OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 4, 2019

राहुल् गान्धी वयनाट् मण्डले पत्रिकां समार्पयत्।
आराधकान् उत्तेजयन् वीथीप्रदर्शनम्।

कल्पट्टा >  कोण्ग्रस् दलस्य देशीयाध्यक्षः राहुल् गान्धी केरलस्य वयनाट् मण्डले यू डि एफ् सख्यस्य स्थानाशिरूपेण नामनिर्देशपत्रिकां समार्पयत्। देशीय-राज्यीयनेतॄणां सान्निध्ये वयनाट् जनपदाधिकारिणः समक्षे पत्रिकायाः गणचतुष्टयं तेन समर्पितम्।
  ह्यः रात्रौ कोष़िक्कोट् प्राप्तः राहुलः अद्य प्रभाते सार्धदशवादने दलस्य देशीयसचिवया तथा च सोदर्या प्रियङ्का गान्धिना सह उदग्रयानेन वयनाटस्थे कल्पट्टां प्राप्तवान्। सहस्रशः यू डि एफ् प्रवर्तकाः सामान्यजनाश्च राहुलदर्शमात्रोत्सुकाः प्रतीक्ष्यमाणाः आसन्। सुरक्षाधिकारिणः निर्देशं विगणय्य अपावृते वाहने सञ्चरन् जनानभिवादनं कुर्वन् सः प्रियङ्कया नेतृभिश्च सह जनपदकार्यालयम् अगच्छत्।
 पत्रिकासमर्पणानन्तरं कल्पट्टानगरे वीथीप्रदर्शनं च सम्पन्नम्।