OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, October 14, 2016

 भारतं विरुद्ध्य विस्तृतं दक्षिणेष्यैक्यं रूपवत्कर्तुं पाकिस्थानः।
इस्लामबाद्>सार्क् मैत्र्यां भारतस्य अधीशत्वं विरुध्य चीना-इरानादिदेशानां विस्तृतं किमपि दक्षिणेष्यीयम् आर्थिकसख्यं रूपवत्कर्तुं पाकिस्थानस्य परिश्रमःइति  सूचनाः। सार्क् समित्यां भारतस्य अप्रमादित्वम् उपशमयितुमेवायं प्रयत्न  इति पाक्दिनपत्रिकया डोण् इत्यनया सूचितम्।
       अष्टाङ्गयुक्ते सार्क् सख्ये अफ्गानिस्थानः बङ्गलादेशश्च भारतस्य शक्तौ अनुकूलिनौ स्तः इदानीम्। मालिद्वीपः, नेप्पालः श्रीलङ्का च पाकिस्थानेन सह सुदृढसौहार्दे वर्तमानाः अपि भारतं विरोद्धुं अशक्ताः भवन्ति। अस्मिन्नवसरे एव चीना इरानः इत्यादिभिः अन्यैः मध्येष्याराष्ट्रैः  सह सहयोगेन नुतनीं कांचन समितिं रूपवत्कर्तुं  पाकिस्थानः चिन्तयति।

 नालिकां सम्यक् कृत्वा  फिग् ली पितामहः गिन्नस् पुस्तकं प्रविष्टवान्।
टोरोन्टो > जलनिर्गमन नालिकायाः दोषपरिहरण-समये मृत्युः भविष्यति तर्हि  ससन्तोषं स्वीकरोमि इति सः वदति। पञ्चषष्टि संवत्सराणि यावत् नालिकायाः दोषपरिहारकर्मसु व्यापृतस्य अस्य नाम गिन्नस् रेखायां आगतः अस्ति। द्वानवति वयस्क: कानडा देशीयः लोण् फिग् ली एव निरन्तरकर्मणा एवं लोकान् अतिशेते।

द्वितीये लोकसंग्रामे संयुद्ध्य आगतेन तेन ब्रोड् वे हीट्टिङ् लिमिट्टड् इति नाम्ना नालिकाकर्मकराणां संघः आयोजितः। ततः यावत्पर्यन्तं कुशलः कर्मकरः इति ख्यातिं सम्पादितवान्। पञ्चाशतधिक एकोनविंशति शततमे (१९५०) पठितेन अनेन कर्मणा सहर्षम् अद्यापि कालं याप्यते। अस्मिन् द्वानवति वयसि अपि विना वार्द्धक्यं अरोग दृढगात्रत्वेन एते विराजन्ते। आलस्यं विना स्वकर्मणि सानन्दं सोत्साहं वर्तते इति अस्य स्वास्थ्यस्य रहस्यम् इति सः वदति।

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

Thursday, October 13, 2016

पाम्पोर् सैनिकक्रिया समाप्ता - द्वावपि भीकरौ मारितौ। 
 श्रीनगरं - दिनत्रयात्मकसंघट्टनस्य अन्ते काश्मीरस्य श्रीनगरसमीपे पाम्पोर् प्रदेशे सर्वकारभवनस्य अन्तः प्रविष्टौ द्वावपि भीकरौ सैन्येन मारितौ। झलं नदीतीरे सर्वकारस्य संरम्भकत्व विकसन संस्थायाः [जे के ई डि ऐ] आवासमन्दिरे प्रविष्टौ भीकरौ एव मारितौ। संघट्टने एकः सैनिकः आहतः। भीकरसकाशात् विविधानि आयुधानि संगृहीतानि। सप्त निश्रेणीयुक्ते आवासमन्दिरे सोमवासरे आसीत् भीकरप्रवेशः। दिनत्रयदैर्घ्येण सैनिककर्मणा भवनस्थाः ६० प्रकोष्ठाः सुरक्षिताः इति कमान्डिङ् जनरल् आफीसर् अशोक् नरूलवर्येण उक्तम्।
विरामं विना प्रधानमन्त्री।
नवदेहली>प्रधानमन्त्रिणः विरामः नास्ति इत्येव सङ्कल्पः इति प्रधानमन्त्रिणः कार्यालयात् विज्ञप्तिः अभवत्। प्रधानमन्त्रिणे अवकाश लब्ध्यर्थं नियमः किम् इति ज्ञातुं सूचनाधिकार -नियमानुसारं दत्ते आवेदनपत्रे लब्धमुत्तरम् एवं आसीत्। भूतपूर्व -प्रधानमन्त्रिणः अवकाशान् अधिकृत्य कापि रेखा नास्ति इति ते वदन्ति। प्रधानमन्त्री नरेन्द्रमोदी इतःपर्यन्तं विरामः न स्वीकृतः इति च ते वदन्ति।

बन्धुनियुक्तिविवादः - जयराजस्य त्यागपत्राय सम्मर्दः। 
कोच्ची >केरलस्य उद्योगविभागमन्त्री ई पि जयराजः सुप्रधानस्थानेषु स्वबन्धुजनेभ्यः अनर्हं  नियुक्तिम् अदात् इति विषये स्व जनपक्षपातः भ्रष्टाचारः इत्यादिकमुन्नीय जयराजस्य स्थानत्यागाय सम्मर्दः वर्धितः। प्रश्ने अस्मिन् तीव्रं परिष्करणमावश्यकमिति सि पि एम् दलस्य केन्द्रनेतृत्वेन निर्दिष्टम्। निर्णयः राज्यनेतृत्वाय कल्प्यते।
    तथा च केरलस्य विपक्षदलनेतृभिरपि नीतिन्याययुक्ताय क्रियाविधये परिदेवनानि समर्पितानि। जाग्रतासंस्थया त्वरितपरिशोधनां कर्तुं निर्णयः अद्य स्यादिति प्रतीक्षते।

संस्कृताध्यापकानां राज्यस्तरीयमेलनं फेब्रुवरी मासे।
कोषिक्कोट्> केरळ संस्कृताध्यापक फ़ेडरेशन् नामकीयस्य -दलस्य संवत्सरीय-सम्मेलनस्य मुखचित्रं प्रकाशितम्। ह्यः कोषिकोट् जनपथे आयोजिते कार्यकारिणीमेलने कोण्ग्रस्  राजनैतिक दलीयेन लोकसभासदस्येन एम् के राघवेन मुखचित्रम् (Logo) स्वागतसंधाध्यक्षाय पि.वी गंङ्गागाधराय दत्वा प्रकाशितम्। फेडरेषनस्य अध्यक्षः वेणु चोव्वल्लूर्, पी जी अजित् प्रसाद्, टी के सन्तोष् कुमार्, बिजु काविल् , के पि श्रीधरन् सी पी सुरेष्‌ बाबु, एम् सि रतीष् प्रभृतयः भाषणमकुर्वन् । २०१७ फेब्रवरि २,३,४ दिनेषु कोषिक्कोट् जनपथे संवत्सरीय-समारोहः प्रचलिष्यति। दलस्य अस्य एकोन चत्वारिंशत्तमस्य संवत्सरस्य समारोहः भवति अयम्।  केरळदेशस्य संस्कृताध्यापकानां दलः भवति के एस् टी एफ्(KSTF)। विभिन्न राजनैतिक दलीयाः अस्मिन् एकमनसा कार्यं कुर्वन्ति।

