तेलुङ्कानायाः सामाजिकाः प्रतिमासवेतने राष्ट्रपतेः उपरिI
OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, March 30, 2016
द्वि-दिवसीयसंस्कृतशिक्षणवर्गः
पुदुच्चेरी> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीयसंस्कृतशिक्षणवर्गः (स्तरः – I) 2016 वर्षस्य एप्रिल्-मासस्य षोडश-सप्तदश-दिनाङ्कयोः ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः ‘श्री-अरविन्द-भवन’-परिसरे मुशीराबाद्-समीपे व्यवस्थापयिष्यते।
एतस्य शिक्षणवर्गस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः इत्यादि च वैज्ञानिकदृष्टिकोण-द्वारा भविष्यन्ति। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन पाठयिष्यते।
हैदराबाद्-नगरस्य प्रसिद्धः भाषावैज्ञानिकः डॉ. वाई.एन्. राव्-महोदयः एतस्य शिक्षणवर्गस्य आयोजनं करिष्यति।
ये उपरिनिर्दिष्टे शिक्षणवर्गे भागग्रहणमिच्छन्ति ते पाठ्यक्रमसञ्चालकं डॉ. वाई.एन्. राव्-वर्यं प्रति ईमेयिल्-पत्रं (सङ्केतः – “Dr. Y.N. RAO <doctorynrao@yahoo.co.in>) प्रेषयित्वा विवरणं प्राप्नुवन्तु।
2016 वर्षस्य एप्रिल्-मासस्य 7 दिनाङ्कः एव परिपूरितानि आवेदन"पत्राणि प्रेषयितुम् अन्तिमतिथिः अस्ति।
Tuesday, March 29, 2016
राष्ट्रिय-चलनचित्रपुरस्कारः प्रख्यापितः; बाहुबलिः उत्तममं चित्रम्।
नवदिल्ली> उत्तम चलन-चित्रपुरस्कारः बाहुबलिं प्राप्तः। एं एस् राज मौलिः भवति अस्य चित्रस्य सूत्रधारः । 'पिकु' नामकस्य हिन्दी चलनचित्रस्य अभिनयनाय उत्तमनटस्य पुरस्कारः अमिताभ बच्चन्वर्याय अलभत। उत्तमा नटी कङ्कण रनौत् च (तनु वेड्स् मनु रिट्टेण्स् इतिचित्रम् )।
Monday, March 28, 2016
पाकिस्ताने भीकराक्रमणं - ६५ मरणानि ।
पाकिस्ताने लाहोरे ह्यः सायं आत्महत्यासन्नद्धेन भीकरेण कृते आक्रमणे ६५ जनाः मारिताः ।२०० परं जनाः आहताः ।मृतेषु भूरिभागः महिलाः बालकाश्च भवन्ति ।
लाहोरे इक्बाल् नगरमिति प्रमुखे जननिवासमण्डले वर्तमाने गुल्षन् इक्बाल् उद्याने एव आत्महत्याभटः स्वयमेव विस्फोटितः । ईस्टर् दिने ह्यः तत्समये महान् जनसम्मर्द आसीत् । सुरक्षाव्यवस्था अपि न्यूना आसीदित्यपि सूच्यते ।
२०- २० लोकचषकः - भारतम् उपान्त्यपादे ।
मोहाली - आस्ट्रेलियां ६ द्वारकैः पराजित्य भारतं २० - २० लोकचषकक्रिक्कट् स्पर्धायाः उपान्त्यचक्रे स्थानं दृढीकृतम् ।सूपर् १० चक्रस्य निर्णायकमत्सरे आस्ट्रेलियया दत्ता १६१ धावनाङ्काः इति विजयक्ष्यः पञ्चकन्दुकेषु अवशिष्टेषु ४ कन्दुकताडकानां नष्टे भारतेन प्राप्तः ।
विराटकोलिः भवति श्रेष्ठक्रीडकः । सः ५१ कन्दुकेभ्यः षड्कद्वयेन नवचतुष्कैश्च साकं ८२ धावनाङ्कान् प्राप्य अबाह्यः अभवत् ।
वैदिकः ऐ एस् भीकरैः अपहृतः ; मोचयितुं प्रयत्नः आरब्धः ।
घटनायां ऐ एस् संघटनस्य उत्तरदायित्वं गतदिने एव केन्द्रसर्वकारेण प्रकाशितम् ।तस्य मोचनाय सर्वथा प्रयत्नः आरब्ध इति विदेशकार्यमन्त्रिण्या सुषमा स्वराजेन उक्तम् । परन्तु तस्य मोचनाय भीकरैः मोचनद्रव्यम् अभियाचितमिति वार्ता बहिरागता ।
Sunday, March 27, 2016
निलीयमानान् निरीक्षितुं सैन्यस्य " दिव्यचक्षुः" ।
नवदिल्ली> भारतसैन्यस्य आक्रमणशक्तिं वर्धयितुं श्रेष्ठः लाभः भारतीय प्रतिरोध गवेषणसंस्थया प्राप्तः । सन्देहयुक्ते साहचर्ये भवनेषु अदृष्टिगोचरान् जनान् निरीक्षितुं तेर्मल् इमेजिंङ् रडार् इति नूतनयन्त्रविशेषः दिव्यचक्षुनाम्ना विकसितः।भारतीयप्रतिरोधगवेषणसंसस्थायाः अधीने प्रवर्तमाना इलक्ट्रोणिक्स् &रडार् डवलप्मेन्ट् एस्टाब्लिष्मेन्ट् इति संस्था एवास्य साक्षाकारमकरोत् । भित्तिकातः २० मीटर् दूरस्थं व्यक्तिम् अभिज्ञातुम् अनेन रडार् उपकरणेन साध्यते । व्यक्तेः शरीरोष्माणं प्रत्यभिज्ञाय रडार् प्रवर्तते ।
६ किलोपरिमितं भारयुक्तस्य अस्य निर्माणव्ययः ३५ लक्षं रूप्यकाणि सन्ति ।बंगुलुरु आस्थानत्वेन वर्तमाने गवेषणकेन्द्रे अस्य भारं लघूकर्तुं परिश्रमः वर्तते।
सैन्यस्य प्रयत्नः सफलः प्राप्स्यते चेत् मुम्बई, पठान्कोट् सदृशानि भीकराक्रमणानि प्रतिरोद्धुं शक्यते इति विश्वासः ।
शुद्धजलं दुर्लभम्
आभारतम् जनाः अत्युष्णेन क्लेशम् आवहन्ति। नगरेषु ग्रामेषु अपि जलमन्विष्य जनाः परिभ्रमन्ति। पक्षि-जन्तुजालान्यपि क्लेशमनुभवन्ति। सूर्याघातेन पतिताः मृताः च बहवः सन्ति। एवं स्थिते सति एकत्र नालिकायाः दोषेण जलं वृथा प्रवहन्ति। अन्यत्र जलस्य आगमनं प्रतीक्षय स्त्रियः बालिका-बालकाश्च तिष्ठिन्ति। तत्रवर्तमानेन कोलाहलेन जिल्ला अधिकारिभिः निरोधनाज्ञा ज्ञापिता च। भवतु सकलप्राणिनां जीवरक्षायै जलं नूनम् आवश्यकम् इति अद्यतन चिन्तायाः विषय:।
सामूहिक माध्यमानां कण्ठेषु अन्तर्जाल-आरक्षक-सेनायाः ग्रहणम्।
