मेघस्य समीपे मेघव्याघ्रः। नागालाण्डे पर्वतश्रेण्यां अत्यपूर्वं दृश्यम्।
OUR YouTube Channel 1. SampratiVartah |
marquee
Sunday, January 9, 2022
Saturday, January 8, 2022
भारते कोविड् मरणानि प्रतिवेदितात् सप्तगुणितम् अधिकमिति अध्ययनानि सूचयन्ति।
नवदिल्ली> भारते कोविड्वैराणुबाधया मृतानां संख्या ३२ लक्षाधिका भवेत् इति अध्ययनानि सूचयन्ति। औद्योगिकतया प्रतिवेदितात् षट् वा सप्त वा गुणितानि मरणमुपगतानि भवेत् इति सर्वकारः तथा स्वतन्त्रवृत्तानि च उद्धृत्य अध्ययनानि सूचयन्ति। अस्य विशदं प्रतिवेदनं सयन्स् जेर्णल् मध्ये प्रकाशितम् अस्ति। कानडेषु टोरान्टो विश्वविद्यालयस्य प्राध्यापकस्य प्रभात् झा इत्यस्य नेतृत्वे अन्ताराष्ट्रगवेषकसंघैः एव अध्ययनं कृतम्।२०२० मार्च् मासादारभ्य २०२१ जूलाय् मासपर्यन्तं भारते सर्वेषु राज्येषु केन्द्रशासनप्रदेशेषु च कृताध्ययने १,३७,२८९ जनाः भागं स्वीकृताः। पूर्वसूचितकालाभ्यन्तरे ३२ लक्षं मरणानि अभवन्। तेषु २७ लक्षं मरणानि गते एप्रिल्-मेय् मासाभ्यन्तरे एव अभवन्।
इट्टली देशात् अमृतसरं प्रति विमानमार्गेण आगतानां १७३ यात्रिकाणां कोविड् रोगाणुबाधा दृढीकृता।
नवदिल्ली> इट्टलीराष्ट्रस्य रोमादेशात् अमृतसरं प्रति विमानमार्गेण आगतानां १७३ यात्रिकाणां कोविड्रोगबाधा दृढीकृता विमाने २८५ यात्रिकाः आसन्। पूर्वं इट्टलीदेशात् विमानमार्गेण आगतेषु १७९ यात्रिकेषु १२५ यात्रिकाः रोगबाधिताः आसन्।
Friday, January 7, 2022
पञ्चाबे सुरक्षाच्युतिः - भारतसर्वकारः कठिनप्रक्रमाय सज्जते।
नवदिल्ली> पञ्चाबे फिरोस्पुरे प्रधानमन्त्रिणः मोदिनः यात्रासन्दर्भे जाते सुरक्षाच्युतिमधिकृत्य अन्वेषणं समारब्धम्। अङ्गद्वयसहितस्य उन्नततलसमितेः नेतृत्वे अन्वेषणस्य प्रारम्भः अभवत् । कठिनप्रक्रमाः भविष्यन्ति इति केन्द्रसर्वकारेण प्रोक्तम्। प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतिं रामनाथकोविन्दं समेत्य घटनामिमां विशदीचकार। गुरुतमसुरक्षाच्युतौ राष्ट्रपतिना आशङका प्रकाशिता। घटनायां केन्द्रसर्वकारेण स्वयमेव प्रक्रमाः स्वीकर्तुं साध्यता अस्ति इति आप्तैः प्रतिवेदितम्। च्युतेः कारणभूतान् आरक्षकान् नवदिल्ल्याम् आहूय एस् पि जि नियमानुसारं प्रक्रमाः स्वीकरिष्यन्ति। अन्वेषणाय पञ्चाबसर्वकारेण समितिः नियोजिता इति राज्यसर्वकारवक्त्रा चण्डीगढे प्रतिवेदितम्।
