OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 18, 2019

विश्वस्य बृहत् विमानं डयितम्। त्रयः आकाश-बाणः विक्षेपणाय  विमाने सुसज्जः।
    मौक्रोसोफ्ट् संस्थायाः सहस्थापकः पोल् अलन् इत्याख्यस्य सङ्कल्पनमासीत्  विश्वस्य बृहत् आकारकं विमानम् इति। इदानीं तस्य स्वप्नस्य साक्षात्कारः  अभवत्। शनिवासरे विमानं उड्डयितम्।
१९४७ तमे डयितः  होवार्ड् ह्यूग्स् इत्यस्य 'स्प्रूस् गूस्' इति विमानादपि बृहत् भवति 'स्ट्राट्टो लोञ्च्' इति नूतनं इदं विमानम्।
    कालिफोर्णिय देशास्य मोजावे एयर्  आन्ट् स्पेस् पोर्टतः उड्डयितं विमानं होराद्वयम्  आकाशे विहरितम्।  २८ चक्राणि द्वे बाह्य कवचे, षट् ७४८ जेट् यन्त्राणि च सन्ति इति विमानस्य सविशेषता एव। विमानस्य पक्षे पादकन्तुकक्षेत्रस्य उभयपार्श्वपर्यन्तं दीर्घितं अस्ति। विक्षेपणाय सुसज़्जः    त्रयः आकाश-बाणाः अपि विमाने  विद्यन्ते। किन्तु विमानस्य डयनं द्रष्टुं पोल् अलन् इत्यस्य भाग्यः नासीत्। विगते ओक्तोबर् मासे सः दिवङ्गतः अभवत्।