OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 20, 2024

 वार्तामुक्तकानि।

'अपो‌ः दुर्गायै' स्मरणाञ्जलिः। 

कोल्कोत्ता>  विख्यातभारतीयचलच्चित्रकारस्य सत्यजित रायिवर्यस्य अतिश्रेष्ठचित्रं 'पथेर् पाञ्जलि' इत्यस्मिन् दुर्गानामकं कथापात्रं अनश्वरतां कृतवती उमादास् गुप्ता [८४] दिवंगता। बिभूतिभूषण बन्दोपाध्यायस्य 'पथेर् पाञ्जलि' इत्याख्यायिकायाः चलच्चित्राविष्कारे अपुः दुर्गा इति सोदरौ अद्यापि चलच्चित्रप्रणयिनां मनसि जीवतः। 

केरल विद्यालयशास्त्रोत्सवः - मलप्पुरं प्रथमस्थानं प्राप।

आलप्पुष़ा> केरल विद्यालयशास्त्रोत्सवे मलप्पुरं जनपदं १४५० अङ्कान् प्राप्य वीरतापदं  प्राप। १४१२ अङ्कैः कण्णूर्, १३५३ अङ्कैः कोष़िक्कोट् जनपदे यथाक्रमं द्वितीयं तृतीयं च स्थानं प्राप्नतुः।

झार्खण्डे महाराष्ट्रे च अद्य निर्वाचनम्। 

नवदिल्ली> झार्खण्डे महाराष्ट्रे च अद्य विधानसभानिर्वाचनं विधास्यति। महाराष्ट्रे २८८ अङ्गयुक्तसभां प्रति एकेनैव चरणेन मतदानं सम्पत्स्यति। झार्खण्डे अद्यतने द्वितीये तथा अन्तिमचरणे ३८ मण्डलेषु मतदानं भविष्यन्ति।

   चतुर्षु राज्येषु १५ स्थानेषु उपनिर्वाचनमपि अद्यैव विधास्यति। सर्वत्र मतगणना २३ तमे दिनाङ्के सम्पत्स्यति। 

मावोवादिनेता विक्रमगौडः व्यापादितः। 

मङ्लुरु> केरलमभिव्याप्य मावोवादिनां कृते सायुधपरिशीलनं क्रियमाणानां मुख्यनेता विक्रमगौडः [४६] नक्सल् विरुद्धसेनया हतः। सोमवासरे कार्कला इत्यत्र हेब्रि पीतबैलु वने आसीत् प्रतिद्वन्द्वः आपन्नः। अन्ये चत्वारः व्रणिताः सन्तः वनान्तर्भागं रक्षां प्राप्ताः।