भारते कोविडस्य तृतीयतरङ्गः ; रोगिणां प्रतिदिनसंख्या लक्षमुपगच्छति।
नवदिल्ली> भारते कोविड्महामार्याः तृतीयतरङ्गः आरब्धः इति सूचना प्रबला वर्तते। सर्वेष्वपि राष्ट्रेषु कोविड्बाधितानां प्रतिदिनसंख्यायां महद्वर्धनमनुभवति। गुरुवासरे समाप्ते २४ होराकाले ९०,९२८ जनाः रोगबाधिताः अभवन्। ३२५ मरणानि प्रस्तुतानि। ओमिक्रोणप्रभेदः २,६३० जनेषु दृढीकृतः। गतदिने ४९५ नूतनरोगिणः जाताः।
दिल्ल्यां गुरुवासरे १५,०९७ जनेषु कोविड् रोगः स्थिरीकृतः। भावात्मकतामानं १५ प्रतिशतमिति वर्धितम्। ६ मरणानि अभवन्। शनि-रविवासरेषु दिल्ल्यां सम्पूर्णं 'कर्फ्यू'नामकनिरोधनं विहितम्। तमिल नाट्, पञ्चाब्,ओडीषा, यू पि, बिहार, उत्तराखण्डः, मिसोराम् इत्यादीनि राज्यानि कोविड्परिशोधनां वर्धयितुमादिष्टानि।
Thursday, January 6, 2022
"आणवयुद्धः केनापि जेतुं न शक्यते" - पञ्चराष्ट्राणां संयुक्तप्रस्तावः।
वाषिङ्टणः> आणवयुद्धम् अण्वायुधस्पर्धां च निरोद्धुमादेशं कृत्वा प्रप्रथमतः पञ्च राष्ट्राणि प्रस्तावमकुर्वन्। चीनः फ्रान्स्, रूस्, ब्रिट्टन्,अमेरिक्का इत्येतेषां राष्ट्राणां नेतारः एव सम्भूय प्रस्तावं प्रकाशितवन्तः।
"आणवायुधानि परस्परं वा अन्यराष्ट्रान् विरुध्य वा अप्रयोक्तुम् उत्तरदायित्वं राष्ट्रेषु वर्तते। "दीर्घकालप्रत्याघातकारणभूताः आणवयुद्धाः येन केनापि कदापि जेतुं न शक्यन्ते। युद्धः कदापि न भवितुमर्हति।" इति प्रस्तावे स्पष्टीकृतम्। यू एन् संस्थायां स्थिराङ्गत्वेन वर्तमानान्येव एतानि राष्ट्राणि।
इट्टली - अमृतसर् विमाने आगतेषु १२५ यात्रिकेषु कोविड्रोणाणुबाधा दृढीकृता।
नवदिल्ली> इट्टलीराष्ट्रात् पञ्चाबराज्ये अमृतसरेषु विमानमार्गेण आगतेषु १२५ यात्रिकेषु कोविड्रोगाणुबाधा दृढीकृता। अमृतसरे वि के सेत्त् विमानपत्तनप्रवेशानन्तरं कृतायां परिशोधनायाम् एव विमानमार्गेण आगताः यात्रिकाः रोगबाधिताः इति दृढीकृताः। आहत्य १७९ यात्रिकाः एव विमाने आसीत्। सन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र रोगबाधितानां संख्या वर्धते। ह्यः राष्ट्रे रोगबाधितानां संख्या ९००० इति रेखाङ्किता अस्ति।
Wednesday, January 5, 2022
भारतस्य प्रधानमन्त्रिण: पञ्चाबदेशसन्दर्शनवेलायां बृहत् सुरक्षाच्युतिः। वाहनव्यूहः २० निमेषं यावत् उपरिपथे स्थगितः।
