OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 2, 2019

बालकानाम् असभ्यचित्रप्रसारणं - २० जनाः निगृहीताः। 
अनन्तपुरी >  सामाजिकमाध्यमद्वारा बालकानां नग्नचित्राणि प्रसारितानि इति विषये केरले २० जनाः निगृहीताः। 'ओपरेषन् पि हन्ट्' इति नामधेयीकृतेन सविशेषान्वीक्षणेन आसीत् केरलस्य सैबर्विभागेन अयं पदक्षेपः। 
 बालकान् प्रति लैङ्गिकातिक्रमान् प्रतिरोद्धुं केरलस्य आरक्षकविभागेन सविशेषदलः रूपीकृतः आसीत्। इन्टर्पोल् नामकान्ताराष्ट्रनियोगकर्तुः अप्रत्यक्षानां चूषणविधेयानां बालकानां कृते प्रवर्तमानस्य संघनस्य च साह्येन विविधस्थानेषु युगपत् कृते अन्वीक्षणे २० अपराधिनः निगृहीताः आसन्। 
  बालकानां नग्नचित्राणां प्रसारणं सहभोगत्वं च पञ्चवर्षाणां तीव्रकारागारबन्धनाय दशलक्षं रूप्यकाणि यावत् द्रव्यदण्डाय च अर्हति।