OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 22, 2024

 स्वस्य अन्त्यविश्रान्तिः वत्तिक्कानात् बहिः - मार्पापावर्यस्य अभिलाषः।


रोमः > स्वस्य अन्त्येष्टिकर्माणि कथं सारल्येन अनुष्ठीयानि इति विशदीकृत्य फ्रान्सिस् मार्पापावर्यः आराधनाक्रमग्रन्थं परिष्कृतवान्। मार्पापावर्येण एप्रिल् मासे अङ्गीकृतानि परिष्काराणि 'ओसेर्वत्तोरे रोमानो' इत्यस्मिन् वृत्तान्तपत्रे प्रसिद्धीकृतानि। 

  रोमनगरात् बहिः सान्तामरिया मागियोरे बसिलिकायां भविष्यति फ्रान्सिस् मार्पापावर्यस्य अन्त्यविश्रान्तिः। भूरिशः मार्पापावर्याः सेन्ट् पीटेर्से बसिलिका एव अन्त्यविश्रान्तिस्थानरूपेण आश्रितवन्तः। किन्तु २०२३ मध्ये मेक्सिकन् दूरदर्शनप्रणाल्यै दत्ते अभिमुखे वत्तिक्कानात् बहिः अन्त्यविश्रान्तिं कर्तुं  मार्पापावर्येण स्वस्य अभिलाषः प्रकाशितः। 

  तथा च समाजदर्शनाय उपयुज्यमानः शवमञ्चोSपि ऋजुरीत्या भवितव्या इति तेन अभिलषितम्।