कोच्ची > सामूहिक - अन्तर्जालमाध्यमेषु भय - जुगुप्सोत्पादकानि चित्राणि उद्प्रावेशकाः मार्च् मासस्य अष्ठविंशाति दिनाङ्कतः अपराधिनः भवेयुः। सर्वोच्च न्यायालयस्य आदेशानुसारं तादृशान् ग्रहीतुं निश्चितः अस्ति इति अन्तर्जाल-आरक्षकसेना विभागेन उक्तम्। भग्नशरीराणां चित्रेण यान-दुर्घटनायाः भीतिदचित्रेण वा जनानां मनसि विभ्रममुद्पातयन्तः दण्डमर्हति। तादृशचित्राणि चलनचित्रखण्डानि अश्लील चित्राणि च उद्प्रेषणीयाः अपराधिनः। तादृशान् ग्रहीतुं प्रत्येकं जिल्लायां पञ्च चत्वारिंशत् (४५) आरक्षकाः सज्जाः सन्ति।
क्रैस्तवानाम् अद्य 'ईस्टर्'
क्रैस्तवानाम् गुरोः क्रैस्ट् महाशयस्य पुनरुत्थानं स् मारयित्वा सर्वत्र विश्वे अद्य ईस्टर् आघुष्यते। आर्तरक्षामुद्दिश्य स्वजीवनं समर्पितवानयम्। स्वजीव: अपि दीनरक्षायै दादव्यम् इति महोत्सवस्य अस्य सङ्कल्पः।
कण्णूर् स्फोटनं -अपराधी ग्रहीतः।
कण्णूर् - केरले कण्णूर् जनपदे स्फोटकसामग्रीणां स्फोटनेन गृहाणि भञ्जितानि , ६ जनाः व्रणिताः इत्यस्मिन् विषये मुख्यापराधी चालाट् स्वदेशीयः अनूप् कुमारः आरक्षकैः ग्रहीतः ।
गतगुरुवारे अर्धरात्रौ एव कण्णूर् पोटिक्कुण्ट् राजेन्द्रनगर् सहनिवाससमीपे गृहे ग्रामभीतिदं महत्स्फोटनं जातम् । गृहे परिरक्षितानि ५ लक्षरुप्यकमूल्यपरिमितानि अत्युग्रस्फोटकवस्तूनि विस्फोटितानि । द्वितलाट्टशूल-गृहमेतत् पूर्णतया विशीर्णम् । तत्रस्थं कार् यानमपि भग्नमभवत् । समीपस्थानि पञ्च गृहाणि नाशितानि ।
अनूपेन सह वासं कुर्वत्यौ राहिला पुत्री हिबा च गुरुतरेण आहतेन चिकित्सालयं प्रवेशिते । ४ प्रातिवेशिका अपि स्फोटने व्रणिताः अभवन् ।
Saturday, March 26, 2016
दीनरक्षकेभ्यः शुभवार्ता ।
नव दिल्ली > आपदि पतितान् भीतिं विना साहाय्यं कर्तुम् आरम्भं कुर्मः । सज्जनान् प्रति कथं व्यवहर्तव्यः इति निर्दिशन्ती मार्गरेखा गतागत मन्त्रालयेन प्रकाशिता। चतुर्दशोत्तरद्विसहस्रतमस्य (२०१४) अत्युच्च न्यायालयस्य आदेशः तथा केन्द्रसर्वकारस्य मानदण्डान् च अनुसृत्येव अयं निदेशः। SP अथवा जिल्लास्तरीय उत्तरदायिनः निदेशः पालितः इति निश्चयं करणीयम्।
व्रणितान् तथा श्रान्तान् च यः साहाय्यं करोति सः आदरम् अर्हति। दुर्घटना दूर वाणी द्वारा ज्ञापितवन्तान् निर्बन्धतया साक्षीकरणं मा भवतु। इत्यादयः मर्यादा पूर्वकनिदेशाः अस्मिन् अन्तर्भवन्ति। अतः दयालुभ्यः जनेभ्यः भयं विना दीनजनसेवां कृत्वा स्वधर्मपालनं शाक्यते इति मोदाय भवति ।
बाधा अपनीता; जम्मू काश्मीरे मेहबूबा मुख्यमन्त्री भविष्यति।
श्रीनगर् जम्मुकाश्मीरे पि डि पि - भा ज पा सख्यम् अनुवर्तितुं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह पिडिपि नेत्र्या मेहबूबावर्यया चालितायां चर्चायां निश्चितम् । राज्यस्य पि डि पि विधानसभापक्षनेतृरूपेण मेहबूबा चयिता ।
एतदनुसृत्य काश्मीरस्य प्रथमवनितामुख्यमन्त्री इति स्थानं तया प्राप्स्यते ।
तस्याः पितुः मुफ्ति मुहम्मद सयीदिवर्यस्य मरणानन्तरं मासत्रयं यावत् राज्ये राज्यपालशासनमेव वर्तते ।
हास्यकाथिकः वि डि राजप्पः दिवंगतः।
आकेरलम् उत्सवक्षेत्रेषु स्वेनैव क्रमीकृतैः पारडिगानैः हास्यकथनैश्च हाससफोटनपरम्पराः जनयामास। अनन्तरं ७५ परं चलच्चित्रेषु हास्यकथापात्राणि अवतार्य प्रोक्षकप्रीतिं संवर्धयामास।
Friday, March 25, 2016
दिनषष्ठ्यभ्यन्तरेणैव जनानां परिदेवनानि परिहर्तव्यानि- प्रधानमन्त्री
नवदिल्ली > सर्वकारस्य विविधविभागेभ्यः जनेभ्यः च लभ्यमानानि सेवनानि अधिकृत्य परिदेवनानि विद्यते चेत् षष्ठिदिनाभ्यन्तरेण परिहरणीयानि इति प्रधानमन्त्री नरेन्द्रमोदि वर्यः आदिष्टवान्। उन्नतोद्योगिभिः सह वीडियो कोण्फरन्सिङ् द्वारा कृते मेलने अयं निदेशः दत्तः। जनानां परिदेवनानि परिहर्तुं उद्योगिनः न तत्पराः इति विमर्शाः अजायन्त। सन्दर्भे अस्मिन् एतादृश निदेशः अजायत इत्यनेन जनानाम् आश्वासः।
प्रधानमन्त्रिणः प्रगतिः नाम अन्तर्जाल-परिदेवन-पञ्चीकरण द्वारा लभ्यमानानि सेवनानि अधिकृत्य लक्षाधिकानां परिदेवनानां परिहाराः , विना विलम्बं कर्तुम् इदानीम् उद्योगिनः निर्बद्धाः भवेयुः।
विनयस्य परसेवनस्य च सन्देशेन " पेसहा " आघुष्टा; अद्य विशुद्धशुक्रवासरः।
कोच्ची >विनयस्य साहोदर्यस्य सहिष्णुतायाः च सन्देशं प्रचार्य आभुवनं क्रैस्तवदेवालयेषु पेसहाचरणं सम्पन्नम् । मर्दितानां पीडितानां कृते स्वजीवत्यागस्य पूर्वस्मिन् दिने येशुदेवेन कृतं शिष्यपादप्रक्षालनं स्मारयित्वा सर्वेषु देवालयेषु पेसहाश्रेष्ठकर्माणि आचरितानि ।
परस्परप्रेम्णा निस्स्वार्थसेवनेन साहोदर्यभावनया च धर्माणां राष्ट्राणां भाषाणां च आधारे वर्तमानाः भिन्नताः अतिक्रमान् च दूरीकर्तुं शक्यते इति वैदिकश्रेठाः उद्बोधितवन्तः ।