Wednesday, October 12, 2016

कण्णूरे राजनैतिकनिहनानि न समाप्यते;  एकोfपि हतः। 
कोच्ची > केरळे कण्णूर् जनपदे नरहत्यापरम्परायाः शमनं नास्ति। सि  पि एम् - भा ज पा दलयोः  समवायरहितायां  परस्परप्रतियोगितायां एकैकः अकालमृत्युं प्राप्नोति। सोमवासरे कूत्तुपरम्प् प्रदेशे सि पि एम् दलीयः आर् एस् एस् प्रवर्तकैः निहतः। तस्य प्रतीकाररूपेण अद्य भाजपा प्रवर्तकः सि पि एम् दलीयैः निहतः।
पुनर्विन्यासः न समाप्तः, स्थानभ्रष्टाः अध्यापकाः क्लिश्यन्ते।
कोच्ची>केरळे संरक्षणीयाध्यापकानां पुनर्विन्यासक्रियाविधयः अद्यावधि न समाप्तिमुपगताः इत्यतः स्थानभ्रष्टाः नवशतम् अध्यापकाः महान्तं क्लेशमनुभवन्ति। एते सर्वे सर्वकारस्य निर्देशमनुसृत्य मातृविद्यालयं प्राप्य उपस्थितिं  कृतवन्तः तथापि मासत्रयं यावत् वेतनं नोपलब्धवन्तः।
    विनष्टपदानाम्  अध्यापकानां पुनर्विन्यासमधिकृत्य सामान्यशिक्षाविभागेन आदेशः विज्ञापितः। किन्तु अस्यां नामावल्यां ये नान्तर्भूताः, ते अधुना त्रिशङ्कुस्वर्गप्राप्ताः अभवन्।

 Ps.2>अफगानिस्तानस्य राजधान्याम् आतंक्याक्रमणम्
काबूल् >अफगानिस्तानस्य राजधान्यां काबुलनगर्यां  शियादरगाह इति पूजास्थले संजाते आतंक्याक्रमणे चतुर्दशजनाः कालकवलिताः  षडविंशतिश्च व्रणिताः संसूच्यन्ते, मृतकेषु एकः आरक्षिभटः अपि सम्मिलितः| आक्रमणमिदं मोहर्रमपर्वणः प्राक् विहितम् आक्रमणकारिणः पूर्वमेव तस्मिन् स्थले प्रविष्टाः अनन्तरं बंधने निगड्य गोलिका प्रहृताः, अधिकारिणां मतानुसारि आतंकिभिः सैन्यपरिधानस्यावरणं विहितम्, ध्यानस्पदं यत् समेपि आतंकिनः निहताः

जयललितायाः उत्तरदायित्वानि पनीर् शेल्वं प्राप्नुवन्ति।
    चेन्नै> आतुरालयं प्रविष्टायाः तमिल् नाट् मुख्यमन्त्रिण्याः जयललितायाः कर्तव्यानि राज्यधनमन्त्रिणे पनीर शेल्वाय समर्पितानि। राज्यपालस्य  विवेचनाधिकारम् उपयुज्यैव अयं क्रियाविधिः।
     जयललितायाः आतुरालयवासः अनिश्चितकालम् अनुवर्तते इत्यतः अयमेव मार्गः करणीयः इति राज्यपालवृत्तैः निगदितम्। किन्तु मुख्यमन्त्रिस्थाने जयललिता अनुवर्तिष्यते। तथापि मन्त्रिसभामेलनेषु पनीर् शेल्वः अध्यक्षपदमलङ्करिष्यति इति राज्यपालेन विद्यासागर् रावु वर्येण स्पष्टीकृतम्।
     चिकित्सार्थं चेन्नै अप्पोलो आतुरालयं प्रविशत्याः जयललितायाः  विंशति दिनानि अतीतानि। तत्र अतितीव्रपरिचरणविभागे सत्यां राज्यशासनं स्तम्भितमिति विपक्षारोपणं प्रतिरोद्धुं तथा च प्रतिव्यवस्था आवश्यकीति केन्द्रसर्वकारस्य तात्पर्यं च परिगणय्य जयललितायाः उपदेशानुसारमेव अयं क्रियाविधिः।
सोपानम् -14 Gouri Nandana & Gayatrai Prasad, Vivekananda Vidyamandir, Kangazha, Kottayam.

Tuesday, October 11, 2016

विवेकानन्द विद्यामन्दिरम् कङ्ङ्षा 11-10-2016


 सुशक्तराष्ट्राय सशक्तं बलमपेक्षते - प्रधानमन्त्री। 
नवदिल्ली >यदि राष्ट्रस्य सैन्यम् ऊर्जस्वलं भवति तर्हि राष्ट्रं सुशक्तं भवेदिति पण्डिट् दीनदयाल् उपाध्यायस्य भणितमुद्धृत्य भारतप्रधानमन्त्री नरेन्द्रमोदी अब्रवीत्। भारतं पाकिस्थानं विरुध्य आयोजितम् आकस्मिकाक्रमणं संस्मृत्य एव मोदिवर्यस्य प्रतिकरणम्। दीनदयाल् उपाध्यायस्य सम्पूर्णकृतीनां प्रकाशनं निर्वहन् भाषमाणः आसीत् प्रधानमन्त्री।
     राष्ट्रं सुशक्तं भवति इत्यस्य यस्यकस्यापि प्रतिद्वन्दी भवतु इत्यर्थः नास्ति। अस्माकं सुरक्षा एव तेन लक्ष्यते। प्रातिवेशिकराष्ट्रं कदापि न लक्ष्यीक्रियते। अपि च मात्सर्ययुक्ते लोके राष्ट्रस्य सुरक्षा अनिवार्या  भवति इत्यपि मोदिना उक्तम्।

