OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 30, 2024

  सुस्मितो भूत्वा जीवने प्रतिकूलावस्थां तर्तुं शक्यते- अरुण् तथागतः।

  विश्वसैकिल्-सञ्चारी अरुण् तथागतः स्वस्य द्विचक्रिकायां पर्यटनं कुर्वन् अस्ति। तन्मध्ये सम्प्रतिवार्तायाः कृते पञ्चनिमेषस्य संवादाभिमुखं दत्तवान्। स्वानुभवः मनसि निधाय तेन एवम् उक्तम् - 

   सर्वे जना: द्विचक्रिकायाः यात्रायां समतलतः अधिकं काठिन्यम् आरोहात् बिभ्रान्ति। किन्तु, मम यात्रायाम् आरोहे आगते, सैकिल्-यानात् अवतीर्य हस्तेन यानं प्रचाल्य अग्रम् आरोहामि। तदा मम शरीरं विश्रान्तिं प्राप्नोति, चक्रचालन-गमनरूपात्  परिवर्तनं भवति।

   यत्र उन्नतिः अस्ति, तत्र अवश्यं निम्नता अपि स्यात्। एषः जीवनस्य सर्वासु कठिनासु अवस्थासु स्मर्तव्यः सिद्धान्तः। अत एव मार्गोन्नतेः अहं न बिभेमि। यदि उन्नतेः तरणं याने उपविश्य  क्रियते तर्हि शीघ्रं गमिष्यामि। तदा पञ्च वा षट् किलेमीट्टर् वेगः लभते। यदि हस्तेन  यानस्य प्रचालनं कृत्वा पद्भ्यां  गमिष्यामि तर्हि  प्रवेगः त्रयः किलोमीट्टर् लभते, अत्र भेदः अल्प एव भवति।

   मम मतानुसारं, दीर्घदूर-सैकिल्-यात्रिकेषु अहं एव अस्मि यः आरोहं हस्तेन चालयति। इयं मम शैली, विषयेस्मिन् अहं कदापि लज्जां न अनुभवामि। जीवनस्य प्रतिकूलावस्थाः अपि स्मितं धृत्वा, स्वशैलीं अपनय्य विजयः प्राप्तुं शक्यते इति अरुण् तथागतेन उक्तम् ॥