OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 20, 2019

शिशून् विरुध्य अतिक्रमं वारयितुं नियमसंहितापरिवर्तनाय यतिष्यते - शिशुक्षेममन्त्रिणी। 
 तिरुवनन्तपुरं >  शिशून् विरुध्य अतिक्रमान् वारयितुम् इदानींतनकेन्द्रनियमसंहितायां परिवर्तनाय यतिष्यत इति केरलराज्यस्य स्वास्थ्य-शिशुक्षेममन्त्रिणी के के शैलजा उक्तवती। केरले सप्ताहद्वयाभ्यन्तरे द्वौ शिशू पितृकल्पबान्धवानां मर्दनेन मारितौ इत्येतां घटनां पुरस्कृत्य एव सर्वकारस्य एतादृशी परिकल्पना। एतादृशघटनासु  अपराधिभूतानां द्रव्याणि सर्वकाराधीनतां प्रापयितुं पदक्षेपः   स्वीकरिष्यते।
  मातुः मर्दनेन एरणाकुलस्थे निजीयातुरालये प्रविष्टः त्रिवयस्कः शिशुः ह्यः मृत आसीत्। सप्ताहद्वयात्पूर्वं पितृस्थानीयस्य क्रूरमर्दनेन पञ्चवयस्कः इतरः बालः अपि मृत्युमुपगतवान्।
  शिशून् तथा बालकान् विरुध्य क्रियमाणेभ्यः अतिक्रमेभ्यः तान् रक्षितुं 'तणल्' नामिका परियोजना आविष्कृता अस्ति। १५१७ इति दूरवाणीसंख्यां प्रति बालान् विरुध्य सर्वानतिक्रमान् सूचयितुं शक्यते।