तिरुवण्णामलै मध्ये मृत्स्खलनं - ७ जनाः अप्रत्यक्षाः।
चेन्नै> तमिलनाटुराज्ये तिरुवण्णामलै प्रदेशे अतिवृष्ट्या मृत्स्खलनं प्रवृत्तम्।सप्त जनाः अप्रत्यक्षाः इति सूच्यते। फेन्चल चक्रवातस्य अंशतया प्रवृत्तायामतिवृष्ट्यामेषा दुर्घटना जाता।
गासायाम् इस्रयेलस्य आक्रमणम् - १५ मरणानि।
केय्रो> गासायाः मध्य-उत्तरप्रदेशेषु रविवासरे इस्रयेलेन कृते बोम्बाक्रमणे १५ जनाः हताः। नुसैरत्, गासा सिटि, राफा, जबलिया, बेय्त् लहिया इत्यादिषु प्रदेशेषु आसीदाक्रमणम्।
एतदाभ्यन्तरे, गासातः निगृहीताः द्वौ पालस्तीनीयौ इस्रयेलीयकारागारे मृताविति कारागृहवासिनां मोचनाय प्रवृत्तमानेन संघटनेन निगदितम्। अनेन युद्धारम्भात् परं इस्रयेलीयकारागारे मृतानां पालस्तीनीयानां संख्या ४७ अभवत्।
१४ मासैः अनुवर्तमानस्य इस्रयेल्-हमास युद्धस्य समाप्तये ईजिप्तस्य राजधानी केय्रो इत्यत्र शान्तिचर्चा प्रचलन्ती अस्ति। बन्धितानां मोचनं, निगृहीतानां प्रतिदानम् इत्यादयोSपि चर्चाविषयाः सन्ति।
वत्तिक्काने विश्वसर्वधर्मसंसद्।
श्रीनारायणगुरुसन्देशस्य अस्मिन् काले नितरां प्रसक्तिः - मार्पापावर्यः। 
विश्वसर्वधर्मसंसदि अनुग्रहभाषणं कृतवते मार्पापावर्याय शिवगिरिमठम् अध्यक्षः उपहारं समर्पयति।
वत्तिक्कान् सिटी> आविश्वं जनेषु, राष्ट्रेषु मिथः असहिष्णुतायां वर्धितायां श्रीनारायणगुरुसन्देशानां नितरां प्रसक्तिः अद्यत्वे अस्तीति फ्रान्सिस् मार्पापावर्यः उक्तवान्। शिवगिरिमठस्य नेतृत्वे वत्तिक्काने आयोज्यमाने विश्वसर्वधर्मसंसदि भाषमाणः आसीत् मार्पापावर्यः।
भारतस्य सामाजिकपरिष्कर्तृ-आध्यात्मिक-सन्न्यासिवर्येषु प्रमुखेन श्रीनारायणगुरुणा आलुवा अद्वैतश्रमे आयोजितस्य सर्वधर्मसम्मेलनस्य शताब्द्युत्सवस्य अंशतया वत्तिक्काने अगस्तीरियन् सभागारे आयोज्यमाने सम्मेलने विविधराष्ट्रेभ्यः १८० प्रतिनिधयः भागं गृह्णन्ति।
फिंजालचक्रवातः स्थले स्पृष्टः, चन्नै नगरे तीव्रा वृष्टिः, तमिळ्नाटुमण्डले महाजागरूकता।
फिंजालचक्रवातः तमिळनाटु राज्ये पुदुच्चेरिमण्डले स्थले स्पृष्टम्। चेन्नैनगरे तथा तमिळ्नाटुराज्यस्य पूर्वसागरसीमायां अतीतीव्रं वर्षं प्रवर्तमानम् अस्ति।
तमीळ्नाट् राज्यस्य सागरतटीयेषु सप्तजनपदेषु अतीवतीव्रवृष्टेः सम्भावनया, वातावरणविज्ञानविभागेन "लोहितसावधानता" इति सूचना प्रकाशिताऽभवत्। चेन्नै, तिरुवल्लूर, काञ्चीपुरं, कळ्ळूरिच्छि, कडलूर, पुदुच्चेरीमण्डलेषु वर्षा निरन्तरं प्रवर्तमाना वर्तते।
