OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 7, 2019

केरले भूगर्भजलं षट् मीटर् पर्यन्तम् अवनतम्। 
पानजलदुर्भिक्षं प्रतीक्षते।
आलप्पुष़ा >  प्रलयानन्तरं केरले विविधेषु जनपदेषु भूगर्भजलवितानं द्वेरारभ्य षण्मीटर् पर्यन्तम् अवनतमिति राज्यभूजलविभागेन कृते अन्वीक्षणे परिदृष्टम्। अन्वीक्षणफलस्य आवेदनं सर्वकाराय समर्पितम्। राज्ये नैकेषु प्रदेशेषु पानजलदुर्भिक्षम् भविष्यतीति आशङ्का अस्ति।
 तृश्शिवपेरूर् जनपदस्य विविधेषु प्रदेशेषु एव ६ मीटर् परिमितस्य जलावनतिः दृष्टा। गतदशसंवत्सरेषु राज्यस्य कूपेषु अनुभूतं जलवितानव्यतियानं निरीक्ष्य आसीत् अन्वीक्षणम्।
 कोल्लं, कोट्टयं, वयनाट्, कासरगोड्, कोष़िक्कोट्, एरणाकुलम्, आलप्पुष़ा, मलप्पुरम्, इटुक्की, पत्तनंतिट्टा, कण्णूर्, पालक्काट्, तिरुवनंतपुरम् इति क्रमेण एव अन्येषां जनपदानां भूगर्भजलप्रतिसन्धिः।