मार्पापावर्यस्य नूतननियुक्त्यनुसारं वनितानां पादप्रक्षालनाचरणमपि विविधदेवालयेषु सम्पन्नम् । अद्य येशुदेवस्य क्रूशितमृत्युं स्मरन् देवालयेषु प्रार्थनाभरितकार्यक्रमाः प्रचलन्ति ।
योहान् क्रैफ् निर्यातः ।
बार्सलोण >होलण्ट राष्ट्रस्य पादकन्दुकक्रीडेतिहासः योहान् क्रैफ् (68) निर्यातः । अर्बुदरोगबाधिते तस्मिन् चिकित्सिते स्पेयिन् राष्ट्रे बार्सलोणायामेव तस्यान्त्यः।
महान् क्रीडकः श्रेष्ठः परिशीलकः च क्रैफ्वर्यः सम्पूर्णपादकन्दुकक्रीडा (total football) इति विप्लवात्मकक्रीडायाः उपज्ञाता भवति ।
क्रीडाङ्कणे प्रतिभासम्पन्नः घोरपादताटकः (striker) अप्रतिरोध्यः मध्यक्षेत्रीयः(midfielder) इति क्रीडाङ्कणे विराजितः सः त्रिवारं लोकपादकन्दुकक्रीडकः इति किरीटं लब्धवान् ।
Thursday, March 24, 2016
प्राणिनं जीवरक्षायै जयपुरे 'मार्गदाबा' च
जयपुरम् > वीथी शालायां अधुना आरभ्य आपत् कालचिकित्सा। राजस्थान सर्वकारस्य नूतना पद्धतिरियम्। मार्गेषु यानदुर्घटनायां पतितेभ्यः प्रथमशुश्रूषां औषधं च जवेन दत्वा जीवरक्षां कर्तुम् अनया पद्धत्या उद्दिश्यते । तदर्थं वीथीप्रान्तभक्ष्यशालाभ्यः कर्मकरेभ्यः प्रथमं परिशीलनं दास्यते। राष्ट्रियवीथिषु राज्यस्तरीय वीथिषु च योजना आयोजयिष्ते इति स्वास्थ्य मन्त्रिणा राजेन्द्र रात्तोडेन विधानसभायां उक्तम्।
कोच्ची>केरले एस् एस् एल् सि इति दशमीकक्ष्याछात्राणां सार्वजनिकी परीक्षा समाप्ता । न केवलं केरले आभारतं वैज्ञानिकमण्डलस्य बहूनां कर्ममण्डलानां च मूलभूत-योग्यतारूपेण SSLC प्रमाणपत्रस्य प्राधान्यमस्ति । अतः दशमीकक्ष्याछात्राणां विषये रक्षाकर्तृषु अध्यापकेषु अभ्युदयकांक्षिषु च अध्ययनवर्षादारभ्य नितान्तजाग्रता आसीत्। ४.५ सार्थ चत्वारि (४.५) लक्षाधिकाः छात्राः परीक्षां लिखितवन्तः । राज्ये विविधस्थानेषु केन्द्रीकृतमूल्यनिर्णयः एप्रिल् प्रथमदिनाङ्कादारभ्य द्वादश (१२) दिनाङ्कपर्यन्तं भविष्यति । पञ्चविंशति (२५ ) तमदिनाङ्काभ्यन्तरे फलं प्रसिद्धीकर्तुं शक्नुयादिति अधिकारिभिः उक्तम् ।
इन्टिगो विमानेभ्यः विस्फोटकात् भीतिःI
नव दिल्ली > इन्टिगो एयर् लैन्सस्य दशसंख्येभ्यः विमानेभ्यः विस्फोटकात् भीतिः। इदानीं विमानेषु समीक्षणं चलन्नस्ति।
विमान संस्थायाः चेन्नै आह्वान-केन्द्रेषु भीतिदं सन्देशं लब्धम्। सन्देशस्य उत्पत्तिस्थानं भारतात् बहिरासीत् इति सूचना।
ब्रसल्देशस्य आक्रमणात् पूर्वमपि एतादृशं सन्देशां आसीत् ।
कनय्याकुमारः हैदराबाद् विश्वविद्यालयं प्राप्तः।
हैदराबाद् > जे एन् यू विश्वविद्यालयस्य छात्रनेता कनय्यकुमारः हैदराबाद् विश्वविद्यालयं प्राप्य तत्रस्थं विद्यार्थिप्रक्षोभाय ऐक्यदार्ढ्यं प्रख्यापितवान् । रोहित् वेमुलः नामकस्य छात्रस्य आत्माहूत्यानन्तरं तात्कालिकविरामं स्वीकृतवतः उपकुलपतेः अप्पारावुवर्यस्य प्रत्यागमनं पुरस्कृत्य कलालये संघर्षः उद्भूतः आसीत् ।
स्वमात्रा सहैव सः कलालयं प्राप्तः। तस्य सन्दर्शनं पुरस्कृत्य महान् सुरक्षासन्नाहः स्वीकृतः आसीत्।
Wednesday, March 23, 2016
भारतस्य राष्ट्रिय-गानालापन-समये त्रुटिः।
महानटः अमिताभ बच्चः अपराधी इति।
कोल्कत्त > भारतस्य राष्ट्रिय-गानस्य दोषयुक्तालपनेन विश्वप्रसिद्धं महानटम् अमिताभ् बच्चं विरुध्य आरक्षकाणं पुरतः अक्षेपः। विंशति - विंशति विश्व चषकस्य भारत-पाकिस्थानस्य स्पर्धायाः पूर्वं भारतस्य राष्ट्रियगानालपनं कृतवानासीत् अयम्। दिल्यां अशोकनगरस्य आरक्षकालये एव बच्चं विरुध्य आक्षेपः लब्धः।
उल्हास् पि. आर्. इति नामकेन आक्षेपः दत्तः। संविधानानुसारं द्विपञ्चाशत् (५२) निमेषाः एव एतस्य गानस्य आलपनकालः। किन्तु द्वाशीतिः (८२)निमेषानुपयुज्य आलपितः इत्यनेन अपराधः कृतः इत्येव आक्षेपः।
हरितन्यायाधिकरणः केरळे परिभ्रमणपीठम् आरभते।
कोच्ची > चिरकालप्रतिक्षायाः अन्ते केरळे देशीयहरितन्यायाधिकरणस्य परिभ्रमणपीठः आरभते । कोच्च्यां उच्चन्यायालयभवने सप्तमन्यायालये पीठस्य प्रवर्तनं प्रचलिष्यति। देशीयहरितन्यायाधिकरणस्य चतुर्थः परिभ्रमणपीठः भवति एषः।
ब्रस्सल्स् नगरे भीकराक्रमणं - ३५ मारिताः।
ब्रस्सल्स् >यूरोप् भूखण्डे बल्जियं राष्ट्रस्य राजधान्यां ब्रस्सल्स् नगरे ह्यः त्रिषु स्थानेषु संजातेषु स्फोटनेषु ३५ जनाः मारिताः । २०० परं व्रणिताः अभवन् । ऐ एस् इति भीकरसंस्थायाः मृत्युसन्नद्धयोद्धारः स्फोटनं कृतवन्त इति बल्जियं सर्वकारेण व्यक्तीकृतम् ।
प्रादेशिकसमयानुसारं प्रभाते सार्धाष्टवादने एव नगरस्थे विमाननिलये तथा मल्बिक् मेट्रो स्थाने च स्फोटनानि संवृत्तानि। यूरोप् भूखण्डः अपि आतङ्कवादभीषणे अन्तर्भूतः । गतनवंबरमासे पारीस् नगरे संवृत्ते आक्रमणे १३० पौराः हताः आसन्। तस्य आक्रमणस्य सूत्रधारः अब्दे सलामः चतुर्दिनेभ्यः पूर्वं ब्रस्सल् नगरादेव बन्धितः अभवत् ।