पुनर्विन्यासः न समाप्तः, बहिर्भूताः अध्यापकाः क्लिश्यन्ते। 
कोच्ची >केरळे संरक्षिताध्यापकानां पुनर्विन्यासक्रियाविधयः अद्यावधि न समाप्तिमुपगताः इत्यतः स्थानभ्रष्टाः नवशतम् अध्यापकाः महान्तं क्लेशमनुभवन्ति। एते सर्वे सर्वकारस्य निर्देशमनुसृत्य मातृविद्यालयं प्राप्य उपस्थितिं  कृतवन्तः तथापि मासत्रयं यावत् वेतनं नोपलब्धवन्तः।
    विनष्टपदानाम्  अध्यापकानां पुनर्विन्यासमधिकृत्य सामान्यशिक्षाविभागेन आदेशः विज्ञापितः। किन्तु अस्यां नामावल्यां ये नान्तर्भूताः, ते अधुना त्रिशङ्कुस्वर्गप्राप्ताः अभवन्।
सम्प्रतिवार्तायां संस्कृतपत्रकारितायां पठनवर्गः।
सम्प्रतिवार्ताः अन्तर्जाल-संस्कृतदिनपत्रिकाद्वारा  संस्कृतपत्रकारितायां पठनवर्गः आरभ्यते। अस्मिन् विजयदशमीदिने शुभारम्भः भवति। संस्कृत-बिरुदधारिणः तथा अध्यापकछात्रान् च उद्दिश्य आयोज्यमानः अयं पठनवर्गः षण्मासपर्यन्तं प्रचाल्यमानैः  अभ्यासकार्यक्रमैः भविष्यति। एतादृश ऑण् लैन्‌ वर्गः भारते प्रप्रथममेव। वर्गस्यास्य निर्देशकः प्रौढः वार्तावतारकः डॉ. बलदेवानन्दसागरः भवति ।

अद्य विजयदशमी।
कालटी> विजयदशमी विद्यारम्भाय शुभदिनमिति गण्यते । अतः मन्दिरेषु अन्येषु सांस्कृतिकनिलयेषु च विद्यारम्भकार्यक्रमाः आयोज्यन्ते।
    कर्णाटकायां कोल्लूर मूकाम्बिकायां तथा  केरलेषु तिरूर् तुञ्चन्परम्प्, चिट्टूर् तुञ्चन् मठं, कालटि आदिशङ्कर जन्मस्थानं, पनच्चिक्काट्, परवूर् , चोट्टानिक्करा, इत्यादिषु प्रसिद्धेषु देवीमन्दिरेषु च सहस्रशः बालकाः विद्यादेवताम् उपासयन्तः अक्षरशिक्षाप्रारम्भं कुर्वन्ति।


शीतलपानीयेषु आरोग्यहानिकराः लोहाः।
नवदेहली>भारते विपणनं क्रियमाणेषु कोक्कोकोला, पेप्सी, स्प्रैट् मौण्टन् ड्यू, सेवन् अप्  इत्यादिषु शीतलपानीयेषु मानवस्वास्थ्यविनाशकारिणः पञ्चविधाः लोहांशाः अन्तर्भवन्तीति बहिरागतैः वृत्तान्तैः सूच्यते। लेड्, क्रोमियं, काड्मियं, डि ई एछ् पि,फत्तालेट् एते लोहांशाः एव कोल्क्कत्तायां विद्यमानायां All India Institute of Hygiene and Public health नामिकायां संस्थायां कृते समीक्षणे प्रमाणीकृताः। केन्द्रस्वास्थ्यमन्त्रालयस्य निर्देशानुसारमासीत् समीक्षणम्।
 बालकेभ्यः रुच्यमानं पानीयम् इत्यस्मात् इदं समीक्षणफलम् आशङ्काजनकं वर्तते। मस्तिष्क-वृक्कादि अवयवेषु प्रतिकूलतया प्रवर्तते इत्यतः बालकानां शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।
रुचिकरं यत् तत् सर्वं न भोक्तव्यम् , तत् अस्माकं शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।

Monday, October 10, 2016

 केरळे नवरात्रिमहोत्सवस्य इदानीं शुभपर्यवसानम्
 श्वः विजयदशमी।
Sreekurumba Bhagavati Temple, Near Cochin Airport

जाप्पनीयवैज्ञानिकाय य़ोषिनोरीवर्याय वैद्यशास्त्रस्य नोबेल् पुरस्कारः 
टोकियो> जाप्पनीयवैज्ञानिकः योषिनोरी ओसुमी इत्याख्यः वैद्यशास्त्रस्य नोबेल् पुरस्कारेण समादृतः। ओटोफागी  इत्यभिधेयं शरीरकोशानां पुनःचंक्रमणम् अधिकृत्य अनुसन्धानाय एवायं पुरस्कारः। अर्बुदं पार्किन्सण् प्रमेहः इत्यादीनां रोगाणां चिकित्सायां महती प्रगतिः ओसुमीवर्यस्य अनुसन्धानेन भविष्यतीति नोबेल् पुरस्कारसमित्या उल्लिखितम्।

 भारतं  कदापि न आक्रमणकारी
बार्मेर् > अन्येषाम् आस्थानं गत्वा आक्रमितुं शीलं भारतस्य नास्ति। किंतु यदि कोऽपि अस्मान् आक्रमितुं आगतः चेत् रिक्तहस्तः सन् तं निवर्तयितुं न अनुमन्यामहे इति अभ्यन्तर मन्त्री राजनाथ सिंहः अवदत् । सीमासन्धिरेखां उल्लंघ्य भारतसेनया कृतशत्रुशिबिरस्य भग्नीकरणं अधिकृत्य भाषमाणः सः अस्माकं सुरक्षार्थं तदनिवार्यमासीत् इति  उत्प्रेक्ष्य सज्जीकृतस्वरक्षाजाग्रतादिकं अवालोकयत् च।
फ्लट् लईट् संविधानं सीमाभित्तेः समान्तरतया मार्गस्यनिर्माणं च सीमारक्षकेभ्यः उद्दिश्य क्रियते इतिच सह अवदत्। मुनबवो सीमा केन्द्रस्य सन्दर्शन काले एव सैनिकानां एतादृशं उक्तिं न्यवेदयत्। लोकाः  सर्वाः  एकस्मिन्  कुटुम्बे अन्तर्भवन्ति इति विचारयन्तः भवन्ति अस्माकं जनाः किन्तु वयं धीराः कार्यकुशलाश्च। शत्रोः

Sunday, October 9, 2016

 शान्तेः कृते नोबेल् पुरस्कारः कोलम्बियाराष्ट्रपतये।
ओस्लो - विश्वशान्त्यर्थं दीयमनाय नोबेल् पुरस्काराय अस्मिन् संवत्सरे कोलम्बिया देशस्य राष्ट्रपतिः हुवान् मानुवल् सान्टोसः अर्हति। राष्ट्रे द्विपञ्चाशत् वर्षाणि यावत् अनुवर्तितम् आभ्यन्तरयुद्धं शमयितुं कृताय प्रयत्नाय एव पुरस्कारः।
    आधुनिककाले विद्यमानेषु कालदैर्घे्येन बृहत्तमेषु आभ्यन्तरयुद्धेषु अन्यतमाय शान्तिसम्पूर्णं  शाश्वतपरिहारं कर्तुं सान्टोसः प्रयतितवान् इति पुरस्कारसमित्या निरीक्षितम्।

