OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 14, 2019

यू ए ई राष्ट्रे शक्ता वर्षा- जाग्रता निर्देशः प्रसारितः।
   दुबाय्> मेघगर्जनेन सौदामिन्या सहितायां महत्यां वृष्ट्यां निमज्जितं यु ए ई राष्ट्रम्। विविध भागेषु वातः वृष्टिः च अनुवर्तते इति कारणेन रविवासरस्य पूर्वाह्ने ११:३० पर्यन्तं जाग्रता सूचना प्रसारिता अस्ति। शनिवासरात् आरभ्य अनुवर्तिता भवति वृष्टिः। वृष्ट्या सह करकाः (Hali) अपि पतितानि। पूर्वदेशेषु एदन् अल्गयिल्, प्रदेशेषु विद्यमानेषु गिरिशिखरेषु मेघविस्फोटः अभवत्। गतागतसुविधा स्थगिता। 
   दिनद्वयात् पूर्वं अन्तरिक्षः मेघाच्छादितः आसीत्। मध्याह्ने एव आतपः। अन्यस्मिन् काले  शीतवातस्य वीजनम् आसीत्। इदानीं सर्वकारेण अतिसुरक्षाप्रक्रमाः स्वीकृताः।