Tuesday, March 22, 2016
अम्बद्करः सर्वेषां विमोचकः - मोदी।
नवदिल्ली > डो. बि आर् अम्बद्करः न केवलं दलितविभागीयनां किन्तु सर्वेषां पार्श्ववत्कृतानां च विमोचकः आसीदिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम् ।नवदिल्यां अम्बद्कर् देशीयस्मारकस्य शिलास्थापनसमारोहे भाषमाणः आसीदयम् । अमेरिक्कायां श्यामवर्णीयानाम् अधिकारेभ्यः प्रवर्तनं कृतवतः मार्टिन् लूथर् किङ् वर्यस्य समशीर्षः अम्बद्करः विश्वमानवः आसीत् इति प्रधानमन्त्रिणा अनुस्मृतम्। भारते सामाजिकोद्ग्रथनाय सः नेतृत्वं कृतवान् । राष्ट्रशासनानुसारं सामाजिकसमत्वाय ऐक्याय च तस्य जीवनं समर्पितमिति मोदिवर्यः अवदत्।
नूतनानां स्मृत्यर्थं प्राचीनानां विस्मृतिः।
Monday, March 21, 2016
रष्यायां विमानदुर्घटना - ६२ हताः।
मोस्को > दुबाय् देशात् रष्याराष्ट्रं प्रति सञ्चरितं विमानं रष्यानगरस्थे रस्तोफ् ने डणु इति विमाननिलये भग्नीभूय ६२ यात्रिकाः हताः । झंझावातः हिमानि च दुर्घटनायाः कारणत्वेन ऊह्येते।३३ महिलाः ४ बालकाः च सहिताः ५५ यात्रिकाः ७ विमानकर्मकराः च आसन्। सर्वे अपि तत्क्षणे एव मृताः ।
ओबाम क्यूबाभूमौ ; इदं चरितसन्दर्शनम् ।
२०१३ तमे वर्षे दक्षिणाफ्रिक्कायां संवृत्तं क्यूबाराष्ट्रपत्या रौल् कास्ट्रो वर्येण सह ओबामवर्यस्य अभिमुखं भवति अस्य राष्ट्रसन्दर्शनस्य आधारः ।
Sunday, March 20, 2016
विवाहमण्डपे वरः मद्यं पीत्वा आगतवान्
वधू विवाहात् प्रतिनिवर्तितवती।
मेट्टुपाळयम् (तमिल्नाट्) > मद्यं पीत्वा आगतं वरं दृष्ट्वा वधू मूर्चिता पतिता च। समीपस्थम् अतुरालयं प्रापयित्वा प्राथमिक शुश्रूषाम् अदात्I अनन्तरं विवाहवेदिकायां प्रत्यागत्य विवाहे विप्रतिपत्तिः प्रकाशिता वध्वा। वरः (२७ वयस्क:) बंग्ळामेट् देशीयः, वधू (२३ वयस्का) एल्.एस्.पुरम् देशीया च।
मित्रैः सह सुरां पीत्वा वेदिकायां 'समागतः' वरः नष्टप्रज्ञः आसीत्। वधोः समीपमुपविश्य चापलभाषणं कुर्वतस्य तस्य मुखात् आगतेन मद्यस्य रूक्षगन्धेन वधू मूर्चिता आसीत् च।
अस्मिन् विवाहे वध्वा विप्रतिपत्तिप्रख्यापनं श्रुत्वा लोकाः प्रथमं स्तब्धाः अभवन् । चेदपि इदानीं तस्यै विविधेभ्यः देशेभ्यः अभिनन्दनानां प्रवाहः एव।
पलास्तिक व्यापाराय शुल्कः,
मेलनानन्तरं स्थलमार्जनं करणीयं नो चेत् धनार्पणरूप-दण्डनम्।
मेलनानन्तरं स्थलमार्जनं करणीयं नो चेत् धनार्पणरूप-दण्डनम्।
नव दिल्ली> केन्द्रसर्वकारेण नूतना पलास्तिक-मालिन्य नियमः प्रख्यापितः षण्मासाभ्यन्तरेण आभारतं नियमः प्रबलः भविष्यति।
निशितव्यवस्थया निर्मिते शासने पञ्चाशत् (५०) अतिलघुमितः (Micron) अधः पलास्तिक-स्यूतानां निर्माणं शासन -विरुद्धं भवेत्। आभारतं प्रतिदिनं १५,००० टण् मितं पलास्तिक मालिन्यानि जायन्ते। तस्मात् ९००० टण् मितं सञ्चित्य नाशयितुं शक्यते चेदपि ६००० टण् मितानि मालिन्यानि सञ्चयनं विना यत्र कुत्रापि वितीर्य स्थास्यन्ति।
Saturday, March 19, 2016
संस्कृतवार्ता वाचने छात्रेभ्यः परिशीलनम्।
कोच्ची > केरलेषु एरणाकुळं जिल्लायाः सर्वशिक्षा अभियानः सम्प्रति वार्तायाः सहकारितया विद्यालय-छात्रेभ्यः वार्ता वाचने परिशीलनं दास्यति। अष्टमकक्षा पर्यन्तेभ्यः छात्रेभ्यः एव प्रवेशः। एप्रिल् मासस्य २०, २१, २२ दिनाङ्केषु वाचन परिशीलन सत्रम् आयोजियिष्यते। कर्यक्रमे भागभाजिनः नाम मार्च् मासस्य ३० तः पूर्वं विद्यालयस्य प्रथमाध्यापकेन E Mail द्वारा प्रेषणीयाः। छात्रस्य नाम, पितुः दूरवाणीसंख्या च सूचनीया।
परिशीलनेषु विजयिभ्यः सम्प्रति वार्तां वार्ताः अवतारयितुम् अवकाशः दास्यते।
Friday, March 18, 2016
![]() |
| आचार्येण हरिदत्त-शर्मणा साकं डो.बलदेवानन्द-सागरः |
नवदिल्ली > "भारतस्य महामहिमशालिना राष्ट्रपतिना प्रमाण-पत्रप्रदानेन सभाजितेषु
संस्कृत-विद्वत्सु अन्यतमेन आचार्येण हरिदत्त-शर्मणा साकं
"संस्कृत-सौरभम्"-इति आकाशवाण्याः कार्यक्रमार्थं साक्षात्सम्भाषणं
ध्वन्यङ्कितम्| अवसरेsस्मिन् कार्यक्रम-सञ्चालकेन डो.बलदेवानन्द-सागरेण
पृष्टः आचार्य-शर्मा स्वीयान् नाना अध्यापनानुभवान् विवर्णयन्
स्वीय-वैदेशिक-यात्राविषयेsपि विस्तरेण सूचितवान्| तेनोक्तं यत्
संस्कृत-शिक्षणार्थं तेन नैकवारं अनेकेषां देशानां यात्रा विहिता| तदवसरे
तेन अनुभूतं यत् अनेकेषु देशेषु प्रतिष्ठापितैः संस्कृत-पीठैः
संस्कृत-विषयकं बहुविधं शोधकार्यम् अनुष्ठीयते| प्रो.शेल्डोन-पोलोक-विषये
पृष्टः डो.शर्मा न्यगादीत् यत् अमुना वैदेशिक-विदुषा नैकत्र
संस्कृत-ज्ञानस्य वैदिक-मनीषायाश्च विद्रूपीकरणं विहितम्| तच्च नैवास्ति
समीचीनम्| भारतीयैः विद्वद्भिः स्वीय-रचनात्मक-प्रतिभया तत् सर्वं