मात्यू प्रचण्डवातः - मरणानि उपसहस्रम्।
फ्लोरिडा > अमेरिक्काभूखणडे हेय्तिप्रदेशे ताण्डवनृत्तं कृतवान् मात्यु इत्यावर्तप्रचण्डवातः उपसहस्रं जनान् कालपुरीम् अगमयत्। दशसहस्राणां तद्देशवासिनां भवनानि विशीर्णमुपगतानि।
   इदानीं फ्लोरिडाप्रविश्यां प्रविष्टः मात्यू तस्य संहारनृत्तम् अनुवर्तते। फ्लोरिडायां एतदाभ्यन्तरे चत्वारि मरणानि सूचितानि। फ्लोरिडा, जोर्जिया, दक्षिणकरोलिना इत्येतासु प्रविश्यासु अपि राष्ट्रपतिना बराक् ओबामा वर्येण त्वरितशासनप्रक्रिया प्रख्यापिता। प्रतिहोरां ११० योजना वेगेनैव प्रचण्डवातः वाति।

 RN1आलियार् जलसमस्याविषये चर्चा नास्ति-तमिल्नाटु।
 नवदहली > परम्पिक्कुलम्-आलियार् जलवितरणविषये चर्चा आवश्यकी इति केरलस्य निर्देशः तमिल्नाटु सर्वकारेण तिरस्कृतः। विषयेऽस्मिन् चर्चायै ओक्टोबर् २१ दिनाङ्के संयुक्तजलक्रमीकरणयोग: सञ्चालनीय: इति केरलस्य निर्देशः तमिल्नाटु सर्वकारेण तिरस्कृतः। योगेऽस्मिन् तमिल्नाटु सर्वकारस्य भागभाक्त्वं न भविष्यतीति अधिकृतैः सूचितम्। परम्पिक्कुलम्-आलियार् पद्धतिमनुसृत्य केरलस्य कृते दीयमानं जलं लब्धुम् आवश्यकः व्यवहारः केन्द्रसर्वकारेण स्वीकरणीयः इति संसूच्य केरलसर्वकारेण निवेदनं दत्तमासीत्।

Saturday, October 8, 2016

शीतलपानीयेषु आरोग्यहानिकराः लोहाः। 

भारते विपणनं क्रियमाणेषु कोक्कोकोला, पेप्सी, स्प्रैट् मौण्टन् ड्यू, सेवन् अप्  इत्यादिषु शीतलपानीयेषु मानवस्वास्थ्यविनाशकारिणः पञ्चविधाः लोहांशाः अन्तर्भवन्तीति बहिरागतैः वृत्तान्तैः सूच्यते। लेड्, क्रोमियं, काड्मियं, डि ई एछ् पि ,फत्तालेट् एते लोहांशाः एव कोल्क्कत्तायां विद्यमानायां All India Institute of Hygiene and Public health नामिकायां संस्थायां कृते समीक्षणे प्रमाणीकृताः। केन्द्रस्वास्थ्यमन्त्रालयस्य निर्देशानुसारमासीत् समीक्षणम्।
      बालकेभ्यः रुच्यमानं पानीयम् इत्यस्मात् इदं परिशोधनाफलम् आशङ्काजनकं वर्तते। मस्तिष्क-वृक्कादि अवयवेषु प्रतिकूलतया प्रवर्तते इत्यतः बालकानां शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।

Friday, October 7, 2016

एष्यायाः बृहत्तमा कलामेला जनुवरिमासे

अनन्तपुरी> केरले अस्य संवत्सरस्य राज्यस्तरीयविद्यालयकलामेला २०१७ जनवरिमासे कण्णूर् जनपदे प्रचलिष्यति। कोच्ची मेट्रो निर्माणकारणेन पूर्वनिश्चितात् एरणाकुलं जनपदात् इदं परिवर्तनम्। राज्यस्तरीयविद्यालयकायिकमेला मलप्पुरं जिल्लायां भविष्यति।

गुट्टरस् ऐक्यराष्ट्रसभायाः नूतनाध्यक्षः भवितुमर्हति
युणैटड् नेषन्स् - पोर्चुगल् देशस्य भूतपूर्वप्रधानमन्त्री अन्टोणियो गुट्टरस् ऐक्यराष्ट्रसभायाः नूतनाध्यक्षः भवितुमर्हति। यू एन् रक्षासमित्यां सम्पन्ने षष्ठे मतदाने गुट्टरसः अग्रिमस्थानं प्राप्तः। अस्मिन् संवत्सरान्ते विरम्यमानस्य बान् कि मूण् वर्यस्य अनुगामी भवत्येषः।

Thursday, October 6, 2016

वार्तामुक्तकानि
अनन्तपुरी >केरलराज्यस्य न्यूनपक्षादेशस्य अध्यक्षरूपेण पि.के. हनीफः कर्तव्यतां स्वीकृतवान्। राज्यस्य दक्षतासंस्थायाःपञ्जिकाधिकारी - ,जनपदन्यायाधीशः इत्यादिरूपेणापि तेन सेवनमनुष्ठितम्। आदेशस्य वनितासदस्यारूपेण बिन्दु एम् तोमसः कर्तव्यताप्राप्तिम् आरूढवती।

नवदिल्ली >जम्मु काशमीरस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृतवती। सीमाविषयाः काश्मीरस्य संघर्षस्थितिः इत्यादयः चर्चिताः।
सोपानम्-13 News Presenting- By 
Sreelakshmi G 
Bhavans Varuna Vidyalaya
Thrikkakkara, Ernakulam.