नवदिल्ली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चाबदेशसन्दर्शनवेलायां बृहत् सुरक्षाच्युतिः अभवत्। प्रधानमन्त्रिणः वाहनव्यूहः२० निमेषं यावत् उपरिपथे (fly over) स्थगितः। अतः अद्य फिरोस्पुरे समायोजितः मेलनकार्यक्रमः परित्यक्तः। यात्रां परित्यज्य प्रधानमन्त्री प्रतिनिवृत्तः च। हुसैनिवालस्थे राष्टियस्मृतिगृहे पुष्पचक्रमर्पयितुं गमनावसरे विरोधकैः (protesters) मार्गविघ्नः कृतः इति कारणेनैव उपरिपथे वाहनव्यूहः स्थगितः इत्येव प्रतिवेदनम्।
उदग्रयाने हुसैनिवालेषु गन्तुमेव प्रथमं निश्चितम्। किन्तु प्रतिकूलवातावरणहेतुना यानमार्गेण यात्रा समायोजिता। हुसैनिवालात् ३० किलोमीटर् दूरे वाहनव्यूहे प्राप्ते विरोधकाः मार्गविध्नमकरोत्। यानमार्गयात्रायाः पूर्वम् आरक्षकैः साकम् आमन्त्रणं कृत्वा सुरक्षितयात्रां दृढीकृत्य तदनन्तरमेव यात्रा समारब्धा। तदभ्यन्तरे एव विरोधकाः मार्गविघ्नमकुरुत। एस् एन् जि संघः प्रधानमन्त्रिणं बत्तिन्ड विमानपत्तनं प्रति नीतवन्तः। पञ्चाबसर्वकारस्य सकाशात् कृत्यविलोपः जातः इति केन्द्र आभ्ययन्तरमन्त्रालयेन निगदितम् ।
Tuesday, January 4, 2022
१२,००० । किलो भारयुक्तं लोकयानं केशैः आकृष्य भारतीयवनितया गिन्नस् अभिलेखः विरचितः।
गिन्नस् अभिलेखेषु स्थानं प्राप्तानां विभिन्नक्षमतायुक्तानां वार्ताः सर्वसाधारण एव। एकहोराभ्यन्तरे सहस्रशः हस्तेषु अलक्तकेन वर्णचित्राणि विरच्य गिन्नस् अभिलेखेषु स्थानं प्राप्ता भारतीयवनिता आदित्या समीपकाले वार्तामाध्यमद्वारा सर्वेषां प्रशंसाभाजनमभवत्। इदानीं लोकयानं स्वकेशैः आकृष्य गिन्नस् अभिलेखे स्थानं प्राप्तायाः वनितायाः चलनचित्रखण्डं सर्वेषां श्रद्धां आकर्षति। आशाराणी नाम भारतीयवनिता एव स्वकेशैः लोकयानं आकृष्यति। उभयतः ग्रथितस्य केशस्य अग्रे स्थूलं सूत्रमुपयुज्य निबध्य लोकयानेन सह योजयित्वा आकृष्यमाणं चित्रमेव चलनचित्रखण्डे मुद्रितम् वर्तते। गिन्नस् अभिलेखः एव अयम् इति विज्ञाय नेत्राभ्यां आनन्दाश्रूणि धारयन्तं रूपमपि चलनचित्रखण्डे द्रष्टुं शक्यते।
Monday, January 3, 2022
कोविड् व्यापनम्> वंगदेशे विद्यालयाः पिहिताः। स्थापनेषु कर्मकराणां संख्या समार्धरूपेण क्रमीकृता।