सम्यक्तया सम्पादनीयमवशिष्यते | साक्षात्कार-सम्भाषणावसरे आचार्य-शर्मणा
स्वीय-काव्यपाठेन सहृदयानां परितोषार्थं काव्यरस-परिवेषणम् अनुष्ठितम्|
प्रतिमासं द्विवारं [ प्रथमे तृतीये च शनिवासरे ] रात्रौ सार्धनववादने
आकाशवाण्याः इन्द्रप्रस्थ-वाहिनीतः [ 666 KHz-तः ] प्रसार्यमाणोऽयं
कार्यक्रमः एप्रिल-मासे द्वितीय-दिनाङ्के [ शनिवासरे ] श्रोतुं शक्यते|
अरबी अध्यापने २९ संवत्सराणि; गोपालिका अन्तर्जनं निवर्तते।
मलप्पुरं - २९ संवत्सराणि बालकानां कृते अरबिभाषायाः माधुर्यं प्रसारितवती गोपालिका अन्तर्जनं तस्याः कर्ममण्डलात् विरमति। केरलेभ्यः ब्राह्मणसमुदायगता प्रथमा अरबी अध्यापिका इति ख्यातिर्भवति गोपालिकावर्यायाः।
१९८२तमे वर्षे मलप्पुरं जिल्लायां पाण्टिक्काट् प्रदेशे कस्मिंश्चित् वैयक्तिकविद्यालये आसीत् प्रथमनियुक्तिः । किन्तु ब्राह्मणवनितायाः अरबि अध्यापनमसहमानानां धर्मान्धानां प्रतिषेधात् तत्रत्या केवलं षड्दिवसीया अध्यापकवृत्तिः समाप्ता । किन्तु पराजेतुमसन्नद्धा सा न्यायालये परिदेवनं दत्वा अनुकूलविधिं सम्पाद्य पि एस् सि द्वारा १९८९ तमे वर्षे तिरुवालि सर्वकारीयनीचविद्यालये नियुक्तिं प्राप्तवती । तत्र १० संवत्सराणां सेवनानन्तरं मेलाट्टूर् उपजिल्लायां चेम्माणियोट् सर्वकारीयविद्यालयं प्राप्य १७ संवत्सराणि अतीतानि। ततः एव इदानीं सेवानिवृत्तिः।
बाल्ये समीपस्थं समान्तरविद्यालयं गत्वा अरब्भाषां पठितुं तात्पर्यं प्रकटितवत्यै गोपालिकायै पितरौ अनुमतिं दत्तवन्तौ ।तदेव तस्याः जीवने मार्गपरिवर्तनमभवत् । १९९३ तमे वर्षे प्रकाशितं नारायम् इति चलच्चित्रं गोपालिका अन्तर्जनस्य अध्यापनजीवनं पुरस्कृत्य आसीत् ।
ऐ.एस्.बन्धम्, एन् .ऐ.ऐ.द्वारा २५ जनाः वन्धिताः
नवदिल्ली > ऐ.एस् आदङ्गवादिभिः साकं सम्पर्कः वर्तते इति संशयत्वात् २५ जनान् देशीय अन्वेषण उद्योगस्थैः वन्धिताः इति केन्द्रसर्वकारैः सूचिताः। भारतराष्ट्रात् ऐ.एस्.प्रति बहुन्यूनाः एव आकृष्टन्ते इत्यपि सर्वकारैर्सूचितम्। ऎ.एस्.संस्थायाः केषाञ्चन सजीवप्रवर्तकान् आरक्षकैः बन्धिताः इत्यपि केन्द्र आभ्यन्तरसहमन्त्रिणा हरिभाय् चौदर्या सूचितम्।
मस्तिष्कभोजी अमीबा - एकः बालः मृतः।
कोच्ची - मस्तिष्के अमीबा इति एककोशजीविनः प्रवेशेन गुरुतरावस्थां प्राप्तः बालः मरणम् उपगतः । आलप्पुष़ा जिल्लायां तिरुमला उम्माप्परम्प् गृहे नवासस्य पुत्रः अक्बरः (१६) एव मृतः ।
मित्रैः सह तटाके स्नानं कुर्वति एव अक्बरस्य मस्तिष्कं प्रति अमीबाप्रवेशनं जातम् । असह्यमानया शिरोवेदनया आलप्पुष़ा मेडिक्कल् कोलज् आतुरालये अनन्तरम् आस्टर् मेडिसिटी इति वैयक्तिकातुरालये च प्रविष्टः चेदपि मृत्युरभवत् ।नग्लेरिया फौलेरी इत्याख्या अमीबा नासाद्वारेणैव मस्तिष्कं प्रविष्टा। शरीरे प्रविष्टे रोगाणुनाशनं दुस्साध्यमिति अभिज्ञाः वदन्ति ।
मल्यावर्यस्य किङ्फिषर् हौस् मन्दिरस्य सघोषविक्रयः पराजितः।
मुम्बई > प्रवर्तनरहितायाः किङ्फिषर् एयर् लैन्स् संस्थायाः आस्थानमन्दिरं सघोषविक्रयेण विक्रेतुं बाङ्कसंघस्य प्रयत्नः पराजितः । गतदिने सम्पन्ने इलक्ट्रोणिक् सघोषविक्रये यस्य कस्यापि भागभागित्वं नाभवत् । राष्ट्रात् पलायितेन मदिराव्यापारिणा विजयमल्ल्येन विविधवित्तकोशेभ्यः प्रतिदीयमानानि ऋणानि प्रत्याहर्तुमेव तस्य स्थावरद्रव्यानि सघोषविक्रयणाय एवं उद्यमः आरब्धः।
Thursday, March 17, 2016
क्वथिता वैतरणी इव ' पिके ' नदी
पेरु >पुराणप्रतिपादिता वैतरणीनदी दृष्टा। पेरू राज्ये विद्यमाना पिके नामिका नदी ता दृशा भवति । क्वथिता अस्याः तापमानः नवति (९०) डिग्री सेल्ष्यस् पर्यन्तं भविष्यति। कर्ण-कर्णिकया श्रुतपरिचिता इयं नदी आन्ट्रो रुसो नामकेन पेरू देशीयेन एवI
आमसोण् विपिनस्य समीपे एव प्रवहति एषा पिके। पुकल्पा नगरतः १७२ (द्विसप्तत्यधिकशतम्) किलोमीट्टर् दूरे एव अस्याः स्थानम् । नद्याः पञ्चाशत् किलोमीट्टर् परिधौ जनावासः नास्ति। अत्युष्णजलम् इत्यनेन जलजीविनः अत्र न सन्ति। केवलं नव (९)किलोमीट्टर् दीर्घा इयं भौमोर्जेन एव एतादृशरीत्या तपति इति वैज्ञानिकानां मतम् । आमसोणस्य हस्तरेखा इव वर्तमाना पाषिट्ट् नद्याः सङ्गमेन इयं शन्ता भविष्यति।नव दिल्ली > विपक्षदलीयानां कोलाहलानां मध्ये आधारपत्रिका लोकसभायां शासकीयदलेन पुनरपि अङ्गीकृता। राज्यसभया निर्दिष्ठाः भेदनिर्देशाः निर्वाचनेन निवार्य एव आसीत् नूतनपत्रिकायाः अङ्गीकारः । विपक्षिदलानां प्रतिषेधान् विगणयन्नेव आसीदियं प्रक्रिया । आधारः निर्बन्धितरूपेण मा भवतु इति सर्वोच्चन्यायालयेन पूर्वम् अनुशासितः आसीत् ।
पञ्चशत औषधानपि केन्द्रसर्वकारैः निरोधितः।
