OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 24, 2019

केरले मताधिकाराङ्कनं महत्तरम्!(७८℅)
* समीपकालानां सर्वोच्चं मतदानम्! * ब॒हुत्र मतदानसमाप्तिः रात्रौ  विलम्बेन। यन्त्राणाम् अकुशलत्वमपि विलम्बहेतुः। 
अनन्तपुरी >  सप्तदशतमलोकसभानिर्वाचनस्य स्पर्धानिलः केरले मतदानवेलायामपि दृष्टः। दशकत्रितयेषु सर्वोत्कृष्टं मतदानमानमेव सम्पन्नम्। प्राथमिकसूचनाः अनुसृत्य ७७.७०% जनाः स्वाधिकारं विनियुक्तवन्तः। 
   प्रातः सप्तवादनादारब्धा मतदानप्रक्रिया सायं षड्वादनमिति निश्चितसमयमतिक्रम्य रात्रौ विलम्ब्य दीर्घिता। गतकालप्रक्रियामपेक्ष्य 'विविपाट्' यन्त्रस्य योजनेन अधिकः समयः एकैकस्य मतदानाय अपेक्षित आसीत्। किञ्च बहुत्रापि मतदानयन्त्राणां दूषणेन मतदानप्रारम्भ अपि विलम्बितः। किन्तु सम्मतिदायकानां बाहुल्यमपि प्रमुखं कारणमासीत्। 
  उच्चतमं मतदानं कण्णूर् मण्डले अङ्कितं - ८२.५%! राहुलगान्धिनः स्थानाशित्वेन देशीयश्रद्धामापन्ने वयनाट् मण्डले मतदानं सर्वकालीनं मानं भित्वा ८०.३% इति रेखितम्! केरलस्य सर्वेषु मण्डलेष्वपि मतदानमानं २०१४ तमवर्षस्य मानम् अतीतम्! अधुनातनस्य मतदानस्य फलं सर्वे राजनैतिकदलाः स्वहितफलात्मिकमति आश्वसन्ते!