कोल्कत्ता> कोविड् व्यापने वर्धिते पश्चिमवंगदेशे अतिनियन्त्रणानि ख्यापितानि। विद्यालयाः, चलनचित्रशालाः च कीलयिष्यति। सर्वकार - निजीय स्थापनेषु कर्मकराणां संख्या समार्धरूपेण क्रमीकृता। व्यायामकेन्द्राणि, प्लवनवाप्यः, क्षौरास्थानानि च कीलयितुं निश्चितानि। राज्ये यु के राष्ट्रात् विमानसेवाः स्थगिताः। गतदिने वंगदेशे कोविड् बाधितानां संख्या ४५१२ आसीत्। राष्ट्रे कोविड्रोगिणां संख्यासु तृतीयं स्थानम् आवहति पश्चिमवंगदेशः।
कौमारवयस्कानां वाक्सिनीकरणं - पञ्जीकरणं ६.७लक्षमतीतम्।
नवदिल्ली> १५ - १८ वयस्कानां कुमारीकुमारेभ्यः कोविड्वाक्सिनं दातुमुद्दिश्यमानं पञ्जीकरणं गतरात्रिपर्यन्तं ६,७९,०६४ अभवदिति केन्द्रस्वस्थ्यमन्त्रालयेण निगदितम्। ये २००७ तमे वर्षे ततःपूर्वं वा जन्म लेभिरे तेभ्य एव वाक्सिनं दीयते।
भारतबयोटेक् संस्थया आविष्कृतं कोवाक्सिनं नामकं प्रत्यौषधमेव दीयते। २८ दिनान्यनन्तरं द्वितीयमात्रा विधातव्या। वाक्सिनीकरणप्रक्रमाणाम् एकीकरणाय राज्यस्वास्थ्यमन्त्रिभिः सह केन्द्रस्वास्थ्यमन्त्री डो मनसुख माण्डव्यः चर्चां कृतवान्।
केरले ४५ नूतनाः ओमिक्रोणरोगिणः।
अनन्तपुरी> राज्ये ४५ जनेष्वपि ओमिक्रोण् नामकः कोविड्रोगः दृढीकृतः इति स्वास्थ्यमन्त्रिण्या वीणाजोर्जेन उक्तम्। चत्वारः संसर्गेण रोगबाधिताः अभवन्।
विविधजनपदेषु वर्तमानाः एते यू ए ई, खत्तरं,यू के, फ्रान्स्, फिलिप्पीन्स्, तुर्की, स्वीडन, कसाकिस्थानं,ऐर्लान्ट्, उक्रैनं, उगाण्टा, दक्षिणाफ्रिक्का इत्यादिभ्यः विदेशराष्ट्रेभ्यः राज्यं प्राप्ताः सन्ति। अनेन आहत्य ओमिक्रोणबाधिताः केरले १५२ जाताः।
हिमप्रदेशे अलास्कादेशे अपूर्वाधिकतापः रेखाङ्कितः।
Sunday, January 2, 2022
ओमिक्रोण् प्रकरणानि वर्धिष्यन्ते; चिकित्सालयाः सज्जाः भवितव्याः।
नवदिल्ली> राष्ट्रे ओमिक्रोण् प्रकरणेषु अत्यधिका वर्धना भविष्यतीत्यतः आराष्ट्रं चिकित्सालयसंविधानानि कार्यक्षमाणि शक्तानि च करणीयानीति केन्द्रसर्वकारः राज्यसर्वकारानादिशत्।
एकान्तवासाय तल्पाः, ऐ सि यू तल्पाः, बालकानां कृते सविशेषविभागः, प्राणवायुसम्भरण्यः, 'आम्बुलन्स्'यानानि, अवश्यौषधसञ्चयः इत्यादयः सज्जीकरणीयाः। कोविड्भावात्मकेषु ये तीव्रलक्षणाभावाः वर्तन्ते ते स्वगृहेषु एव एकान्तवासं समनुष्ठातव्याः। येषां कृते अतीव चिकित्सा अवश्यकी तान् चिकित्सालयं नेतुमर्हन्ति।
