ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः। भारतस्य जल-वितरणे बाधा भविष्यति ?
OUR YouTube Channel 1. SampratiVartah |
marquee
Monday, November 30, 2020
Sunday, November 29, 2020
प्राणवायुः वार्धक्यरोधने प्रधानः अंशः भवति- इस्रायेलस्य वैज्ञानिकाः।
वार्धक्यः स्वाभविका प्रकृतिः भवति। चेदपि कस्मैरपि न रोचते इयम् अवस्था। इस्रायेलस्य वैज्ञानिकाः नूतनम् अध्ययनं कृत्वा प्रमाणीक्रियते यत् ओक्सिजनम् (Oxygen) उपयुज्य क्रियमाणान् चिकित्सावविधीन् एव वैज्ञानिकाः अकुर्वन्। टेल् अवीव् विश्व-विद्यालयस्य तथा षेमीर औषधकेद्रस्य च वैज्ञानिकानां इदं प्रत्यभिज्ञानं नवम्बर् १८ दिनाङ्के एजिङ् मासिकायां प्रकाशितम्। ओक्सिजनस्य अधिक सम्मर्देन सज्जीकृते प्रकोष्ठे कोशेभ्यः संशुद्धं ओक्सिजनम् दत्वा असीत् प्राथमिकपरीक्षणम् ।
Saturday, November 28, 2020
Friday, November 27, 2020
निवारचक्रवातः - मरणानि त्रीणि; २.२७लक्षं जनाः सुरक्षितस्थानं नीताः।
चेन्नै> तमिल्नाट्राज्ये गतदिने प्रवृत्तेन निवारचक्रवातेन त्रयः जनाः मृताः। राज्यस्य औत्तरजनपदेषु व्यापकरीत्या कृषिनाशः अभवत्। जलोपप्लव-साध्यताप्रदेशेभ्यः २.२७ लक्षं जनाः सुरक्षितस्थानं नीताः।
१०१ गृहाणि विशीर्णानि। भूतलं प्राप्य अतितीव्रचक्रवातः दुर्बलं भूत्वा आन्ध्रप्रदेशं प्रविष्टः। चेन्नै विमाननिलयस्य प्रवर्तनं ह्यः पुनरारब्धम्।
Thursday, November 26, 2020
न्यूसिलान्टस्य प्रतिनिधिसभायां
भारतवंशजः संस्कृतेन शपथग्रहणं कृत्वा इतिहासम् अलिखत्।
वेल्लिङ्टण्> भरतवंशजः डो. गौरवशर्मा न्यूसिलान्टस्य प्रतिनिधिसभायां
संस्कृतेन शपथग्रहणं कृत्वा इतिहासम् रचितवान्। हिमाचल् प्रदेशस्य हमिर्पुरं मूल स्थानभूतः भवति। एष: हमिल्टण् वेस्टिल्तः 'लेबर् पार्टी' स्थानाशित्वेन विजयीभूतः। बुधवासरे आसीत् अस्य शपथग्रहण-समारोहः। न्यूसिलान्ट् प्रतिनिधिसभायां निवाचितेषु न्यूनवयस्कः भवति एषः। एष: गौरव् शर्मा न्यूसिलान्टस्य मावोरी इति प्रादेशिकभाषायां तदनन्तरं पौराकायां संस्कृतभाषायां च शपथग्रहणं कृतवान् ।
किमर्थं भारतस्य प्राशासनिकभाषां हिन्दीं शपथग्रहणाय न स्वीकृतः इत्यस्य प्रश्नस्य सौरवशर्मा सविनयम् उत्तरं दत्तवान्।
'विषयमधिकृत्य बहु चिन्तितवान्। मम प्राथमिक भाषा भवतः पहारि पञ्चाबि च। सर्वान् तोषयितुं क्लेशः भवति। अतः सर्वैः समादृता संस्कृतभाषा एव मया स्वीकृता इति गौरवेण ट्वीट् कृतम्।