नवदिल्ली> सुरक्षाभावात् गुणाभावात् च पञ्चशताधिकानि औषधानि आपणेषु निरोधितानि। केषाञ्चन प्रतिरोधौषधानि मधुमेहस्यौषधानि च तेषु अन्तर्भवन्ति। विपणिषु सुरक्षितौषधानां प्राप्त्यर्थं केन्द्रसर्वकारैः क्रियमाणस्य प्रयत्नस्य फलादेव औषधनिरोधनमिति आरोग्यमन्द्रालयेन सूच्यते। ६००० औषधानां परिशोधना अधुना प्रचलन्नस्ति । तेषु सहस्राणां औषधानां मिश्रणे अशास्त्रीयवस्तूनां प्रयोगः दृष्टः इत्यस्मादेव परीशोधना सर्वकारैः दृढीकृता।
पेट्रोल् डीसल् मूल्यवर्धनम्।
नवदिल्ली - पेट्रोल् डीसल् इन्धनयोः मूल्यं तैलसंस्थाभिः क्रमातीतया वर्धितम् । पेट्रोल् तैलस्य ३.०७ रूप्यकाणि डीसल् तैलस्य १.९० रूप्यकाणि च संवर्धितानि । अन्ताराष्ट्रियतैलमूल्यं इदानीं नितरां न्यूनमपि भारतीयतैलसंस्थानां अयं क्रियाविधिः प्रतिषेधाय कारणमभवत्।
मैसूरु वायुमलिनीकरणं न्यूनीकृतं चतुर्थं नगरम् ।
मैसूरु - वायुमलिनीकरणं न्यूनातिन्यूनतमेषु आगोलनगरेषु मैसूरुनगरस्य चतुर्थं स्थानमस्ति। इन्ड्याटैम्स् . कोम् इत्यनया अन्तर्जालिकया कृते पठने एव इयं सूचना। ८४.०९ % भवति अत्रत्यः शुद्धवायोः मानम्। प्रथमदशनगरेषां पट्टिकायां केरलस्य कोल्लं नगरमपि अन्तर्भवति। ७९.१७ %अस्ति अत्र शुद्धवायोः मानम्। पट्टिकायां प्रथमस्थानमावहति कानडा राष्ट्रस्य वैट् होर्स् नगरम्। अत्र १००% शुद्धवायुरस्ति ।
Wednesday, March 16, 2016
सिरियातः रप्यायाः सेना प्रत्यागच्छाति
मोस्को> सिरियातः भागिकतया रष्यायाः सैनिकान् प्रतिनिवर्तयितुं राष्ट्रपतिः व्लाडिमिर् पुटिन् महाभागः निरदिशत्। सिरियायां शान्तिं संस्थापयितुं कृतेषु प्रयत्नेषु सहायकः अयं निदेशः इति पुटिन् महाभागेन उक्तम्।
किन्तु कति सैनिकाः इदानीं सिरियायां सन्तीति अनेन महोदयेन नोद्घाटितः ।
सेप्तंबर् ४ - माता तेरेसा विशुद्धा भविष्यति ।
वत्तिक्कान् सिटि>निरालंबानाम् अम्बा इति विख्याता मदर् तेरेसा सेप्तंबर् ४ दिनाङ्के फ्रान्सिस् मार्पापा वर्यात् विशुद्धपदं प्राप्स्यते। जीवनकाल एव परिशुद्धा इति विशेषणं प्राप्तवत्याः तस्याः परिशुद्धस्थानाय पाप्पावर्यस्य अनुमतिः लब्धा। रोमानगरे प्रख्यापनकार्यक्रमं प्रतीक्षते । कोल्कत्तायां कृतज्ञताप्रकाशनकार्याणि च अनुवर्तन्ते।
लोकेषु भीतिं प्रसार्य वित्तकोश चौर्यम्।
धाक्क> अन्तर्जाल-वित्तकोश सौकर्यमुपयुज्य बङ्ग्लादेश राष्ट्रस्य केन्द्र-वित्तकोशात् ६८० कोटि रुप्यकाणि अमुष्णत् । अन्तर्जालमोषणेन खिन्नः वित्तकोशाध्यक्षः अतीउ रह्मान् त्यागपत्रं दत्तवान्। वित्तकोश चौर्येषु बृहत्तमम् आसीदिदम्। कश्चन राज्यस्य केन्द्रकोशः इदं प्रथमतया एव एतादृश मार्गेण चोरितः इति धनमन्त्रिणा ए.एम्.ए मुहित् वर्येण उक्तः।
Tuesday, March 15, 2016
आरक्षणे पुनरीक्षणम् नास्ति। अनुवर्तमाना स्थिति: अनुवर्तिष्यते- जेट्ली।
नवदिल्ली > श्रमिक-शैक्षिक मण्डलेषु इदानीं अनुवर्तमाना आरक्षणस्थितिः अनुवर्तिष्यते इति केन्द्र वित्तमन्त्रिणा अरुण् जेट्ली महाभागेन उक्तम्। राज्यसभायां बि.एस्.पि सामाजिकानां प्रश्नानाम् उत्तरं दत्वा सः प्रतिस्पन्दीकृतवान्। आरक्षणविषये परिवर्तनं रोधनं वा अधिकृत्य इत.पर्यन्तं कापि चर्चा न कृता सर्वकारेण इति केन्द्रमन्त्रिणा मुक्त्तार् अब्बास् नख्वी वर्येण च उक्तम्।
लोलातिलोलः काचः
मेल्बण् > विश्वस्य लोलातिलोलः काचः (Lens) ओस्ट्रेलियायाः वैज्ञानिकैः अन्विष्य दृष्टः। केशात् द्विसहस्रलघुतमः इति अस्य का चस्य वैशिष्ट्यः। 'नानो' विद्यायां नूतनान्दोलनंकर्तुं पर्याप्ता इयं विद्या।
ओस्ट्रेलियायाः राष्ट्रिय-विश्वविद्यालयस्य वैज्ञानिकस्य युरूयु लारि लु वर्यस्य नेतृत्वे कृतश्रमे एव नूतनं दर्शनम् । ६.३नानोमीट्टर् मितः अस्य वैशिष्ट्यः वृत्ताकारे परिवर्तयितुं शक्यते इत्येव। भाविनिकाले सङ्गणकयन्त्राणां दूरदर्शनानां च फलकम् निश्चयेन वक्री कर्तुं गोलीकर्तुं च शक्यते अस्माकं सैकर्याय इति आश्वासदायकः विषयः।
Monday, March 14, 2016
अखिल-केरळवेदप्रघोषण सम्मेलनं सम्पूर्णम् ।
प्रभाते दशवादने श्रृङ्गेरिमठस्य शासकेन डा. वि.आर्. गौरीशङ्कर् महोदयेन सम्मेलनम् उद्घाटनं कृतम्। सायं चतुर्वादने सम्पन्ने समादरणसभायां तैक्काट् वैदिकः केशवन् नम्पूतिरि महोदयः प्रशस्तिपत्रेण २५००० रुप्यकाणां लघुभाण्डेन च सम्मानितः। केरलस्य ऋग्वेदपण्डितेषु प्रथमगणनीयः भवति एषः। केरळे आयोज्यमानेषु यज्ञेषु एषः बहुवारम् आचर्यत्वेन स्वीकृतः आसीत्।
पाक् अधीनेषु काश्मीरेषु चीनासैनिकानां सान्निध्यम्।
श्रीनगरम् > पाकिस्थानेन अधिनिवेशितकाश्मीरेषु चीना राष्ट्रस्य पीप्पिल् लिबरेषन् आर्मि सैनिकान् अपश्यन् इति विज्ञप्तिः। अतः सीम्नि सुरक्षा वर्धिता। नौगां सेक्टर् परिसरे चीनायाः उन्नतसैनिकोद्योगिनः दृष्टः इति च भारतीय-सैनिकैः विज्ञापितः। किन्तु नियन्त्रित रेखायां स्थानीय सौकर्यान् वर्धियितुमेव ते अगताः इति पाकिस्थानेन कृतम् 'भाष्यम्'' | गतदिने जम्मू-कश्मीरस्य पान् गोङ् तटाक पर्यन्तं निलीयागतः चीनासैनिकाः इन्दो-टिबट्टन् सेनया पालायिताः आसन्।