रोगव्यापनस्य पूर्णनिरोधाय केन्द्रस्वास्थ्यमन्त्रालयस्य सर्वविधाभियोगः भविष्यतीति मन्त्रालयेन स्पष्टीकृतम्।
Saturday, January 1, 2022
चेन्नै नगरे तीव्रवृष्टिः;त्रीणि मरणानि।
चेन्नै> नगरे दिनद्वयं यावत् अनुवर्तमानया तीव्रवृष्ट्या सर्वत्र जलसञ्चयः जातः। गमनागमनं दुष्करमभवत्। त्रयः जनाः मृत्युभूताः अभवन्। जनजीवनं दुस्सहमभवत्। नगरस्य १५० प्रदेशाः जनसञ्चयेनावृतम्। जनजीवितं निश्चलमभवत्।
तमिल्नाटस्य विविधजनपदेषु पुतुच्चेरी, कारक्कल् प्रदेशेषु च आगामिदिनद्वयं यावत् तीव्रवृष्टिः भविष्यतीति पर्यावरणविभागेन निगदितम्। वृष्टिबाधितप्रदेशान् मुख्यमन्त्री स्टालिनः सन्दृष्टवान्।
कुमारेभ्यः वाक्सिनं - अद्य आरभ्य पञ्जीकरणम्।
अनन्तपुरी> केरले १५ वयः आरभ्य १८ वयःपर्यन्तं कुमारीभ्यः कुमारेभ्यः च कोविड्प्रतिरोधसूच्यौषधं दातुमुद्दिश्यमानं पञ्जीकरणम् अद्य आरभते। ओण् लैन् द्वारा वाक्सिनस्थानं प्राप्य साक्षाद्वा पञ्जीकरणं शक्यम्। येषां अन्तर्जालपञ्जीकरणं न शक्यते तेषां छात्राणां कृते विद्यालयैः पञ्जीकरणं कार्यम्।
सोमवासरादारभ्य कुमारेभ्यः वाक्सिनवितरणमारप्स्यते। तदर्थं ५ लक्षं वाक्सिनवृन्दं राज्यं प्राप्स्यते।
नूतनसंवत्सराय स्वागतं व्याहृत्य विश्वम्। विनोद विस्फुलिंङ्गप्रदर्शनेन नूतसंवत्सराय स्वागतं व्याहृत्य न्यूसिलान्ड् राष्ट्रम्।
न्यूसिलाण्डे ओक्लण्डे एव नूतन संवत्सरस्य प्रारम्भः प्रथमतया समागतः। ततः पश्चात् ओस्ट्रेलियायां समागमिष्यति। पुनः जापान्, दक्षिणकोरिया, चीना, भारतम् इति क्रमेण नूतन संवत्सरस्य समारम्भः भविष्यति।
वार्ता - रमा टी के -
Friday, December 31, 2021
मुम्बैदेशे खलिस्थान् भीकराः आक्रमणं कुर्यात् इति पूर्वसूचना। अतिजाग्रतापालनाय निर्देशः।
मुम्बै> खलिस्थान् भीकराः मुम्बैयां आक्रमणं कुर्यात् इति सुरक्षादलस्य पूर्वसूचना। नगरे अतिजाग्रतानिर्देशः दत्त:। अवकाशं स्वीकृत्य कर्मसु विरमिताः सर्वे अवकाशं परित्यक्त्वा प्रत्यागन्तुं निर्देशो दत्तः। नूतनसंवत्सरदिने मुम्बै नगरे विविधप्रदेशेषु खलिस्थान् भीकराः आक्रमणम् आयोजयितुं आसूत्रणं करोति इति मुम्बैदेशस्य आरक्षकदलाय लब्धे केन्द्रीयरहस्यान्वेषणविभागस्य प्रतिवेदने अस्ति। एतदनुसृत्य अवकाशं स्वीकृताः सर्वे आरक्षकाः प्रत्यागमनाय आहूताः। एतान् सर्वान् नगरे विविधप्रदेशेषु सुरक्षायै नियोजयिष्यतिI
