OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 22, 2019

प्रधानमन्त्री चोरः इति उक्तिः - राहुल्गान्धी सर्वोच्च न्यायालये खेदं प्रकाशितवान्।

    नवदिल्ली> प्रधानमन्त्री चोरः इति सर्वोच्च न्यायलयेन प्रत्यभिज्ञातम् इति प्रस्तुत्यां कोण्ग्रस् अध्यक्षः राहुल् गान्धी उच्चन्यायालये खेदं प्रकाशितवान्। सत्यवाङ्मूलमपि लिखित्वा दत्तवान्। राफेल् नियामिकविधाने सर्वोच्च-न्यायालयस्य मध्यकालीन निर्णयं सूचयित्वा  आसीत् राहुल् गान्धिनः भाषणम्। राफेल्  क्रयणे प्रधानमन्त्रिणा अलीकः कृतः इति सर्वोच्च न्यायालयेनोक्तम् इत्यासीत्  अमेत्याम् आयोजिते निर्वाचनमेलने उक्तम्।  एतस्य भाषणं विरुद्ध्य भाजपादलेन सर्वोच्च न्यायालये न्यायालयालक्ष्य याचिका प्रदत्ता आसीत्l