अगामि चतुर्विंशति होरासु दक्षिणान्ध्रप्रदेशे उत्तरतटीयप्रदेशे च अतीवतीव्रवृष्टेः सम्भावनाऽस्ति। तमीळ्नाट् राज्यस्य निम्नभागेषु जलप्लावनं सम्भाव्यमिति कारणेन सर्वेभ्यः नागरिकेभ्यः विशेषसावधानता आदिष्टा।
सुस्मितो भूत्वा जीवने प्रतिकूलावस्थां तर्तुं शक्यते- अरुण् तथागतः।
विश्वसैकिल्-सञ्चारी अरुण् तथागतः स्वस्य द्विचक्रिकायां पर्यटनं कुर्वन् अस्ति। तन्मध्ये सम्प्रतिवार्तायाः कृते पञ्चनिमेषस्य संवादाभिमुखं दत्तवान्। स्वानुभवः मनसि निधाय तेन एवम् उक्तम् -
सर्वे जना: द्विचक्रिकायाः यात्रायां समतलतः अधिकं काठिन्यम् आरोहात् बिभ्रान्ति। किन्तु, मम यात्रायाम् आरोहे आगते, सैकिल्-यानात् अवतीर्य हस्तेन यानं प्रचाल्य अग्रम् आरोहामि। तदा मम शरीरं विश्रान्तिं प्राप्नोति, चक्रचालन-गमनरूपात् परिवर्तनं भवति।
यत्र उन्नतिः अस्ति, तत्र अवश्यं निम्नता अपि स्यात्। एषः जीवनस्य सर्वासु कठिनासु अवस्थासु स्मर्तव्यः सिद्धान्तः। अत एव मार्गोन्नतेः अहं न बिभेमि। यदि उन्नतेः तरणं याने उपविश्य क्रियते तर्हि शीघ्रं गमिष्यामि। तदा पञ्च वा षट् किलेमीट्टर् वेगः लभते। यदि हस्तेन यानस्य प्रचालनं कृत्वा पद्भ्यां गमिष्यामि तर्हि प्रवेगः त्रयः किलोमीट्टर् लभते, अत्र भेदः अल्प एव भवति।
मम मतानुसारं, दीर्घदूर-सैकिल्-यात्रिकेषु अहं एव अस्मि यः आरोहं हस्तेन चालयति। इयं मम शैली, विषयेस्मिन् अहं कदापि लज्जां न अनुभवामि। जीवनस्य प्रतिकूलावस्थाः अपि स्मितं धृत्वा, स्वशैलीं अपनय्य विजयः प्राप्तुं शक्यते इति अरुण् तथागतेन उक्तम् ॥
युक्रेनस्य विद्युन्निलयानि लक्ष्यीकृत्य रष्यायाः आक्रमणम्।
दलक्षाधिकेषु गृहेषु विद्युत् स्थगिता।
कीव्> शैत्यकाले आरब्धे युक्रेनस्य विद्युन्निलयानि लक्ष्यीकृत्य रष्या आक्रमणं शक्तमकरोत्। द्विशताधिकानि अग्निशस्त्राणि ड्रोणयन्त्राणि च उपयुज्य कृतेन आक्रमणेन दलक्षाधिकेषु गृहेषु विद्युत् स्थगिता।
महद्विनाशकारी 'क्लस्टर्बोम्ब्' आक्रमणमासीत् रष्यया कृतमिति युक्रेनस्य राष्ट्रपतिना व्लादिमिर् सेलन्स्कीवर्येण आरोपितम्। रष्य-युक्रेनयुद्धस्य तृतीयवार्षिके समागते युक्रेनस्य ऊर्जस्रोतसः अर्धांशः विनाशितः।
दिल्ल्यां स्फोटनं - न जनापायः।
नवदिल्ली> दिल्ल्याः उत्तरपश्चिमप्रदेशे रोहिणिनामके प्रशान्तविहारमिति स्थाने मासैकामन्तरं स्फोटनं प्रवृत्तम्। तत्रोपस्थितायाः कस्याश्चन द्विचक्रिकायाः चालकस्य लघुव्रणः अभवत् इत्येतततिरिच्य कोSपि जनापायः नाभवत्।
गुरुवासरे प्रभाते ११. ३० वादने वीथीपार्श्वे आसीत् उग्रशब्देन स्फोटनम्। जनाः सम्भ्रान्ताः जाताः। रक्षिगणः अग्निक्षासेना च घटनास्थानं प्राप्य अन्वेषणमारभत।