कावेरीजलं दास्यतीति कर्णाटकम्। 
बङ्गुलुरू >कावेरीनदीतटे वर्तमानेभ्यः कृषकेभ्यः कार्षिकवृत्यर्थं नदीजलं दातुं सन्नद्धमिति कर्णाटकराज्येन निश्चितम् । एतदनुकूलं निश्चयपत्रं [प्रमेयः] कर्णाटकस्य द्वाभ्यां विधानसभाभ्यामपि अङ्गीकृतम्।
     कावेरीजलं तमिळ्नाट् राज्याय निश्चयेन देयमिति सर्वोच्चन्यायालयस्य कर्कशादेशस्य आधारे एवायं निश्चयः। विधानसभायाम् अवतारिते निश्चयपत्रे यद्यपि तमिळनाट् राज्यस्य नाम नोल्लिखितं तथापि तत्रत्यानां कृषकाणामपि जलं लभ्येत। किन्तु दीयनानस्य जलस्य परिमाणमधिकृत्य निर्णयः नाभवत्।
आर् बि ऐ संस्थया धनमूल्यानि न्यूनीकृतानि।
मुम्बई> रिसर्व् बेङ्क् संस्थायाः नवीनराज्यपालरूपेण ऊर्जित् पटेलस्य स्थानारोहणानन्तरं तेन प्रख्यापिते प्रथमे धन-ऋणनये आधारप्रमाणानि प्रतिशतं ०.२५ परिमितम् ऊनीकृतानि। यदि एनम् अपहारम् उपभोक्तृजनेभ्यः समर्पयितुं वाणिज्यवित्तकोशाः सिध्यन्ति तर्हि भवन- वाहन ऋणानां वृद्धिरपि न्यूनीभविष्यति।
    वाणिज्यबेङ्कानां कृते रिसर्व् बेङ्केन दीयमानानां ऋणानां वृद्धिरूपं रिप्पोमूल्यमेव प्रतिशतं ६.५ इत्यस्मात् प्रतिशतं ६.२५ प्रमाणत्वेन न्यूनीकृतम्। तथा च वाणिज्यवित्तकोशानां निक्षेपाय रिसर्वबाङ्केन दीयमानं वृद्धिरूपं"रिवेर्स् रिप्पो" एतस्मिन् अनुपाते ऊनीभूय प्रतिशतं ५.७५ इत्यभवत्।

Wednesday, October 5, 2016

 पाक् - भारतसीमा संघर्षभरिता - सीमासुरक्षाबलम्। दिल्ल्यां जाग्रतानिर्देशः। 
नवदिल्ली >भारत - पाकिस्थानयोः सीमाप्रदेशेषु सङ्घर्षावस्था वर्तते इति सीमासुरक्षासेनया स्पष्टीकृतम्। सीमायाः शतमीटर् समीपं यावत् पाकिस्थानस्य मानवरहितविमानानि दृष्टानीति सीमारक्षाबलस्य निदेशकप्रमुखः के के शर्मा अवदत्। मङगलवासरे प्रातःकाले अमृसरजनपदे रविनद्याः पाकिस्थानस्य नौकाः गृहीताः। अतः राष्ट्रराजधान्यां नवदिल्ल्यां कर्शनः जाग्रतानिर्देशः घोषितः। तथा च यं कमपि प्रतिसन्धिम् अभिमुखीकर्तुं भारतसेनाः सुसज्जाः इति वायुसेनाधिकारिणा अरूप् राहा वर्येणोक्तम्।

वार्तामुक्तकानि।

टोरण्टो [कानडा] >- त्रिदिनसन्दर्शनार्थं भारतवित्तमन्त्री अरुण् जेय्ट्ली कानडादेशं सम्प्राप्तवान्। उभयोरपि राष्ट्रयोर्मध्ये क्रियमाणं वित्तीयसन्धिम् अधिकृत्य चर्चिष्यति।

नवदिल्ली > बुक्कर् पुरस्कारजेत्री अरुन्धती राय् १९ संवत्सराणाम् अन्तरालानन्तरं तस्याः नूतनामाख्यायिकां [नोवल्] प्रसिद्धीकर्तुमुत्सहते। आगामिनि जूण् मासे 'दि मिनिस्ट्री आफ् अट्मोस्ट् हाप्पिनस् ' इत्याख्यः ग्रन्थः प्रकाशयिष्यते।

इम्फाल्> मणिप्पूर्- म्यान्मर् सीमायां इस्लामीयग्रामसमीपे गतदिने बोम्बस्फोटनं संवृत्तम्। आरक्षकैः असम रैफिल्स् संघेन च अन्वेषणम् आरब्धम्। स्फोटनकारणं न प्रकाशितम्।

स्टोक् होम् > जाप्पनीयशास्त्रज्ञः योषिनोरी ओसुमी इत्याख्यः वैद्यशास्त्रस्य नोबेल् पुरस्कारेण समादृतः। ओटोफागी  इत्यभिधेयं शरीरकोशानां पुनःचंक्रमणम् अधिकृत्य अनुसन्धानाय एवायं पुरस्कारः! अर्बुदं पार्किन्सण् प्रमेहः इत्यादीनां रोगाणां चिकित्सायां महती प्रगतिः ओसुमीवर्यस्य अनुसन्धानेन भविष्यतीति नोबेल् पुरस्कारसमित्या उल्लिखितम्!

Tuesday, October 4, 2016

आगोलतापनं विरुध्य भारतस्य युद्धप्रख्यापनम् - पारीस् अभिमतं स्थिरीकृतम्।
न्यूयोर्क्> पर्यावरणपरिवर्तनं सम्बध्य पारीस् अभिमतं प्रवृत्तिपथम् आनयिष्यतीति विज्ञापनं भारतेन ऐक्यराष्ट्रसभायै समर्पितम्। राष्ट्रपतिना प्रणब् मुखर्जी वर्येण हस्ताक्षरीकृतं स्थिरीकरणपत्रं गान्धिजयन्तीदिने भारतस्य स्थिरप्रतिनिधिः सय्यिद् अक्बरुद्दीनः ऐक्यराष्ट्रसभायाः सन्धिविभागाध्यक्षाय सान्टियागो विलाल् पाण्डवे समर्पितवान्।
     आगोलतापननियन्त्रणार्थंम् उद्दिष्टे अनुज्ञापत्रे भारतसहितानि १८५ राष्ट्राणि गतडिसंबरमासे पारीस् मध्ये हस्ताक्षरं कृतवतः आसन्। एषु ६१ राष्ट्रैः अनुज्ञापत्रस्य क्रियाविधिप्रख्यापनं कृतम्। अधुना भारतस्यापि स्थिरीकरणप्रख्यापनेन अस्मिन् संवत्सरे एव सन्धिः प्रवृत्तिपथम् आनेष्यति।

केरळे ऐ एस् शाखा - दशाङ्गसंघः  गृहीतः।
कण्णूर्>इस्लामिक् स्टेट् ऐ एस् इति भीकरसंस्थां प्रति युवकान् आकृष्टुं केरले प्रयोगाभ्यासं लब्धाः ३० अङ्गसंघः प्रवर्तते। अन्सार् उल् खलीफा इत्यस्मिन् नाम्नि एव ऐ एस् संस्थायाः केरळविभागः स्वयं व्यवह्रियते।
    गतदिने कण्णुरस्थे कनकमला, कोष़िक्कोटस्थे कुट्ट्याटि, तमिळ्नाटस्थे कोयम्पुत्तूर् तथा तिरुनल्वेली इत्यादिभ्यः प्रदेशेभ्यः दश युवकाः एन्  ऐ ए संस्थया प्रगृहीताः।
    कोच्चीमध्ये सम्पन्नस्य जमा अत्ते इस्लामी सम्मेलनस्य वेदिकां प्रति लोरियानविध्वंसनसहिताः नैकाः पद्धतयः तैः आकल्पिताः आसन्। केरलस्य चतुरः प्रमुखान् उन्मूलयितुमपि पद्धतिरासीत् इति सूचना वर्तते।