ट्रम्पः पराजयं अङ्गीकृतवान्। शासनस्य हस्तान्तरीकरणाय प्रक्रमाः समारब्धाः।
वाषिङ्टण्> अमिरिकस्य राष्ट्रपतिनिर्वाचने ट्रम्पः पराजयं अङ्गीकृतवान्। अपि च नियुक्त राष्ट्रपतये जोबैडनाय राष्ट्रस्य शासनस्य हस्तान्तरीकरणाय प्रक्रमान् समारब्धुं 'वैट् हौस्' वृन्देभ्यः आदेशं दत्तवान् इति सः 'ट्वीट्' कृतवान्। अनुबन्ध प्रवर्तनाय बैडनस्य कार्यालयाय ६३ लक्षं डोलर् धनं च प्रदत्तवान्।Wednesday, November 25, 2020
पादकन्दुकप्रभुः डीगो मरडोणः निर्यातः।
संस्कृतं जनभाषा भवेत् आमुखपटलसमूहेन संस्कृत बालगीत प्रतियोगिताया: आयोजनम्
Tuesday, November 24, 2020
IMA आयुर्वेदं निराकरोति - विश्व आयुर्वेदपरिषद्
नवदिल्ली> आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा विधास्यति इत्यनेन 'अलोपति' वैद्यानां सङ्घटनेन (ऐ. एम्. ए.) विप्रतिपत्तिः प्रकाशिता आसीत्। आयुर्वेदं भरतीयं अन्यम् औषधविज्ञानान् च विरुद्ध्य IMA सङ्घटनम् सदाकालम् अनृतप्रचारेषु व्यापृतं वर्तते इति
विश्वायुर्वेदपरिषदः अखिलभारतीय-सचिवः डा. नितिन् अग्रवालः खेदं प्रकाशितवान्। अयुर्वेदौषधानां औषधसस्यानां च प्रयोजनान् अधिकृत्य वैज्ञानिक-प्रमाणानवलंम्ब्य वस्तुनिष्ठावलोकनं विना एते जनानां मनसि अविश्वासं जनयन्ति अनृतं प्रसारयन्ति च। आयुर्वेदस्य सार्वजनिक-स्वीकार्यतायाः एते बिभ्रेन्ति इति च नितिन् अग्रवालः सम्प्रतिवार्तां प्रति अवदत्। जनेभ्यः आयुर्वेदात् प्रयोजनं लभते चेत् रोगग्रस्तान् धनागमोपकरणम् इति मन्वानः औषधव्यवसायिनः वृथा न तिष्ठन्तः इति सामान्यजनाः अपि जानन्ति इति च तेनोक्तम्।
असमस्य भूतपूर्वमुख्यमन्त्री तरुण गोगोयः निर्यातः।
गुहावती> कोविड्मुक्त्यनन्तरम् अनुबन्धरोगैः प्रपीड्य परिचर्यायां वर्तितः असमराज्यस्य भूतपूर्वः मुख्यमन्त्री तथा वरिष्ठः कोण्ग्रस्दलस्य नेता तरुण गोगोयः [८४] दिवंगतः। सोमवासरे सायं ५.३४ वादने गुहावतीस्थे चिकित्सालये आसीत् तस्यान्त्यम्।
२००१ तमादारभ्य २०१६ पर्यन्तं त्रिवारं असमस्य मुख्यमन्त्री आसीत्। द्विवारं केन्द्रमन्त्रिपदमलङ्कृतवान्।
Monday, November 23, 2020
आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा। ऐ. एम्. ए. विप्रतिपत्तिः प्रकाशिता।
Sunday, November 22, 2020
जेय्षे भीकराक्रणप्रकल्पनं - पागधिकारिणमाहूय प्रतिषेधमादिशत्।