विश्वस्य श्रेष्ठतमसंस्कृते: आधार: संस्कृतं - राज्यपाल: गुरमित् सिंहः।
राज्यपालेन उत्तराखण्डसंस्कृतविश्वविद्यालयस्य 30 छात्रेभ्यः स्वर्णपदकं प्रदत्तम्।
दीक्षान्तसमारोहे 3047 छात्रेभ्यः उपाधयः प्रदत्ताः।
वार्ताहर:-कुलदीपमैन्दोला।हरिद्वारम्।
उत्तराखण्डसंस्कृतविश्वविद्यालयस्य एकादशतमे दीक्षान्तसमारोहे माननीयराज्यपालः च विश्वविद्यालयस्य कुलाधिपतिः लेफ्टिनेंटजनरलः श्रीगुरमीतसिंहः (सेवानिवृत्तः) त्रिंशत् स्नातकपरास्नातकछात्रेभ्यः स्वर्णपदकं प्रदत्तवान्। तदनन्तरं विश्वविद्यालयस्य विविधविभागेषु एकविंशतिछात्रेभ्यः विद्यावारिधि-उपाधिं प्रदाय सम्मानितवान्।
दीक्षान्तसमारोहस्य अध्यक्षतां कुर्वन् राज्यपालः श्रीगुरमीतसिंहः उक्तवान् यत् कस्यापि राष्ट्रस्य आत्मा तस्य संस्कृतिः अस्ति। संस्कृतिः यावत् जीवति सुरक्षितं च भवति, तावत् राष्ट्रम् अपि जीवति सुरक्षितं च भवति। विश्वस्य सर्वासु संस्कृतिषु प्राचीनतमं श्रेष्ठं च भारतीया संस्कृतिः अथवा वैदिकसंस्कृतिः अस्ति। अस्याः संस्कृत्याः आधारः संस्कृतभाषा अस्ति। संस्कृतभाषां विना भारतीयसंस्कृतिः च भारतीयसंस्कृतिं विना च भारतस्य कल्पना अपि
आन्तमाने महानौकायाः पञ्चटण् उन्मादकवस्तूनि निगृहीतानि।
वङ्गमहासमुद्रे भारतीयतीरसेनया उन्मादकवस्तूनि निगृहीतानि। आन्तमान्द्वीपसमीपे मत्स्यबन्धननौकायाः ५५०० किलो मितानि 'मेत्ता फेट्टमिन्' नाम उन्मादकवस्तुनि निगृहितानि। घटनायामस्यां नौकायाम् वर्तिताः षट् मान्मर् स्वदेशीयाः तीरदेशसेनया निगृहीताः। निगृहीतानां उन्मादकवस्तूनाम् अन्ताराष्ट्रविपण्यां कोटिशः मूल्यानि सन्ति इति प्रतिवेदनमस्ति। धटनायामस्यां विशदम् अन्वेषणं प्रचलत् अस्ति।
ससन्तोष् ट्रोफी पादकन्दुकस्पर्धा
केरलम् अन्तिममण्डले।।
कोष़िक्कोट्> सन्तोष् ट्रोफी पादकन्दुकस्पर्धायाः योग्यताचक्रस्य अन्तिमद्वन्द्वे पुतुश्शेरी दलं एकपक्षीयेन लक्ष्यकन्दुकसप्तकेन पराजित्य केरलम् अन्तिममण्डलं प्राविशत्। अनुस्यूतेन विजयत्रयेण नवाङ्कान् सम्पाद्यैव केरलेन एछ् संघे अग्रिमस्थानेन अन्तिममण्डलं प्राप्तम्।
बोर्डर्-गवास्कर् ट्रोफि निकषस्पर्धा ।
भारतस्य विजयः हस्तमात्रदूरे।
पेर्त्> उज्वलशतकेन यशस्वी जयस्वालः [१६१], विराट् कोली [१००*] च। अविश्वसनीयशीघ्रतया ताडकद्वयं बहिर्नीतवान् जस्प्रीत बुम्रः। एवं स्थिते बोर्डर्-गवास्कर् ट्रोफि क्रिकट् निकषस्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतस्य विजयः हस्तमात्रदूरे वर्तते।
