OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 26, 2019

संस्कृतभारत्याः 39 तमः संवत्सरीयमहामहः आलुवा देशे।
    आलुवा> एप्रिल् मासस्य 27, 28 दिनाङ्के आलुवा विद्याधिराज विद्याभवने संस्कृतभारत्याः एकोन चत्वारिंशत्तमः संवत्सरीय महामहः भविष्यति। प्रभाते नववादने पुस्तकमेला समारब्स्यते। सायं त्रिवादने संस्कृत सङ्गम कार्यक्रमस्य उद्‌घाटनं श्रीशङ्‌‌राचार्य विश्वविद्यालयस्य भूतपूर्व कुलपतिः डा. एं सि दिलीप् कुमारवर्यः करिष्यति। संस्कृतभारत्याः संघटना कार्यदर्शी श्री दिनेश् कामत् वर्यः मुख्यभाषणं च करिष्यति। डा. वारणक्कोट् गोविन्दन् नम्पूतिरि वर्यः  अस्मिन् वर्षस्य पण्डित-रत्नपुरस्कारेण समादृतो भविष्यति। आलुवा अद्वैताश्रमाध्यक्षः स्वामी शिवस्वरूपानन्दः कार्यक्रमे अनुग्रह भाषणं करिष्यति। डा. पि के माधवन्, महामहोपाध्याय डो. जि गङ्गाधरन् नायर् महोदयः, डा ईश्वरः ई एन्‌  च  कार्यक्रमे भाषणं करिष्यन्ति।