OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 19, 2019

नेपालस्य पदक्षेपः बाह्याकाशंप्रति- प्रथमः उपग्रहविक्षेपणः विजयः।

 काठ्‌मण्‌डु > बाह्याकाशं प्रति उपग्रहविक्षेपणं कृत्वा नेपालराष्ट्रेणापि तेषाम् उपस्थितिः प्रख्यापिता। नेपालस्य प्रथमविक्षेपणम्  विजयमासीत् इति वैज्ञानिकान् नेपालस्य पौरजनान् च आह्लादचित्तान् आकारयत्। अमेरिक्कस्थ विर्जिनिया विक्षेपणपीठात् २:३१ वादने आसीत् विक्षेपणम्।

    नेपाली साट् १ - उपग्रहः नेपालस्यवैज्ञानिकैः निर्मितः भवति । नेपालदेशस्य वैज्ञानिकयोः अभास् मस्के, हरिराम् श्रेष्ठ इत्याख्ययोः नेतृत्वे विद्यमान सङ्खः एव उपग्रहनिर्माणेषु व्यापृतः। सर्वेभ्यः वैज्ञानिकेभ्यः नेपालस्य प्रधानमन्त्री के पि शर्मा ओली अभिनन्दनम् अर्पितवान्। एषः निमेषः राष्ट्रस्य अभिमान निमेषः इति तेन उक्तम्।