OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 10, 2019

ऑण् लैन् द्वारा धनांशदानं स्वीकृतेषु प्रथमस्थानं कनय्यकुमाराय- ७० लक्षम्।
   नवदिल्ली > अम्मिन् लोकसभानिर्वाचने प्रचारणाय ओण्लैन् द्वारा धनांशं स्वीकृतवन्तः बहवः सन्ति। तेषु अधिकधनं स्वीकृत्य प्रथमस्थानं प्राप्तवान् सि पि ऐ स्थानाशी कनय्यकुमारः। ७० लक्षं रूप्यकाणि तेन एवं स्वीकृतानि। पूर्वदिल्ली मण्डलस्य ए ए पि स्थानाशी अतिषि मार्लेनया ५० लक्षं रुप्यकाणि सञ्चितानि। आन्ध्रराज्यस्य पार्चुरितः स्पर्धिष्यमाणः बि एस् पि स्थानाशी विजयकुमारः १.९ लक्षं रूप्यकाणि  समाहृतानि। सि पि एम्‌ स्थानाशी मुहम्मद् सलीमः १.४ लक्षं रूप्यकाणि एवं संभृतानि।
     'अवर् डेमोक्रसि' इति क्रौड् फण्टिङ् अन्तर्जाल-सुविधा द्वारा स्थानाशिनः १.४ कोटि रूप्यकाणि एवं स्वीकृतानि। ४० स्थानाशिनः एषा अन्तर्जाल सुविधायाः उपयोगं कृतवन्तः।