Sunday, March 13, 2016
विश्वसांस्कृतिकोत्सवस्य शुभारंभः।
नवदिल्ली > जीवनकलायाः पञ्चत्रिंशत् (३५) तम वर्षस्य वैशिष्ट्यप्रकाशनमिव विश्वसांस्कृतिकोत्सवः नवदिल्यां यमुनानद्यास्तीरे भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोडीवर्येण समुद्घाटितः। विश्वसंस्कृतेः विपुलतायां सहस्राधिकैः नर्तकैः सङ्गीतज्ञैः सम्पूर्णयां वेदिकायां दीपप्रज्वालनं कृत्वा भाषमाणः मोडिवर्यः कलाकाराणां कुम्भमेलेयं इति अवदत्। भारतस्य सांस्कृतिकपरम्परां विश्वं अत्यत्भुतेन पश्यन्ति। जीवनकला द्वारा भारतं कीदृशम् इति लोकः ज्ञातवन्तः इति च अवदत्I श्री श्री रविशङ्करमहोदयस्य अनुग्रहभाषणं हर्षारवेण सह जनैः स्वीकृतम्। राष्ट्रान्तरसमस्यायाः परिहारः भवति जीवनकला इति जीवन कलायाः आचार्यः अवदत्। यू.ए. ई. सांस्कृतिकमन्त्री षैख् नह्यान् बिन् मुबारक् अल् नह्यान् वेदिकायां विशिष्टतया विराजमानः आसीत्। सहस्राधिकानां पण्डितानां वेद मन्त्रघोषेण मुखरितायां वेदिकायां वैदेशिकाः कलाकाराः अपि नाट्यादिकं प्रदर्शितवन्तः।
केरळ संस्कृताध्यापक फेडरेषन् - संस्कृताध्यापन-दीक्षायाम्।
कोट्टयम् > केरळसंस्कृताध्यापक फेडरेषन् नामिकायाः संस्थायाः जिल्लास्तरीय मेलनमासीत् ह्यः। मेळने प्रमुखः कार्यक्रमः अध्यापनोपकरणानां वितरणमेव आसीत्। लोकनीत्यनुसारं वेतनमधिकृत्या चर्चा एव प्रचलन्ति अन्येषाम् श्रमिकदलानां मेलने। किन्तु संस्कृताध्यापकाः अध्यापन-कौशलं वर्धयितुमुद्दिश्य बहूनि पाठनोपकराणि निर्मितानि। तानि एव अध्यापकमेलने वितरति च। आदर्शभूतानि प्रवर्तनानि कृतानि ते। कोट्टयम् कुमरनल्लूर् देवीविलासं विद्यालये आयोजिते मेलने राज्यस्तरीय आयोजकसचिवेन सनल् चन्द्रन् पुन्नाट् महाभागेन ग्रीः01.16 Sanskrit On live नामिका चित्रमुद्रिका (DVD) युव साहितीपुरस्कारजेत्रिणे आर्याम्बिकायै दत्वा उद्घाटिता।तेषां पाठनोपकरणानि
💿गीः .01.16 Sanskrit on live (DVD)
⭕Academic videos for UP classes. ⭕Sanskrit albums.⭕Amarakosam PDF and audio.
⭕Sanskrit Dictionaries.
⭕E-Books.
⭕Sanskrit related news & videos.
⭕Sanskrit posters.
⭕160 ayurveda related slides.
⭕Sanskrit related power presentations. (Academic).
⭕Advertisement videos (Sanskrit).
⭕Sanskrit songs.
पदोन्नत्यै आरक्षणं नार्हताभवेत्- सर्वोच्चन्यायालयः।
नवदिल्ली > सर्वकारवृत्तिषु उन्नतस्थानं प्राप्तुम् पट्टिकापरिगणितजाति - पट्टिकापरिगणितवर्गाणाम् विद्यमानारक्षणम् नानुवर्तनीयमिति सर्वोच्चन्यायालयः। विविधसर्वकारवृत्तिषु पट्टिकजातिवर्ग-विभागेभ्यः आनुपातिकं प्रातिनिध्यं न लभत इति परिदेवनं परिगणयन्नासीत् न्यायालयः।
सूर्याघातेन पीड्यन्ते कर्मकराः
पालक्काट् (केरळम्) >भारतस्य विविधेषु राज्येषु सूर्यातपेन तापः वर्धितःI गतदिने केरलस्य पालक्काट् जिल्लायां त्रयः सूर्याघातेन दाहिताः। अतः कर्मकाराः मध्याह्ने घण्डात्रयम् आतपात् दूरे भवितव्यम् इति स्वास्थ्यमन्त्रालयेन उद्बोधितम्।
Saturday, March 12, 2016
उत्तरप्रदेशे वाहनदुर्घटना - सामाजिकः मृतः।
लख्नौ> उत्तरप्रदेशराज्ये संपन्ने कार् यानदुर्घटनायां समाजवादी दलीयः नियमसभासामाजिकः द्वौ सुहृदौ च मृताः ।मन्त्रिवर्यस्य शिवपालयादवस्य पुत्रस्य विवाहानन्तरं प्रतिनिवृत्ते सति मोरादाबाद् जिल्लायां बिल्लारी मण्डलस्य प्रतिनिधिः मुहम्मद इर्फानः तस्य यानचालकः मित्रं च कालपुरीं गताः।
विजय् मल्या १८ तमे दिनाङ्के उपस्थातव्यः।
नवदिल्ली - राष्ट्रात् पलायितः मदिराराजः विजय् मल्यः मार्च् १८ तमे दिनाङ्के एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः पुरतः उपस्थातव्यः इति निर्दिष्टम्। किन्तु मया अवगूहनं न कृतम्, अन्ताराष्ट्रवणिक् इत्यतः राष्ट्रान्तरगमनं स्वाभाविकमिति मल्येन ट्विटर् माध्यमे लिखितम् ।
ए के आन्टणि , वीरेन्द्रकुमारः , सोमप्रसादः च राज्यसभासामाजिकाः भविष्यन्ति ।
पञ्चदिनवयस्काय शिशवे 'पान्कार्ड् 'अलभत ।
पटना - बीहारराज्ये केवलं पञ्चदिनवयस्का बालिका पान् कार्डपत्रस्य स्वामिनी । पटना स्वदेशीयस्य कुमार् सजलस्य पुत्री आषी फेब्रुवरी २१ तमदिनाङ्के जनिमलभत । २६तम दिनाङ्के एव पान् कार्ड् पत्रमपि अलभत । राष्ट्रे न्यूनातिन्यूनतमे वयसि पान्कार्ड् लाभेन वैशिष्ट्यं प्राप्नोत्ययं शिशुः । जननात् परं सप्तमे दिने लब्धपत्रकः जय्पूर् स्वदेशीयः आर्यन् चौधरी आसीत् अद्यावधि इदं स्थानमलंकरोति स्म ।
Thursday, March 10, 2016