५३४ धावनाङ्कानां विजयलक्ष्येण द्वितीयचरणमारब्धा आस्ट्रेलिया क्रीडाविरामे ताडकत्रयस्य विनष्टे १२ धावनाङ्काः इति क्लिश्यते। सप्त ताडकेषु अवशिष्टेषु विजयाय तेषां ५२२ धावनाङ्काः आवश्यकाः।
संसद् सम्मेलनम् अद्य आरभते।
नवदिल्ली> भारतीयसंसदः शीतकालसम्मेलनं सोमवासरे आरभते। डिसम्बर् २० पर्यन्तम् अनुवर्तमानं सम्मेलनमालक्ष्य रक्षामन्त्रिणः राजनाथसिंहस्य अध्यक्षतायां सर्वदलीयोपवेशनं संवृत्तम्।
प्रियङ्कागान्धिनमभिव्याप्य नूतनानां लोकसभासदस्यानां शपथवाचनं प्रायेण प्रथमदिने भविष्यति। वखफ् परिष्करणम्, एकराष्ट्रमेकनिर्वाचनम् इत्यादीनि १६ विधेयकानि संसदि अवतारयिष्यन्ति। मणिप्पुरसंघर्षः, निर्वाचनेषु कृतकः इत्यादयः विपक्षविमर्शाय भविष्यन्ति।
झार्खण्डे इन्डिया सख्यं विजयपदे।
विजयाह्लादे हेमन्त सोरनः सहप्रवर्तकाश्च।
नवदिल्ली> झार्खण्ड मुक्ति मोर्चा [जे एम् एम्] दलस्य नेतृत्वे इन्डिया सख्यस्य झार्खण्डविधानसभानिर्वाचने महान् विजयः। आहत्य विद्यमानेषु ८१ स्थानेषु ५६ स्थानानि विजित्य सख्यमिदं प्रशासनस्य अनुस्यूततां प्राप।
विधानसभानिर्वाचनमालक्ष्य हेमन्त सोरन् सर्वकारेण विधत्ताः क्षेमपरियोजनाः एव इन्डिया सख्यस्य पुनःप्रशासनाय साह्यमभवदिति निरीक्षते। वर्तमानीनः मुख्यमन्त्री हेमन्त सोरन् पुनः मुख्यमन्त्री भविष्यतीति सूच्यते।
महाराष्ट्रे महायुतिसख्यस्य प्रवचनातीतविजयः। १३५/२८८
मुम्बई> महाराष्ट्रस्य विधानसभानिर्वाचने भाजपा, शिवसेना [षिन्देविभागः], एन् सि पि [अजित पवार विभागः] इत्येतानि मुख्यदलसहितस्य महायुतिसख्यस्य प्रवचनातीतः विजयः सम्पन्नः। २८८ अङ्गयुतविधानसभायां २३५ स्थानानि अनेन सख्येन प्राप्तानि। १३२ स्थानानि सम्प्राप्य भा ज पा दलं महत्तमं दलमभवत्।
षण्मासेभ्यः पूर्वं सम्पन्ने लोकसभानिर्वाचने ४८ मण्डलेषु ३१मण्डलानि विजितस्य कोण्ग्रस् दलसहितस्य महाविकास् अखाडिसख्यस्य तत्समीपं प्राप्तुमपि न शक्यम्।
वयनाट् मण्डले प्रियङ्का विजितवती।
वयनाट्> केरले वयनाटे लोकसभामण्डले सम्पन्ने उपनिर्वाचने कोण्ग्रस् नेत्री प्रियङ्का गान्धी महता भूरिपक्षेण विजितवती। वामपक्षदलीयं सि पि ऐ स्थानाशिनं सत्यन् मोकेरी वर्यमपेक्ष्य ४,१०,९३१ मतदानानां भूरिपक्षेण विजितवती। आहत्य कृतायाः मतदानसंख्यायाः ६५% भवत्येतत्।
प्रियङ्का गान्धी वर्यया ६,२२,३३८ मतेषु प्राप्तेषु सत्यन् मोकेरी २,११,४०७ मतदानानि प्राप्तवान्। भा ज पा स्थानाशिन्या नव्या हरिदासेन केवलं १,०९९३९ मतानि प्राप्तानि। समर्पितशुल्कं विनष्टं च।
