केरलराज्यस्तरीय संस्कृतदिनाचरणम् पालक्काट् जनपदे।
-राजकृष्णः श्रीकृष्णपुरम्
संस्कृतपठन पाठन विकासाय केरलसर्वकारेण बह्यः योजनाः आविष्कृताः। भारते प्रप्रथमं प्रथमकक्ष्यातः आरभ्य संस्कृतम् अध्येतुं व्यवस्था अद्य केरलेष्वेव वर्तते। अधुना केरले सर्वकारेण द्वादशतमं संस्कृतदिनाचरणम् समुचितरूपेण आयोज्यते ।
श्रावणपूर्णिमातिथौ एव संस्कृतदिनं आचरति । १९६९ तमे वर्षे यदा एं.सी. चग्ला वर्यः केन्द्रीय-मानव-संसाधन-मन्त्रिपदव्याम् आसीनः तदा प्रभृत्येव संस्कृत-दिनाचरणस्य प्रारम्भः अभवत्। आकाशवाण्यां संस्कृतवार्ताप्रसारः संस्कृतदिनाचरणं च सममेव प्रारभत। वाजपेयी सर्वकारः २०००-०१ वर्षः संस्कृतवर्षत्वेन समाचरत्। तदा प्रभृति संसकृतदिनाचरणं संस्कृतसप्ताहाचरणरूपेण पर्यणमयत्।
अस्य वर्षस्य राज्यस्तरीयः संस्कृतदिनाघोषः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् श्री. एं.पी. केशवप्पणिक्कर् नगरे (कृष्णकृपा सभागृहं, वटक्कन्तरा) आयोज्यते। केरल विधा




