Monday, October 3, 2016

कर्णाटकसङ्गीतज्ञः  Mr. Chong Chiu Sen. Malaysia.
संस्कृतस्य वर्तमानचित्रं परिवर्तनमपेक्षते - चमू कृष्णशास्त्री।
कोच्ची> संस्कृतभाषायाः आधुनिकं मुखं  लोकाभिमुखं कर्तुम् आपादमस्तकं परिवर्तनमपेक्षते इति केन्द्र-मानवविभवशेषिमन्त्रालयस्य भाषा-उपदेष्टा तथा संस्कृतभारत्याः शिक्षणप्रमुखः च.मू कृष्णशास्त्रिवर्यः उक्तवान्। संस्कृतभाषामधिकृत्य पौराणिकसङ्कल्पनात् आधुनिक वैज्ञानिकतन्त्रस्य साङ्केतिकविद्यायाश्च अनुरूपं मुखचित्रं परिकल्पनीयमिति तेन उक्तम्। पूर्णवेदपुर्यां पण्डितरत्नस्य डो. जि गङ्गाधरन् नायर् महोदयस्य सप्ततिप्रणामसभाम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
    संस्कृतं पारम्पर्यरीत्या प्रपठ्य नूतनसङ्केतान् उपयुज्य भाषायाः लोकव्यापनाय उत्साहमानः क्रियावान् पण्डितश्रेष्ठो भवति डो. जि गङ्गाधरन् नायर् महाशयः इति कृष्णशास्त्रिवर्येण उक्तम्। "अमानी मानदो मान्यः"  इति भगवद्विशेषणानि तस्मिन्नपि अनुयुक्तमिति तेन प्रकीर्तितम्।
     विश्वसंस्कृतप्रतिष्ठानस्य अमृतभारती विद्यापीठस्य च संयुक्ताभिमुख्ये प्रवृत्ते सप्ततिप्रणामसमारोहे प्रोफ.तुरवूर् विश्वम्भरः अध्यक्षपदमलंकृतवान्। श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य उपकुलपतिः डो. एम् सि दिलीप् कुमारः सुवर्णवस्त्रं धारयित्वा समादृतवान्। केसरी पत्रिकायाः भूतपूर्वमुख्यसम्पादकः एम् ए कृष्णः शुभाशंसां व्याहृतवान्।

Sunday, October 2, 2016

RN 17धीरसैनिकेभ्यः आदरसूचकं  'विज्ञाप्यचलनचित्रम्'।
नवदहली > भारतस्य धीरसैनिकेभ्यः आदरसूचकतया हीरो मोटोकोर्प् इति स्थापनेन निर्मितं विज्ञाप्यचलनचित्रं प्रचारं प्राप्नोति। हीरो मोटोकोर्प् संस्थायाः "हीरो सल्यूट्स् दि रियल् हीरोस्" इति विज्ञाप्यचलनचित्रम् अवतरणवैशिष्ट्येन समकालीनप्राधान्येन च प्रेक्षकहृदयानावर्जयति। भूतल-व्योम-नाविकसेनानाम् उद्योगस्थान् जनाः धीरतया अभिवादनं कृत्वा स्वीकुर्वन्ति इत्येव चलनचित्रस्य इतिवृत्तम्। स्वराष्ट्रं तथा राष्ट्रसंरक्षकान्‌ सैनिकान् च प्रति भारतजनतायाः स्नेहादरौ चलनचित्रेऽस्मिन् व्यक्तौ भवतः।

RN18कावेरीजलविवादः- भूतपूर्वः प्रधानमन्त्री एच्.डि.देवगौडा उपवाससंग्रामम् आचरति।
 बंगलुरु > कावेरी नदीजलतर्के परिहारतया उच्चतरन्यायालयेन कृते आदेशे प्रतिषेधं प्रकटय्य भूतपूर्वः प्रधानमन्त्री एच्.डि.देवगौडा अनिश्चितकालम् उपवाससंग्रामम् आचरति। कर्णाटकनियमसभायाः पुरतः एव समरः आरब्धः। उच्चतरन्यायालयादेशस्य प्रबलीकरणेन राज्यं कर्षकमरणानि अभिमुखीकुर्यात् इति सः सूचयति। तर्केऽस्मिन् परिहारमार्गान् आलोचयितुं कर्णाटकसर्वकारेण अद्य सर्वदलयोग: निश्चितः वर्तते।

RN19भारतेन सह ऐक्यदार्ढ्यं प्रख्याप्य मालिद्वीप् सार्क् मेलनात् प्रतिनिवृत्तिं न्यवेदयत्। 
नवदहली > नवम्बर् मासे पाकिस्थाने निश्चितात् सार्क् मेलनात् मालिद्वीप् राष्ट्रमपि प्रतिनिवृत्तिं न्यवेदयत्। तथा प्रतिनिवर्तितानां राष्ट्राणां संख्या ६ अभवत्। उरी भीकराक्रमणात्परं भारतेन सार्क् मेलनं बहिष्क्रियते इति प्रख्यापितमासीत्। ततः परं बंगलादेश्‌, अफ्गानिस्थान्, श्रीलङ्‌का, भूट्टान् च मेलनबहिष्करणं प्रख्यापितवन्तः आसन्। ५ राष्ट्राणां बहिष्करणेन सार्क्  मेलनस्य समयपरिवर्तनं पाकिस्थानेन ह्यः प्रख्यापितमासीत्। मेलनस्य नूतनदिनाङ्‌कः पश्चात् विज्ञाप्यते इत्येव पाकिस्थानस्य प्रतिकरणम् ।