नवदिल्ली> भारते आक्रमणाय प्रकल्पितवतां भीकराणां वधानन्तरं पाकिस्थानस्य स्थानपतिप्रतिनिधिम् आहूय भारतं प्रतिषेधं प्राकाशयत्।
पाकिस्तानीयास्थानत्वेन प्रवर्तमानस्य जेय्षे भीकरसंघनस्य अनुयायिन एव हताः इति निर्णीतमासीत्। मृतदेहेभ्यः एतदुपस्थापयितुमावश्यकानि प्रमाणानि लब्धानि। भीकराणां कृते दीयमानं साहाय्यं समाप्तव्यमिति विदेशमन्त्रालयेन पाकिस्थानस्य अधिकारिणं प्रति आदिष्टम्।
Saturday, November 21, 2020
एषः इक्षुचोरः - निलीनस्य कलभस्य चित्रम् विश्वस्मिन् व्याप्तम्।
Friday, November 20, 2020
अलास्क नगरे आगामि सूर्योदयः ६६ दिनानन्तरं भविष्यति।
(आलास्कस्य उत्कियाविक् नगरः निशीथे)|Photo: University of Alaska Fairbanks Sea Ice Groupटोरन्टो> आर्टिक् मण्डले #विशेषघटना (Phenomenon) अस्ति।सूर्योदयरहितानि दिनानि। अत्र सूर्योदयं विना निशायाः दैर्ख्यः ६६ दिनानि पर्यन्तं भविष्यति। ध्रुवरात्रिः इति इयं कथ्यते। उत्तर-अमेरिक्कस्य अलास्क इति विख्यातनगरे उत्कियाग्विग् निवासिनः प्रभातसूर्यं द्रष्टुं ६६ दिनानि यावत् प्रतिक्षया स्थातव्याः। अस्य वर्षस्य अन्तिमः सूर्यास्तमयः बुधवासरे मध्याह्ने आसीत्। २०२१ जनुवरि २३ दिनाङ्कानन्तरमेव अत्र सूर्योदयः भविष्यति इति यू स् वातावरण निरीक्षण-सङ्घटनेन उक्तम्। २४ होराः यावत् सूर्यः चक्रवाल सीमायाः अधः भविष्यति इति कारणतः एव अस्य वर्षस्य अन्तिमा रात्रिः एतावती दीर्घिता ।
Thursday, November 19, 2020
वदनक्षालनद्रवः कोरोणां विरुद्ध्य फलप्रदः वा ? अनुसन्धानं प्रचलति।
लण्टण्> कोविड् रोगकारिणं कोरोणवैराणुं प्रतिरोद्धुं वदनक्षालनद्रवः(Mouth Wash) फलप्रदः इति नूतनम् अध्ययनफलं समागच्छति। कार्डिफ् विश्वविघालयस्य परीक्षणशालायां कृते परीक्षणे ३० निमेषानन्तरं वदनक्षालनद्रवः वैराणुं नाशयति इति अवगतम्। अन्येषां गवेषकाणाम् अङ्गीकारं प्रतीक्ष्य तिष्ठत् अस्ति नूतनं इदम् अध्ययन-फलम्। वदनक्षालनद्रवे उपयुज्यमानः सेट्टिपिरिडिनियं क्लोरैड् (CPC) एव वैराणुं नाशयति।Wednesday, November 18, 2020
अन्धविश्वासः षट्वयस्कायाः प्राणानपाहरत्।
काण्पुरम्> उत्तरप्रदेशे काण्पुरे षड्वयस्का बालिका आभिचारकर्मणे अतिनिष्ठुरेण व्यापादिता। घटनायामस्यां एकां महिलामभिव्याप्य चत्वारः आरक्षकैः निगृहीताः।