उत्तराखण्डराज्यस्य संस्कृत-अकादम्यायाः षोडशतममहोत्सवः सम्पन्नः।
वार्ताहरः - कुलदीपमैन्दोला
उत्तराखण्डराज्यस्य संस्कृत-अकादम्या षोडशतममहोत्सवरूपेण राज्यस्तरीयसंस्कृतछात्रप्रतियोगितायाः आयोजनं कृतम्। शुक्रवासरे हरिद्वारे सम्पन्ने उद्घाटने मुख्यातिथिरूपेण मदनकौशिकेन, अध्यक्षरूपेण प्रो. प्रेमचन्द्रशास्त्रिणा च भागं गृहीतम्। ४५००० छात्राः ४००० शिक्षकाश्च विविधप्रतियोगितासु भागं स्वीकृतवन्तः। निर्णायकमण्डलेषु षोडशसंस्कृतविद्वांसः मूल्यांकनं कृतवन्तः।
प्रतियोगितायाः उद्देश्यं - संस्कृतभाषायाः प्रचारं संवर्धनं, संस्कृतस्य व्यवहारिकभाषारूपेण स्थापनं च। मुख्यातिथिना भाषायाः महत्त्वं प्रतिपाद्य सर्वत्र संस्कृतशब्दानां प्रचलनाय आह्वानं कृतम्। सर्वेषां सहभागित्वेन संस्कृतस्य पुनरुज्जीवनाय अयं महोत्सवः प्रेरणादायकः इति प्रमाणितः।
स्वस्य अन्त्यविश्रान्तिः वत्तिक्कानात् बहिः - मार्पापावर्यस्य अभिलाषः।
रोमः > स्वस्य अन्त्येष्टिकर्माणि कथं सारल्येन अनुष्ठीयानि इति विशदीकृत्य फ्रान्सिस् मार्पापावर्यः आराधनाक्रमग्रन्थं परिष्कृतवान्। मार्पापावर्येण एप्रिल् मासे अङ्गीकृतानि परिष्काराणि 'ओसेर्वत्तोरे रोमानो' इत्यस्मिन् वृत्तान्तपत्रे प्रसिद्धीकृतानि।
रोमनगरात् बहिः सान्तामरिया मागियोरे बसिलिकायां भविष्यति फ्रान्सिस् मार्पापावर्यस्य अन्त्यविश्रान्तिः। भूरिशः मार्पापावर्याः सेन्ट् पीटेर्से बसिलिका एव अन्त्यविश्रान्तिस्थानरूपेण आश्रितवन्तः। किन्तु २०२३ मध्ये मेक्सिकन् दूरदर्शनप्रणाल्यै दत्ते अभिमुखे वत्तिक्कानात् बहिः अन्त्यविश्रान्तिं कर्तुं मार्पापावर्येण स्वस्य अभिलाषः प्रकाशितः।
तथा च समाजदर्शनाय उपयुज्यमानः शवमञ्चोSपि ऋजुरीत्या भवितव्या इति तेन अभिलषितम्।
वार्तामुक्तकानि।
दिल्यां सामान्यगमनागमनसुविधा उपयोक्तव्या।
नवदिल्ली> नगरे वायुमलिनीकरणे अतिकठिने अनुवर्तमाने मलिनीकरणतीव्रताप्रशमनाय जनैः सामान्यगमनागमनसुविधा उपयोक्तव्या इति सर्वकारेण निगदितम्। निजीयसंस्थाभिः बस् यानसेवामारभ्य वृत्तिकराणां स्वस्वयानोपयोगः न्यूनीकर्तव्यः। यानसम्मर्दम् अपाकर्तुं कार्यालयानां प्रवृत्तिसमयं परिष्कर्तुं निर्दिष्टम्।
गोवायाम् अन्ताराष्ट्रचलच्चित्रोत्सवः समारब्धः।
पनजी> ५५ तमः अन्ताराष्ट्रचलच्चित्रोत्सवः बुधवासरे तलेगावमध्ये समारब्धः। कार्यक्रमे सत्यजितरायि आजीवनान्तपुरस्कारः ओस्त्रेलियनिदेशकाय फिलिप्स् नोय्स् वर्याय समर्पितः। 'बेटर् मान्' इति आङ्गलेयचलच्चित्रम् उद्घाटनानन्तरं प्रथमतया प्रदर्शितम्। चलच्चित्रोत्सवः २८ तमे दिनाङ्के समाप्स्यते।
