OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 19, 2024

 मणिप्पुरे अशान्तिरनुवर्तते।

+ गोलिकास्त्रप्रयोगे एकः मृतः।

+ केन्द्रसेनायाः ५० संघाः नियुक्ताः।

+ प्रकरणानि एन् ऐ ए अन्वेक्ष्यति। 

+ अष्ट भाजपा नेतारः पदं त्यक्तवन्तः। 

इम्फालः> संघर्षेण मणिप्पुरे सप्ताहं यावत्  अशान्तिरनुवर्तते। संघर्षप्रशमनाय केन्द्रसर्वकारेण  सायुधसेनायाः ५० संघाः [Company] अपि नियुक्ताः। गृहमन्त्रिणः अमित शाहस्य नेतृत्वे उच्चस्तरीयमेलनं संवृत्तम्। 

  गतरात्रौ जिरिबामजनपदे आक्रमणोत्सुकान् जनान् विरुद्ध्य सुरक्षासेनया कृतेन गोलिकाशस्त्रप्रयोगेन एकः हतः।

 एतत्घटनायाः आधारेण प्रतिषेधं कृतवद्भिः  जनैः कोणग्रस भाजपादलयोः कार्यालयाः विनाशीकृताः। 

  मुख्यमन्त्री  एन् बीरेन सिंहः संघर्षं शमयितुं पराजिवान् इत्यारोप्य ८ भाजपादलनेतारः स्थानं त्यक्तवन्तः।