OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 21, 2019

केरले घोषप्रचारणम् अद्य समाप्यते ; मतदानं परश्वः। 
कोच्ची >   लोकसभानिर्वाचनस्य तृतीयसोपाने  केरलस्य जनहितं सम्पद्यते! परश्वः सम्पद्यमानाय निर्वाचनाय घोषप्रचारणम् अद्य सायं षट्वादने  समाप्यते।  सर्वं सिद्धमिति केरलस्य मुख्यनिर्वाचनाधिकारी टिक्कारां मीणा न्यवेदयत्।
    केरले विद्यमानेषु २० मण्डलेषु एकेनैव सोपानेन निर्वाचनं सम्पत्स्यते। भूरिशः मण्डलेषु कोण्ग्रस् दलस्य नेतृत्वे यू डि एफ् सख्यं , सि पि एम् दलस्य नेतृत्वे एल् डि एफ् सख्यं च मुख्यौ प्रतियोगिनौ। तथापि ५-६सु मण्डलेषु भा ज पा दलेन सह शक्ता त्रिकोणप्रतिस्पर्धा दृश्यते।
 अत्रत्यं वयनाट्  मण्डलं कोण्ग्रस् दलाध्यक्षस्य राहुल् गान्धिनः स्थानाशित्वेन देशीयश्रद्धा्माकर्षति। मिसोरामराज्यस्य राज्यपालपदं परित्यज्य   बी जे पी स्थानाशित्वेन स्पर्धमानस्य कुम्मनं राजशेखरस्य सान्निध्येन तिरुवनन्तपुरं मण्डलमपि राष्ट्रियप्राधान्यमर्हति। शबरिगिरिमन्दिरस्य अधिष्ठानत्वेन वर्तमानं पत्तनंतिट्टा मण्डलमपि देशीयस्तरे त्रिकोणस्पर्धया राजनैतिकश्रद्धामावहति। के सुरेन्द्रः तत्र बी जे पी स्थानाशी।
 प्रधानमन्त्री नरेन्द्रमोदी, अमित् षा, राहुल् गान्धी, प्रियङ्कागान्धी, सीतारां यच्चूरी इत्यादयः बहवः राष्ट्रियनेतारः स्वस्वदलीयानां स्थानाशिनां कृते केरलेषु सर्वत्र प्रचारणं कृतवन्तः सन्ति।