OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 3, 2019

कृषकान् युवकान् अकिञ्चनान् च वशीकर्तुं कोण्ग्रसः घोषणापत्रम्। 
 नवदिल्ली >  कार्षिकर्णादिविषयान् कर्माभावं दारिद्र्यं च मुख्यसमस्यारूपेण स्वीकृत्य तेषां परिहाराय विविधाः परियोजनाः अवतार्य कोण्ग्रस् दलस्य घोषणापत्रं प्रकाशितम्। 'वयं करिष्यामः' इति शीर्षकयुक्तं घोषणापत्रं दलस्य वरिष्ठनेतॄणां सान्निध्ये अध्यक्षेण राहुल् गान्धिना प्रकाशितम्। 
  यदि कोण्ग्रस् शासनपदं प्राप्स्यति तर्हि अधोनिर्दिष्टानि कार्याणि विधास्यन्तीति घोषणापत्रे वाग्दानं क्रियते। 
* २०२० मार्च् मासाभ्यन्तरे केन्द्रसेवनसरण्यां चतुर्लक्षं कर्मरिक्तस्थानानि पूरयिष्यन्ते! 
* कृषकाणां कृते सविशेषम् आयव्ययपत्रम् अवतारयिष्यते! कार्षिकर्णप्रत्यर्पणे कालविलम्बः दण्डनार्हः अपराधः न भविष्यति! 
* निस्वानां कृते "न्यूनतमम् आय योजना" (न्याय) परिकल्प्यते, यत्र दरिद्रेभ्यः प्रतिमासं ६००० रूप्यकाणाम् आयः दृढीकुरुते! 
* पञ्चायत्त् स्तरे दशलक्षं सेवामित्रपदानि संसृज्यते!