OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 23, 2019

लोकसभानिर्वाचनं  - तृतीयसोपानम् अद्य ; मण्डलानि ११७।
नवदिल्ली >  भारते लोकसभानिर्वाचनस्य तृतीयं सोपानम् अद्य प्रातः  सप्तवादने आरब्धम्। १३ राज्येषु द्वयोः केन्द्रशासनप्रदेशयोश्च अस्मिन्  सोपाने मतदानं सम्पद्यते। केरलं , गुजरात्, गोवा राज्येषु सर्वेषु मण्डलेष्वपि अद्यैव जनहितं समर्पयिष्यति। 
 कर्नाटके १४, महाराष्ट्रे १४, उत्तरप्रदेशे १०, छत्तीसगढ़े ७, ओडीषायां ६, बीहारे ५, वंगे ५, असमे ४, ततो जम्मुकाश्मीरः, त्रिपुरा, दादर नगरहवेली, दामन् दि यू इत्येतेषु प्रदेशेषु च अद्य मतदानं सम्पत्स्यते।