सि बी एस् ई परीक्षाः फेब्रु. १५तः।
नवदिल्ली> सि बी एस् ई संस्थया विधास्यमानाः १०, १२ कक्ष्याणां बोर्ड् परीक्षाः फेब्रुवरिमासस्य १५ तमदिनाङ्कतः आरप्स्यन्ते। दशमकक्ष्यापरीक्षाः मार्च् १८ तमे, १२ कक्ष्यापरीक्षाः एप्रिल् चतुर्थे च दिनाङ्के समाप्स्यन्ते।
मेस्सिना सह अर्जन्टीनापादकन्दुकदलं केरले क्रीडिष्यति।
अनन्तपुरी> विश्वपादकन्दुकवीरः अर्जन्टीनीयदलः लयणल् मेस्सिना सह २०२५ तमे केरलमागत्य एष्यन्दलेन सह सौहृदस्पर्धां विधास्यतीति केरलसर्वकारेण निगदितम्। अस्य प्रक्रमाय अर्जेन्टीना पादकन्दुकसमित्याः अधिकारिणः मासद्वयाभ्यन्तरे केरलं सन्द्रक्ष्यतीति राज्यकायिकमन्त्रिणा वि अब्दुल् रहमानेन प्रस्तुतम्।
मतदानं - महाराष्ट्रे ५८%, झार्खण्डे ६८%।
नवदिल्ली> ह्यः सम्पन्ने विधानसभानिर्वाचने महाराष्ट्रे ५८% जनाः मतदानं कृतवन्तः। झार्खण्डे द्वितीयसोपाने ६८% मतदायकाः स्वाधिकारं विनियुक्तवन्तः।
महाराष्ट्रे अस्मिन् वारे मतदानप्रतिशतता २०१९ तममपेक्ष्य न्यूना अभवदिति राजनैतिकदलेषु आशङ्का जनिता। २०१९ तमे ६१. ४४% आसीत् मतदानम्।
मतदानानन्तरं विधत्तायां 'एक्सिट् पोल्' प्रक्रियायां महाराष्ट्रे महायुति इति एन् डि ए सख्याय विजयं प्रोच्यते। झार्खण्डे तु समस्थितिं च प्रोच्यते।
वायुमलिनीकरणं - दिल्ल्यां सर्वकारसेवकानां गृहाधिष्ठितवृत्तिः।
नवदिल्ली> राजधानीनगरे वायुमण्डले अतितीव्रमालिन्यावस्थायाम् अनुवर्तिते राज्यस्य सर्वकारकार्यालयेषु ५०% सेवकेभ्यः गृहाधिष्ठितवृत्तिः [work from home] परिकल्पिता। किन्तु स्वास्थ्यविभागः, आरक्षकसेना इत्यादिषु मण्डलेषु व्यवस्थेयं नानुमोदिता।
गतदिने केन्द्रवायुमलिनीकरणनियन्त्रणसंस्थायाः सूचिकामनुसृत्य ४२६ भवति सूचकाङ्कनम्।
रामेश्वरं नगरे मेघविस्फोटः अभवत्। त्रिषु होरासु ३६२ मि.मीट्टर् इत्समात् अधिका वृष्टिः जाता। उत्तरपूर्व-मौन्सूनस्य तीव्रतां प्राप्तेः अनन्तरं तमिलनाडुराज्यस्य दक्षिणजनपदेषु सर्वत्र वर्षाः सन्ति। जलप्लावनं सुरक्षा-सम्बद्धानि च समस्याः दृष्ट्वा कतिपयेषु जनपदेषु विद्यालयेभ्यः अवकाशः घोषितः।
राष्ट्रपतिः व्लादिमीर् पुतिनः भारतं संद्रष्टुम् आगमिष्यति।
रष्यस्य राष्ट्रपतिः व्लादिमीर् पुतिनः भारतं संद्रष्टुम् आगमिष्यति। आगमनस्य तिथिः शीघ्रं ज्ञापयिष्यते। गत-जुलैमासे मोस्कौ नगरे मोदी-पुतिनयोः संभाषणसमये, प्रधानमंत्रिणा नरेन्द्रमोदिना रष्यस्य राष्ट्रपतिः भारतं प्रति आमन्त्रितः।
