराबादस्य २४बी.टैक-छात्राणां प्रवाहदुर्घटनाम् आलक्ष्य तेषां परिवारेभ्यः प्रत्येकस्मै विंशतिलक्ष्यरूप्यकात्मकः क्षतिपूर्तिराशिः।
Saturday, January 2, 2016
Friday, January 1, 2016
त्रिपुराराज्येषु विद्यालयेषु योग शास्त्राध्यनम्
अगर्तल > पाठ्यपद्धत्यां योगासनमपि सन्निवेश्य त्रिपुरा राज्यस्य सर्वकारः आदर्शराज्यः अभवत्। अत्र सि पि एम् सर्वकारः शासनं कुर्वन्नस्ति। प्रथमकक्ष्यातः अष्टमकक्ष्या पर्यन्तं अद्य आरभ्य योगापरिशीलनस्य शुभारम्भ: |
एतत् अनुशासनमधिकृत्य शिक्षामन्त्रिणा तपन् वर्येण उक्तः I
प्रथमश्रेण्यां शतं विद्यालयेषु आरम्भं कृत्वा पुनः नगरेषु ग्रामेषु आदिवासि जनविभागानां प्रदेशेषु च प्रसारयितुमुद्दिश्यते इत्यपि तेनोक्तम्।
छात्राणां शरीरस्य मनसः च स्वास्थ्य वर्धनमेव अनेन उद्धिश्यते । शैशवे एव योगाध्ययनेन धर्मनिष्ठानां नवयुवकानां निर्माणमेव संभवति।
राज्यस्य संपूर्णेषु विद्यालयेषु योगाध्यापकानां नियुक्तिः विलम्बं विना भविष्यति। मुख्यमन्त्री माणिक् सर्कारस्य नेतृत्वेन विराजमानेन मन्त्रिसभायोगेन निश्चयमिदं स्वीकृतम्।