संस्कृतं विना मलयाळभाषायाः उन्नतिः न भविष्यति-संस्कृतछात्राः।
![]() |
| भाषापितुः जन्मगृहे सादरं संस्कृतछात्राः |
भारतस्य गतिनिर्णयोपग्रहं भ्रमणपथं प्राप्तम् ।
चेन्नै > भारतस्य षष्ठं गतिनिर्णयोपग्रहं ऐ आर् एन् एस् एस् - १ एफ् भ्रमणपथं प्राप्य प्रवर्तनम् आरब्धम् । पि एस् एल् वि - सि ३२ इति विक्षेपणवाहनेन उपग्रहं लक्ष्यस्थानं नीतम् ।
विक्षेपणदौत्यस्य विजये प्रधानमन्त्री नरेन्द्रमोदी शास्त्रज्ञान् अभिनन्दितवान् ।
तमिल् नाडुराज्ये श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशगवेषणकेन्द्रात् ह्यः अपराह्ने उपग्रहं विक्षिप्तम्। स्थलजलाकाशमार्गेभ्यः सञ्चारेभ्यः साहाय्यं प्रददाति इति गतिनिर्णयोपग्रहाणां प्रधानदौत्यम् ।
सौद्यां जंगमदूरवाणीमण्डले अपि 'निताखत् ' नियमः।
कोच्ची > सौदीराष्ट्रे जंगमदूरवाणीवाणिज्यरंगे 'निताखत्' इति स्वदेशीवत्करणानुशासनं प्रवृत्तिपथमागच्छति जंगमदूरवाणीनां विक्रयः , सम्यगीकरणम् इत्यादिषु मण्डलेषु पूर्णतया स्वदेशिवत्करणमेव लक्ष्यम् । षण्मासाभ्यन्तरे एतन्मण्डलस्थान् विदेशीयान् अपाकर्तुं सौदी कर्ममन्त्रालयस्य निर्देशः अस्ति । यदि अनुशासनं प्राबल्यं भविष्यति तर्हि दशसहस्रशानां विशिष्य केरलीयानां वृत्तयः नष्टाः भविष्यन्ति । यतः जंगमदूरवाणीवाणिज्यमण्डले ९०% भारतीयाः वृत्तिं कुर्वन्तः सन्ति। तेषु अर्धसंख्याधिकाः केरलीयाः च ।
यु.ए.इ राष्ट्रे अतिवृष्टिः
दुबाय् > वर्षाकालस्य जलसमृद्धिमुत्पादयन् यू.ए.इ राष्ट्रेषु सर्वत्र वृष्टिः। अबुदाबि, दुबाय्,षार्ज नगरेषु विद्युल्लतया सह पतितः वृष्टिः महान् क्लेशः उत्पद्यत। प्रवाहः स्तगितः इत्यनेन यानानां गमनागमनः स्तंभितः। प्रातः पञ्चवादनात् पूर्वं वृष्टिरारब्धा। अत एव कार्यालयेषु विद्यालयेषु च गन्तुं जनाः क्लेशिताः
अपराधिनाम् अवगूहनं निरोद्धुं बीहार् सर्वकारः ।
पट्ना - राज्ये संसद्सामाजिकसहिताः प्रजाः अपराधं कृत्वा अवगूहनप्रवणतां निरोद्धुं तादृशानां द्रव्याणि स्वायत्तीकर्तुं नितीष् मार् सर्वकारस्य निश्चयः फलप्राप्तिमधिगच्छति । सप्ताहद्वयाभ्यन्तरे १२ अधिकानां निष्ठुरापराधिनां कोटिशः रूप्यकाणां सम्पदः सर्वकाराधीनतां प्राप्ताः ।
नवाड् मण्डलात् सामाजिकः राबरीदेवीमन्त्रिसभायां भूतपूर्वमन्त्री च राजवल्लभः यादवः एव अन्तिमत्वेन क्रियाविधिविधेयः जातः । अपराधिनः कियन्तः प्रमुखाः भवन्तु परिरक्षा न भवन्ति इति सन्देशं दातुं नितीष् वर्यस्य सर्वकारः प्राप्तः अभवत् ।अतः संघटितापराधाश्च न्यूनीकृता इति सर्वकारवृत्तैः उक्तम् ।
भारतं विरुद्ध्य पाक् स्थानीय भीकरदलानाम् आक्रमणः वर्धितः।
नवदिल्ली> भारतं विरुद्ध्य पाकिस्थाने विद्यमानानां भीकर-दलानाम् आक्रमणः वर्धितः इति भारत सर्वकारः। एता दृशान् सङ्घान् निरोद्धुं यू.एन् प्रति न्य वेदयिष्यते इति विदेशकार्य सहमन्त्रि: विके सिंहः लोकसभायाम् अवदत्। पाक् भीकरप्रमुखाः हाफिस् सय्यिद्, सक्कियूर् रह्मान् लख्वी प्रभृतीनां नाम उद्धृत्य विशदतयाआसीत् भाषणम् ।
मेत्रान् तटाक-कटमक्कुटि विवादादेशौ प्रतिनिवर्तितौ।
अनन्तपुरी>कोट्टयं जिल्लायां मेत्रान् तटाकं एरणाकुलं जिल्लायां कटमक्कुटी व्रीहीकेदारं च मृत्तिकया पूरयितुम् अनुमतिं दीयमानौ केरलसर्वकारस्य आदेशौ प्रतिनिवर्तितौ। निर्वाचने समीपमागते आदेशौ विवादाय कारणीभूतौ इत्यतः एव निराकरणस्य आधार इति मुख्यमन्त्रिणा उक्तम् ।
केरले नूतनं राजनैतिकदलं रूपवत्कृतम्।
Wednesday, March 9, 2016
लघु संस्कृत-चलन-चित्राणि जायान्ते।
नीतिष् गोपिवर्यस्य द्वितीयं चलनचित्रम् अन्नदाता प्रकाश्यते अद्य सामोदम्।
नीतिष् गोपिवर्यस्य द्वितीयं चलनचित्रम् अन्नदाता प्रकाश्यते अद्य सामोदम्।
अद्य सूर्यग्रहणम् । भारते भागिकतया।
नव दिल्ली> अद्य भागिकतया भारते सूर्यग्रहणं द्रष्टुं शक्यते। बुधवासरे प्रभाते भारतस्य उत्तरपूर्वभागेषु ग्रहणं द्रष्टुं शक्यते। चन्द्रग्रहणमपि भविष्यति। इन्तोनेष्यायां पसफिक्समुद्रस्य विविध भागेषु च पूर्णतया सूर्यग्रहणम् द्रष्टुं शक्यते। ४.४९ वादनतः ग्रहणस्य आरम्भः। दिल्ल्यां६.४० वादने ४ मिनिट्ट् काल दैर्घ्ये सूर्य ग्रहणं द्रष्टुं शक्यते। २०१९ तमे दिसंबर् मासे २६ दिनाङ्के एव समीपस्थं सूर्यग्रहणम्।
भविष्यनिधेः करः प्रतिनिवर्तितः।
नवदिल्ली > कर्मकराणां भविष्यनिधेःधनाहरणवेलायां निक्षेपस्य ६०% करविधेयं कर्तुं आयव्ययपत्रकनिर्देशः केन्द्रसर्वकारेण प्रतिनिवर्तितः। निर्देशं विरुध्य कार्मिकसंघानां प्रतिषेधः आसीत्। अतः धनमन्त्रिणा अरुण् जेट्ली महाभागेन निर्देशः प्रतिनिवर्तितः I समयेfस्मिन् राष्ट्रिय-विरमितकालधनार्जनयोजनायां (NPS) करः न भवेत् इति च तेन महाभोगन उक्तम्।
Subscribe to:
Comments (Atom)






