अस्य महोदयस्य भारतसन्दर्शनेन दीर्घकालीनसहकारस्य दृढीकरणाय अत्यन्तं महत्त्वपूर्णः सन्दर्भः भविष्यति। रष्य-युक्रेनयोः मध्ये जातस्य युद्धस्य आरम्भानन्तरं प्रथमवारम् एव भवति पुतिनः भारतसन्दर्शम्।
वार्तामुक्तकानि।
'अपोः दुर्गायै' स्मरणाञ्जलिः।
कोल्कोत्ता> विख्यातभारतीयचलच्चित्रकारस्य सत्यजित रायिवर्यस्य अतिश्रेष्ठचित्रं 'पथेर् पाञ्जलि' इत्यस्मिन् दुर्गानामकं कथापात्रं अनश्वरतां कृतवती उमादास् गुप्ता [८४] दिवंगता। बिभूतिभूषण बन्दोपाध्यायस्य 'पथेर् पाञ्जलि' इत्याख्यायिकायाः चलच्चित्राविष्कारे अपुः दुर्गा इति सोदरौ अद्यापि चलच्चित्रप्रणयिनां मनसि जीवतः।
केरल विद्यालयशास्त्रोत्सवः - मलप्पुरं प्रथमस्थानं प्राप।
आलप्पुष़ा> केरल विद्यालयशास्त्रोत्सवे मलप्पुरं जनपदं १४५० अङ्कान् प्राप्य वीरतापदं प्राप। १४१२ अङ्कैः कण्णूर्, १३५३ अङ्कैः कोष़िक्कोट् जनपदे यथाक्रमं द्वितीयं तृतीयं च स्थानं प्राप्नतुः।
झार्खण्डे महाराष्ट्रे च अद्य निर्वाचनम्।
नवदिल्ली> झार्खण्डे महाराष्ट्रे च अद्य विधानसभानिर्वाचनं विधास्यति। महाराष्ट्रे २८८ अङ्गयुक्तसभां प्रति एकेनैव चरणेन मतदानं सम्पत्स्यति। झार्खण्डे अद्यतने द्वितीये तथा अन्तिमचरणे ३८ मण्डलेषु मतदानं भविष्यन्ति।
चतुर्षु राज्येषु १५ स्थानेषु उपनिर्वाचनमपि अद्यैव विधास्यति। सर्वत्र मतगणना २३ तमे दिनाङ्के सम्पत्स्यति।
मावोवादिनेता विक्रमगौडः व्यापादितः।
मङ्लुरु> केरलमभिव्याप्य मावोवादिनां कृते सायुधपरिशीलनं क्रियमाणानां मुख्यनेता विक्रमगौडः [४६] नक्सल् विरुद्धसेनया हतः। सोमवासरे कार्कला इत्यत्र हेब्रि पीतबैलु वने आसीत् प्रतिद्वन्द्वः आपन्नः। अन्ये चत्वारः व्रणिताः सन्तः वनान्तर्भागं रक्षां प्राप्ताः।
मणिप्पुरे अशान्तिरनुवर्तते।
+ गोलिकास्त्रप्रयोगे एकः मृतः।
+ केन्द्रसेनायाः ५० संघाः नियुक्ताः।
+ प्रकरणानि एन् ऐ ए अन्वेक्ष्यति।
+ अष्ट भाजपा नेतारः पदं त्यक्तवन्तः।
इम्फालः> संघर्षेण मणिप्पुरे सप्ताहं यावत् अशान्तिरनुवर्तते। संघर्षप्रशमनाय केन्द्रसर्वकारेण सायुधसेनायाः ५० संघाः [Company] अपि नियुक्ताः। गृहमन्त्रिणः अमित शाहस्य नेतृत्वे उच्चस्तरीयमेलनं संवृत्तम्।
गतरात्रौ जिरिबामजनपदे आक्रमणोत्सुकान् जनान् विरुद्ध्य सुरक्षासेनया कृतेन गोलिकाशस्त्रप्रयोगेन एकः हतः।
एतत्घटनायाः आधारेण प्रतिषेधं कृतवद्भिः जनैः कोणग्रस भाजपादलयोः कार्यालयाः विनाशीकृताः।
मुख्यमन्त्री एन् बीरेन सिंहः संघर्षं शमयितुं पराजिवान् इत्यारोप्य ८ भाजपादलनेतारः स्थानं त्यक्तवन्तः।