काण्पुरे घट्टंपुरप्रदेशीयस्य परशुरामनामकस्य अनपत्यतापरिहाराय आभिचारकर्म कर्तुं कस्याश्चन बालिकायाः श्वासकोशसहिताः आन्तरावयवाः अपेक्षिताः इति तस्य निर्देशमनुसृत्य अङ्कुल् कुरीलः, बीरानः इत्येतौ बालिकामपहृत्य समीपस्थं वनं नीत्वा बलात्कारं कृतवन्तौ। तदनन्तरं शरीरमुच्छिद्य आन्तरावयवान् समाहृत्य परशुरामाय दत्तवन्तौ इति आरक्षकाधिकारिणा उक्तम्।
आगोलसंस्थानां विधानं कालोचितं भवितव्यं - नरेन्द्रमोदी।
नवदिल्ली> संयुक्तराष्ट्रसभा, अन्ताराष्ट्रनाणकनिधिः [ऐ एम् एफ्], लोकवाणिज्यसंस्था [W T O] , विश्वस्वास्थ्यसंघटनम् इत्येतेषां विधाने कालोचितं परिष्करणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। 'ब्रिक्स्' राष्ट्राणां शिखरसम्मेलने भाषमाणः आसीत्सः।
आतङ्कवादः अतिबृहदागोलविषयः इति नरेन्द्रमोदिना प्रस्तुतम्। सर्वाणि राष्ट्राणि मिलित्वा अभियोद्धुं सज्जानि भवेयुरिति मोदी उक्तवान्।
Tuesday, November 17, 2020
अमेरिक्कस्य कोविड् प्रत्यौषधस्य तृतीय श्रेणीपरीक्षणं ९४.५ % फलप्राप्तिः।
सौमित्र चाटर्जी कालयवनिकां प्राप्तः।
कोल्कत्ता> नटनोत्कृष्टतया भारतीयचलच्चित्रख्यातिम् अन्ताराष्ट्रस्तरं संवर्धमानेषु प्रमुखः वङ्गीयः नटः सौमित्र चाटर्जी [८५] दिवंगतः। गतदिने कोल्कत्तायां निजीयातुरालये आसीत्तस्यान्त्यम्। कोविड्बाधितः अासीत्। कोविडात् मुक्तिं प्राप्तः अपि तस्य स्वास्थ्यस्थितिः अशुभा अनुवर्तमाना आसीत्।
सत्यजितरायिवर्यस्य प्रियनटः सौमित्रः तस्य चलनचित्रेषु सर्वदा नायकस्थानमलङ्कुर्वति स्म। भारतस्य परमोन्नतचलच्चित्रपुरस्कारः दादा साहिब् फाल्के पुरस्कारः, फ्रान्स् राष्रस्य परमोन्नतनागरिकबहुमतिः 'लेज्यन् आफ् ओणर्', पद्मविभूषण्, वङ्गविभूषण् इत्यादिभिः बहुभिः पुरस्कारैः विभूषित आसीदयं वरिष्ठाभिनेता।
Monday, November 16, 2020
बिहारे नितीशकुमारस्य नेतृत्वे नूतनसर्वकारस्य शपथसमारोहः अद्य।
पट्ना> बिहारराज्ये जे डि यू राजनैतिकदलस्य नेतुः नितीशकुमारस्य नेतृत्वे एन् डि ए सख्यमन्त्रिमण्डलम् अद्य सायं शपथं करिष्यति। सार्धचतुर्वादने राजभवने सम्पत्स्यमाने कार्यक्रमे राज्यपालः फगु चौहानः शपथवचनं कारयिष्यति।
अनुस्यूततया चतुर्थवारमेव नितीशकुमारः मुख्यमन्त्रिपदं प्राप्नोति। सर्वकाररूपीकरणाय यत् न्यूनातिन्यूनम् अङ्गबलमपेक्षितं तदतिरिच्य त्रीणि स्थानान्येव एन् डि ए सख्येन प्राप्तानि। भाजपा दलात् तर् किषोरप्रसादः उपमुख्यमन्त्री भविष्यतीति कल्प्यते।