Thursday, December 30, 2021
ओमिक्रोण् भीषया प्रधानमन्त्रिणः नरेन्द्रमोदिनः यु ए इ सन्दर्शनं तात्कालिकतया परित्यक्तम्।
नवदिल्ली> आशङ्कां जनयित्वा ओमिक्रोण् व्याप्यमाने सन्दर्भेऽस्मिन् प्रधानमन्त्रिणः नरेन्द्रमोदिनःयु ए इ सन्दर्शनं तात्कालिकतया परित्यक्तम्। जनुवरि मासस्य षष्ठतमे दिनाङके एव प्रधानमन्त्री नरेन्द्रमोदी यु ए इ सन्द्रष्टुं निश्चितम्। २०२२ तमे संवत्सरे तस्य प्रथमा विदेशयात्रा भवेत् इयम्। उभौ राष्ट्रौ तयोः नयतन्त्रबन्धयोः पञ्चाशत्तमसंवत्सरोत्सवस्य सन्दर्भे एव सन्दर्शनं निश्चितम्।
केरले अद्य आरभ्य निशाकालनियन्त्रणम्।
अनन्तपुरी> ओमिक्रोणबाधां पुरस्कृत्य केरले अद्य आरभ्य जनवरि २ पर्यन्तं निशाकालनियन्त्रणं विधत्तम्। रात्रौ १० वादनतः उषसि ५ वादनपर्यन्तं यात्रानिरोधनं, संघीकरणं, धार्मिक-राजनैतिक-सांस्कृतिक कार्क्रमाः इत्यादीनां निरोधः च विहितः। किन्तु शबरिगिरि-शिवगिरितीर्थाटनयोः अनन्तर्भावित्वं च विहितमस्ति।
नववत्सरोत्सवाः रात्रौ १० वादनात्पूर्वं समाप्तव्याः। रात्रिकालसञ्चारः अवश्यः चेत् प्रमाणपत्रं प्रदर्शनीयम्। केरले ओमिक्रोणबाधिताः आहत्य ६५ जाताः। व्यापननिरोधाय यावच्छक्यं जागरुकताप्रक्रमाः स्वीकृताः इति स्वास्थ्यमन्त्रालयेन निगदितम्।
विश्वस्मिन् ओमिक्रोणव्यापनं वर्धते - अमेरिक्कायां ४.४ लक्षं प्रतिदिनरोगिणः।
यूरोप् मध्ये अपि वर्धते। नववत्सरोत्सवाः परित्यक्ताः।
वाषिङ्टण्> कोरोणा विषाणोः ओमिक्रोण् प्रभेदः लोके सर्वत्र वर्धमानः दृश्यते। यू एस् राष्ट्रे ओमिक्रोण् बाधितानां प्रतिदिनसंख्या ४.४ लक्षमभवदिति तद्राष्ट्रस्य व्याधिनियन्त्रणसंस्थया [C D C] निगदितम्।
यूरोप् राष्ट्रेष्वपि रोगिणः वर्धन्ते। मङ्गलवासरे फ्रान्स् राष्ट्रे १.७९ लक्षं जनाः कोविड्बाधिताः जाताः। इट्टलीमध्ये ७८,००० जनेषु नूतनतया रोगबााधा दृढीकृता। २०२ जनाः मृत्युवशं गताश्च। गतदिने पोर्चुगले १७,१७२ जनाः, ब्रिट्टने १,१७,०९३जनाः, ग्रीसे २१,६५७ जनाः च ओमिक्रोणबाधिताः अभवन्।
रोगव्यापनमतितीव्रमित्यतः पारीस्, लण्टन्, बर्लिन् नगरेषु नववत्सरोत्सवाः त्यक्ताः।
Wednesday, December 29, 2021
लुधियाना स्फोटनम्; निरोधितस्य सिख् सघटनस्य प्रधानप्रवर्तकः संगृहीतः।
