OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 10, 2019

राजनैतिकदलाचार्यः के एम् माणी दिवंगतः। 
  कोच्ची>  केरलस्य राजनैतिक-दलमण्डले अतुल्यप्रशोभं विराजमानः वरिष्ठनेता , केरलाकोण्ग्रस् (एम्) दलस्य परमाध्यक्षः, यू डि एफ् सख्यस्य परमोन्नतः नेता,  तथा च पक्षभेदं विना 'माणिसर्' इति सम्बुध्या समादृतः के एम् माणि महोदयः (८६) ह्यः सायं कोच्ची नगरस्थे लेक्षोर् आतुरालये दिवंगतः। श्वासकोशरोगबाधितः सः कतिपयकालेन तत्र चिकित्सायामासीत्। 
  इदानीं कोट्टयं जनपदस्थे पाला मण्डले सामाजिकस्य माणिमहोदयस्य राजनैतिक-जीवनप्रशोभाम् एवं संगृह्यामहे - 
* राष्ट्रे नितरामधिकतमम् आयव्ययपत्राणि अवतारितवान् वित्तमन्त्री! (१३वारं)
* केवलमेकैकमात्रस्य मण्डलस्य दीर्घतमकालीनः सामाजिकः! (पाला - १३वारं विजितवान्,  ५४ संवत्सराणां सामाजिकत्वम्!)
* केरलराजतन्त्रसभायां दीर्घतमकालीनः अङ्गः ! 
* केरलराज्यस्य मन्त्रिरूपेण भूयिष्ठकालीना सेवा! सप्तवारत्वेन २४ संवत्सराणि विविधाः विभागाः अनेन निरूढाः!
  प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् दलाध्यक्षः राहुल् गान्धी, केरलमुख्यमन्त्री पिणरायि विजयः इत्यादयः बहवः प्रमुखाः माणिवर्यस्य निर्याणे अनुशोचितवन्तः!