OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 4, 2019

जापाने नवसाम्राज्यप्रसूतिः - रेय्वा।
जापाने ओको हियोमा नगरस्थे आपणकवाटे स्थापिता नवसाम्राज्याख्या पताका। 

टोक्यो >  जापानराष्ट्रे मई मासस्य प्रथमदिनाङ्कादारभ्य साम्रज्यशासनकालाय नवनामधेयः - रेय् वा।  क्रमः लयः च इत्यर्थः। अनेन नाम्नैव जापानसाम्राज्यम् इतःपरमभिज्ञायते। अकिहितो चक्रवर्तिनः 'हेय् सेय्'  नामकः इदानींतनशासनकालः एप्रिल् मासेन समाप्यते। 
 प्रधानमन्त्री षिन्सो आबे वर्यः नवसाम्राज्यस्य नाम प्राख्यापयत्। क्रमः, शुभम् इत्यर्थोपेतः 'रेय्' शब्दः, लयः इत्यर्थको 'व' शब्दः जापनीस् भाषायाम्। एतयोः शब्दयोः मेलनेन नूतनाख्या विधत्ता। पुरातनजापान् कवितासमाहारात् 'मनियोषु'नामकादेव अयं नामधेयः लब्ध इति आबे वर्येणोक्तम्। 
 चत्वारि अधिराष्ट्राणि  - जापाने एकैकाधिराजस्य कालखण्डः सविशेषे नाम्नि ज्ञायते। आधुनिके जपानचरिते चत्वारि साम्राज्यानि सन्ति। मेय् जि कालखण्डः [१८६८-१९१२], तय् षो [१९१२-१९२६], षो वा [१९२६-१९८९], हेय् सेय् [१९८९-२०१९]।