नवदिल्ली> पञ्चाबे लुधियाना न्यायालयसमुच्चयस्फोटनं संबन्ध्य भारते निरोधितस्य 'सिख् फोर् जस्ट्टिस् ' नाम भीकरसंघटनस्य प्रधान-प्रवर्तकेषु अन्यतमः जस्वीन्तर् सिंह् मुल्ट्टानः जर्मन्याम् एल्फर्टात् संगृहीतः इत्येव प्रतिवेदनम्। तं भारतमानेतुं आवश्यकाः उपक्रमाः विलम्बं विना आरप्स्यन्ते। भारते बृहत् आक्रमणम् आयोजयितुं तन्त्राणि आविष्कुर्वन्ति इति सूचनाम् आधारीकृत्य एव जर्मन्याः आरक्षकैः मुल्ट्टानः संगृहीतः इति प्रतिवेदनानि व्यनक्ति।
पारस्परिकनिधीनां प्रवर्तनस्य ताल्कालिकस्थगनाय निक्षेपकाणाम् अनुमतिः आवश्यकी।
पारस्परिकनिधीनां ( Mutual fund)प्रवर्तनं तात्कालिकतया स्थगयितुं(freezing) निक्षेपकाणाम् अनुमतिः आवश्यकी। येन केनापि कारणेन पारस्परिकनिधिसंस्था निधीनां प्रवर्तनं स्थगयितुं इच्छति चेत् योगाङ्गानां (unity owner)अनुमतिं विना न साध्यम्। २०२० संवत्सरे एप्रिल् मासे फ्राङ्किन् टेम्पिल्टण् आर् डेट्ट् निधीनां प्रवर्तनस्य स्थगनप्रक्रमाः अनुवर्तमाने सन्दर्भे एव सेबिना(SEBI) विषयेऽस्मिन् सामान्यनिर्णयः स्वीकृतः। फ्राङ्क्लिन् निधीनां प्रवर्तने स्थागिते निक्षेपकाः न्यायालयसमक्षं विषयमिदं समर्पितमासीत्। सर्वोच्चनीतिपीठेन अनुकूलादेशोऽपि दत्तः अस्ति।
ओमिक्रोण् बाधितानां संख्या वर्धते। राष्ट्रे ५८६ रोगिणः। अतिनियन्त्रणम् आवश्यकमिति केन्द्रसर्वकारः।
नवदिल्ली> राष्ट्रे ओमिक्रोण् वैराणुबाधा अतिशीघ्रं व्याप्यते। गतदिने १५६ जनानामपि ओमिक्रोण् रोगाणुबाधा दृढीकृता। एवं १९ राज्येषु ओमिक्रोण् बाधितानां संख्या ५७८ अभवत्। १५१ जनाः रोगात् मुक्तिं प्रापुः। नवदिल्ली (१४२), महाराष्ट्रा (१४१), केरलम्(५७), गुजरात् (४९), राजस्थान् (४३), तेलङ्कान(४१) प्रभृतिषु राज्येषु एव रोगबाधितानां संख्या अधिका इति प्रतिवेदिता।
Tuesday, December 28, 2021
भवने प्रतिभेदनम्। तमिल्नाडुदेशे भवनसमुच्चयं भग्नमभवत्।
चेन्नै> तमिल्नाडुदेशे चत्वाराट्टयुक्तं भवनसमुच्चयं भग्नमभवत्। चतुर्विंशति भवनानि भवनसमुच्चये आसन्। अपघातेन न कोऽपि व्रणितः। उत्तर तमिल्नाडुदेशे तिरुविट्टियूरे एव घटना संवृत्ता। भवनसमुच्चये विशरणप्रायः इति दृष्टे सति रा तस्मिन्नेव क्षणे रात्रौ तत्र उषितान् सर्वान् अन्यत्र नीतवन्तः। प्रातःकाले सार्धदशवादने
भवनसमुच्चयः विदार्य पतितः। आरक्षकाणाम् अग्निशमनसेनायाः च नेतृत्वे भवनावशिष्टानि परिमार्जयन्तः सन्ति।