OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 13, 2019

अष्टोत्तरशतं दीपप्रज्वलनेन संस्कृताचार्यस्य अष्टोत्तरशततमः जन्मदिनाघोषः।   
के पि अच्युतपिषारटि। 

पट्टाम्पी >  संस्कृतप्रचारः जीवितव्रतत्वेन स्वीकृतवतः आचार्यस्य १०८तमं जन्मदिनं अक्षरदेवतायाः पुरतः १०८ दीपान् प्रज्वाल्य आघुष्टम्। के पि अच्युतपिषारटि नामकः वन्द्यवयोधिकः इदानीमपि संस्कृतभाषाप्रचाराय मग्नः भवति। प्रतिदिनं अनेकाः शिष्याः 'पुतुश्शेरि मन' नामके तस्य भवने  सन्देहनिवारणाय नवज्ञानार्जनाय च तम् उपगच्छन्ति। शिष्याणां परिवाराङ्गानाम् अभ्युदयकाङ्क्षिणां च नेतृत्वे कोटुमुण्ट मण्णियम्पूर् सरस्वतीमन्दिरे आसीत् १०८ दीपानां प्रज्वालनम्। 
  पण्डितराज इति प्रख्यातस्य पुन्नश्शेरि नीलकण्ठशर्मणः शिष्येषु वयोभिः ज्येष्ठतमो भवति के पि अच्युतपिषारटिः।  यशःशरीरः संस्कृतपण्डितः ग्रन्थकारश्च  के पि नारायण पिषारटिः तस्य ज्येष्ठः आसीत्। बाल्ये ज्येष्ठ आसीत् देववाण्यां तस्य गुरुः। अनन्तरं पुन्नश्शेरि नम्पिनः 'सारस्वतोद्योतिनी' नामिकायां पाठशालायां संवत्सरचतुष्टयं संस्कृतं पठित्वा 'साहित्यशिरोमणि' बिरुदं संप्राप्तवान्। 
   ततः तृप्रयार् पेरिङ्ङोट्टुकर विद्यालये संस्कृताध्यापनेन अच्युतपिषारटि वर्यः स्वस्य संस्कृतसपर्यां प्रारब्धवान्। अनन्तरं सप्त वा अष्ट विद्यालयेषु सः औद्योगिकवृत्तिरूपेण  संस्कृतामृतं पर्यवेषयत्। विरामानन्तरं स्वभवनमेव पाठशालामकरोत्। ततः इदानीमपि शिष्येभ्यः ज्ञानसुधा प्रवहति।संस्कृतसाहित्य व्याकरणादिषु शास्त्रेषु तस्य अगाधं पाण्डित्यमास्वाद्य शिष्याः अभिरमन्ति च।