RN20संस्कृतभाषापण्डितस्य डॉ.जि.गङ्गाधरन् नायर् महोदयस्य सप्ततिसमारोहः अद्य आघुष्यते।
Dr. G Gangadharan Nair
 तृपूणित्तुरा > संस्कृतभाषाप्रचारकस्य पण्डितरत्नस्य डॉ.जि.गङ्गाधरन् नायर् महोदयस्य सप्ततिसमारोहः रविवासरे सायं त्रिवादने वेदपूर्णपुर्यां लायं कूत्तम्बलं मध्ये आघुष्यते। विश्वसंस्कृतप्रतिष्ठानम् अमृतभारती विद्यापीठः च कार्यक्रमस्यास्य संघाटकौ भवतः। "सप्ततिप्रणामं" इत्येव  समादरणसमारोहस्य नाम दत्तं वर्तते। कार्यक्रमस्याऽस्य उद्‌घाटनं केन्द्रसर्वकारस्य भाषाविभागोपदेष्टा संस्कृतभारत्याः शिक्षणप्रमुख: च च.मू.कृष्णशास्त्री महोदयः करिष्यति। प्रफ. तुरवूर् विश्वम्भरः कार्यक्रमस्य अध्यक्षपदम् अलङ्‌करिष्यति। समारोहानुबन्धतया 'कर्णभारम् 'इति संस्कृतनाटकम् अन्ये संस्कृतकार्यक्रमाः च वर्तन्ते।
   संस्कृतशास्त्रग्रन्थेषु तथा रष्यन् भाषायाञ्च अगाधपण्डितः भवति डा.जि गङ्गाधरन् नायर् महोदयः। १९७९ तमे वर्षे अस्य महोदयस्य नेतृत्वे एव विश्वसंस्कृतप्रतिष्ठानम् संस्कृत-सम्भाषणशिबिरकार्यक्रमः आरब्धः। एतैः शिबिरै: लक्षाधिकाः जनाः संस्कृतसम्भाषणसामर्थ्यम् आर्जितवन्तः सन्ति।
      शताधिकानां गवेषणप्रबन्धानां तथा संस्कृतव्याकरणचरितं, संस्कृतप्रबोधनं, संस्कृतसन्दीपनी इत्येतेषां ग्रन्थानां कर्ता भवति गङ्गाधरन् नायर् महोदयः। तृपूणित्तुरा संस्कृतकलालये व्याकरणविभागाध्यक्षः आसीत् अयं महाभागः। अधुना गङ्गाधरन् नायर् महोदयः कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कार्यविचारसभाङ्ग: भवति। पोण्डिच्‍चेरी फ्रञ्च् शिक्षाकेन्द्रस्य प्रयुक्तिपुरुषः, अमृतभारती विद्यापीठस्य संस्थानाध्यक्षः, चिन्मया इन्टर्नाषनल् फौण्डेषन् - शोधसंस्थान् इति केन्द्रस्य निदेशकसमितेः अध्यक्षः, शारदागुरुकुलस्य कुलपति:, सम्प्रतिवार्तायाः रक्षाधिकारी  इत्येवं बह्वीनां संस्कृतप्रचारणपद्धतीनां कार्यनिर्वाहकः भवति अयं भाषापण्डितः। अपि च आधुनिकसाङ्केतिकमाध्यमैः आभारतं तथा विदेशराष्ट्रेषु च बहुभ्यः जनेभ्यः संस्कृतशास्त्रग्रन्थानधिकृत्य शिक्षणं ददात्ययं महोदय:।

विः१६५,२५० कोटिरूप्यकाणां व्याजधनम् प्रकाशितम्।
नवदिल्ली> केन्द्रसर्वकारेण पूर्वस्मिन् आयव्ययपत्रके प्रख्यापितायाः अलीकधनप्रकाशनपद्धत्याः आनुकूल्येन ६४,७२५ जनाः ६५,२५० कोटिरूप्यकाणाम् अलीकधनानि प्रकाशितवन्तः। एतादृशधनस्य प्रतिशतं ४५ भागः सर्वकाराय लप्स्यते। नीतिन्यायव्यवहारेभ्यः अलीकधनिकानां मोचनाय केन्द्रसर्वकारेण जूण् प्रथमे दिनाङ्के आरब्धा इयं पद्धतिः सेप्तम्बर् ३० दिनाङ्के पर्यवसिता।
   पद्धत्यानुकूल्यभोक्तॄणां संख्यां रूप्यकसंख्यां च विना नाप्यन्यो वृत्तान्तो बहिगमयिष्यतीति धनमन्त्रिणा अरुण् जय्ट्लि वर्येण उक्तम्।

रविः२जयललितायाः स्वास्थ्यमधिकृत्य अभ्यूहः।
चेन्नै>शारीरिकास्वास्थ्येन अप्पोलो आतुरालयं प्रविष्टायाः  तमिल् नाट् मूख्यमन्त्रिण्याः जयललितावर्यायाः स्वास्थ्यविषयमधिकृत्य अभ्यूहः प्रचलति। तस्याः चिकित्सार्थं लण्टन् देशतः रिच्चार्ड् जोण् बियाल् नामकः भिषग्वरः आतुरालयं प्राप्त इति ए ऐ ए डि एम् के दलस्य वरिष्ठनेता पन्टुट्टी रामचन्द्रः अवदत्। तथा च तमिल् नाट् राज्यपालः विद्यासागररावः अप्पोलो आतुरालयं प्राप्य जयललितां संदृष्टवान्।

Saturday, October 1, 2016

 भारतस्य प्रतिक्रिया - भीकरकेन्द्रेषु आकस्मिकाक्रमणम्।
नवदिल्ली > उरि भीकराक्रमणस्य सप्ताहद्वयाभ्यन्तरे भारतेन शक्ता  प्रतिक्रिया कृता। पाक् अधीनकाश्मीरे सप्त भीकरपरिशीलनकेन्द्राणि विनाश्य अष्टात्रिंशत् भीकरान् यमपुरीम् अनयत्।
     स्थलसेनायाः उत्तरकमान्ड् विभागस्य नेतृत्वे रात्रौ आसीत् अप्रतीक्षिताक्रमणस्य प्रारम्भः। २५०चतुरश्रकिलोमीटर् परिमिते विस्तृतौ एव भारतसैन्यस्य आक्रमणम्। द्वौ पाकिस्थानसैनिकावपि आक्रमणे हतौ।
   अनन्तरं सर्वकारेण सर्वदलसम्मेलनं कृत्वा सैनिकव्यवहारमधिकृत्य विशदीकृतम्। सर्वाणि राज्यनैतिकदलानि आक्रमणे सहयोगं प्रादर्शयन् च।

