OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 20, 2019

भारतीयाः ट्रिप्पोली नगरात् शीघ्रं प्रतिनिवर्तनीयाः - सुषमास्वराजः। 
   नवदिल्ली> लिबिय राष्ट्रस्य राजधानीतः ट्रिप्पोलीतः भारतीयाः शीघ्रमेव प्रतिनिवर्तनीयाः इति केन्द्र-विदेशकार्यमन्त्रिण्या सुषमा स्वराज् महाभागया उक्तम्।  लिबिय राष्ट्रे आभ्यन्तर कलहः वर्धितः इत्यनेन भवति विदेशकार्यमन्त्रिण्यः निर्देशः। युषमाकं बान्धवान् सुहृदः च ट्रिप्पोलीतः प्रत्यागन्तुम् उच्यताम्  नो चेत् ततः तान् निष्कासितुं न शक्यते अस्माभिः इति टिट्वर् द्वारा सुषमा महाभागया  उक्तम्I
   लिबियस्य राजधानी ट्रिप्पोलीनगरस्य नियन्त्रणं ग्रहीतुकामाः विमतदलीयाः सप्ताहद्वयं यावत् प्रयत्नं कुर्वन्तः सन्ति। सन्दर्भोऽयं संघर्षः वर्धितः। ५०० भारतीयाः ट्रिप्पोलि नगरे सन्ति इत्यस्ति आवेदनम्। अतिरूक्षसंघर्षः  स्यात्  इदानीं विमानसेवा अस्ति इत्यपि विदेशकार्यमन्त्रिण्या उक्तम्।