OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 29, 2019

संस्कृतभाषाप्रचारणमण्डले संस्कृतभारत्याः योगदानं महत्तरं - एम्  सि दिलीप् कुमारः।
विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसंगमं
डा एं सि दिलीप्कुमारः उद्घाटनं करोति।
 आलुवा >  संस्कृतभाषायाः प्रचारणे संस्कृतभारत्याः तथा 'विश्वसंस्कृतप्रतिष्ठानं' नामकस्य केरलघटकस्य योगदानं महत्तरं भवतीति कालटी संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिना एं सि दिलीप् कुमारमहोदयेन उक्तम्। 'प्रतिष्ठान'स्य ३९तमं राज्यस्तरीयं संस्कृतसङ्गमम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। आविश्वं बहुषु राष्ट्रेषु संस्कृतसम्भाषणद्वारा भाषाप्रचारणाय यतते संस्कृतभारती। प्रतिष्ठानस्य प्रवर्तनं केरले आदर्शपूर्णं तथापि इतो$पि  उत्कृष्टं भवितव्यमिति तेन निर्दिष्टम्। यतः यत्र संस्कृतस्य प्रभावः न दृश्यते तत्र सांस्कृतिकाधःपतनं सूच्यते।
  अस्मिन् संस्कृतसङ्गमे संस्कृतशास्त्रपण्डितः ग्रन्थकारश्च वारणक्कोट्ट् गोविन्दन् नम्पूतिरिः , रेखाचित्रकारः वेणु वारियत्त् इत्येतौ पण्डितरत्नपुरस्कारेण आदृतौ। संस्कृतभारत्याः अखिलभारतीयसंघटनाकार्यदर्शी दिनेश् कामत्त् वर्यः मुख्यभाषणमकरोत्। राज्याध्यक्षः डो. पि के माधवः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। उपाध्यक्षः डो. ई एन् ईश्वरः स्वागतं, पि एम् जोषी कृतज्ञतां च प्रकाशितवन्तौ।