 बीहारे सम्पूर्णमदिरानिरोधः उच्चन्यायालयेन निरस्तः।
पाट्ना> बीहारराज्ये नितीष्कुमारसर्वकारेण एप्रिल्मासादारभ्य प्रवृत्तिपथमानीतः सम्पूर्णमद्यनिरोधः पाट्ना उच्चन्यायालयेन निरस्तः। मदिरायाः निर्माण-विपणन- उपभोगाः सम्पूर्णतया निरोद्धुम् आविष्कृतः नियम एव निरस्तः। पौराय यदिष्टं तद्भोक्तुं पातुं च स्वातन्त्र्यं निराकरोति अयं नियमः इति नीतिपीठस्य निरीक्षणम्। बीहारविधानसभानिर्वाचनकाले नितीष्कुमारेण दत्तेषु वाग्दानेषु अन्यतम अासीत् सम्पूर्णमदिरानिरोधः। अधिकारप्राप्त्यनन्तरम् अयमादेशः जनैः सामान्यजनैः स्वीकृतश्च। किन्तु मदिराव्यापारिणः, मद्यनिर्मातरः इत्यादयः सर्वकारादेशं विरुद्ध्य नीतिपीठम् उपगतवन्तः आसन्।
R15 बृहस्पतेः उपग्रहे  जलसान्निध्यम्।
वाषिङ्टण् - सौरयूथस्य बृहत्तमग्रहस्य बृहस्पतेः यूरोप्पाभिधेये उपग्रहे जलबाष्पगणानां सान्निध्यं दृष्टमिति 'नासा'! सौरयूथे जीवस्य नितराम् अनुकूलावस्था यूरोप्पायामिति शास्त्रज्ञानाम् अनुमानम्! नासासंस्थायाः ' दि हबिल् स्पेस्' दूरदर्शिन्या एव जलबाष्पकणाः दृष्टाः! एते बाष्पकणाः२०० कि.मी.यावत् उद्गम्य उपग्रहस्य उपरितलं प्रति वर्षन्तीति मन्यते! इदानीं यावज्जलसञ्याः भूसमुद्रेषु सन्ति ततो द्विगुणं जलम् उपग्रहसमुद्रेषु वर्तते! किन्तु एतत् अतिघनशैत्यसंयुतैः हिमफलकैः आवृतमस्ति! अतः एतान् बाष्पकणान् समाहर्तुं शक्यते चेत् हिमफलकानामधः विद्यमानस्य जलस्य सविशेषताः व्वच्छेत्तुं शक्यते इति गवेषकानां प्रत्याशा!

Friday, September 30, 2016

नियन्त्रणरेखाम् अतिक्रम्य भारतस्य आक्रमणम्; ३८ भीकराः मृत्युमुपगताः।

डि जि एम् ओ रणवीरसिंहः वार्ता-सम्मेलने
नव देहली > नियन्त्रणरेखामधिक्रम्य पाक् अधीनकाश्मीरे निलीयानां भीकराणां शिबिरं प्रत्‍यासीत् भारत सेनायाः झटित्याक्रमणम्। बुधवासरे रात्रौ आसीत् सैन्येन कृतम् आक्रमणम् । भीकराणां नाशः अधिकः अभवत् । किन्तु एतादृशम् आक्रमणम् अनुवर्तितुम् इच्छा नास्ति इति डि जि एम् ओ रणवीरसिंहः वार्ता सम्मेलने अवदत्। पाकिस्थानतः आक्रमणानि भविष्यन्ति चेत् तानि प्रतिरोद्‌धुं भारतसेना सज्जा इति च सः असूचयत् । अष्टात्रिंशत् (३८) भीकराः सैनिकानां निशिताक्रमणे मृताः। भारतस्य पक्षे नाशः नासीत्।

सूक्ष्मासूत्रणेन एव आसीत् सैन्यस्य प्रक्रिया। नियन्त्रणरेखायाः अन्तर्भागे किलोमीट्टर् त्रयं यावत् गत्वा आसीत् सैन्यस्य इयं प्रक्रिया। इमम् अधिकृत्य राष्ट्रपतिः प्रणाब् मुखर्जी, उपराष्ट्रपति: हामिद् अन्सारिः, भूतपूर्वप्रधानमन्त्री मनमोहनसिंहः, जम्मू-कश्मीरस्य मुख्यमन्त्री मेहबूबा मुफ्‌तिः प्रभृतयः ज्ञातवन्तः आसन्।

उद्योगमण्डलात् रूक्षगन्धः - छात्राः परिक्लान्ताः। 
कोच्ची> केरळे एरणाकुलं जनपदे अम्पलमुकल् उद्योगमण्डले  रूक्षगन्धव्यापनेन समीपस्थे अम्पलमुकल् सर्वकारीयविद्यालये छात्रसहितानाम्  अनेकेषां शारीरिकास्वास्थ्यमजायत। त्रिंशत् छात्राः पञ्च अध्यापकाश्च आतुरालयं प्रवेशिताः। द्वौ छात्रौ अत्यासन्नविभागे स्तः।
   ह्यः प्रभाते उपनववादने एव परिभ्रान्तजनका इयं दुर्घटना संवृत्ता।  बि पि सि एल् कोच्ची रिफैनरी व्यवसायशालायाः फाक्ट् कोच्ची विभागस्य च मध्ये अयं विद्यालयः वर्तते। अन्तरिक्षे रूक्षगन्धे व्यापृते विद्यार्थिनः अवशाः बभूवुः। ततः ते  आम्बुलन्सादिभिः वाहनैः तृप्पूणित्तुरायां आतुरालयं प्रवेशिताः।

Thursday, September 29, 2016

 सविशेषपरिगणनापदं - भारतं पुनर्विचिन्तने।
नवदिल्ली>दशकद्वयं यावत् भारतं पाकिस्तानाय दीयमानं सविशेषपरिगणनाराष्ट्रम् इति स्थानम् उपसंहर्तुं पर्यालोचना आरब्धा। उरि भीकराक्रमणस्य पश्चात्तले पाकिस्तानं विरुध्य विभिन्नतलेषु नयतन्त्रपदक्षेपान्  शक्तीकर्तुम् एवायं चिन्तनम्।
     १९९६तमे संवत्सरे विश्वव्यापारसंस्थायाः गाट् सन्धिं परिगण्य एव एम् एफ् एन् इति सविशेषस्थानं ददौ।भारतेन सह पाकिस्तानमपि गाट् सन्धौ हस्ताक्षरम् विदधात्।
     तथा च सिन्धुनदीजलसन्धिमपि निराकर्तुं भारतं विचिन्तयदस्ति। किन्तु नदीजलसन्धिनिरासः पाकिस्तानं प्रति युद्धप्रख्यापनमिति परिगणयेदिति पाकिस्तानवृत्तैः उक्तम्।

कावेरी - तमिळनाटु कृते ६००० क्यूसेक्स् परिमितं जलं दातव्यमिति सर्वोच्चन्यायालयः।
नवदिल्ली>तमिल् नाट् राज्याय शुक्रवासरपर्यन्तं प्रतिदिनं ६००० क्यूसेक्स् परिमितं कावेरीजलं दातव्यमिति कर्णाटकराज्यं प्रति सर्वोच्चन्यायालयः पुनरपि निरादिशत्। नीतिपीठस्य आदेशः कर्णाटकविधानसभया देयकद्वारा तरणं कृतः तथापि दिनत्रयं यावदपि जलं निर्गमयितुमेव निर्देशः।
   कावेरीविषये राजनैतिकपरिहाराय दिनद्वयाभ्यन्तरे राज्ययुगलस्य मुख्यमन्त्रिणोः मेलनम् आयोजयितुं केन्द्रसर्वकारं प्रति निरादिशत्।