OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 26, 2021

 अमेरिक्कादेशे द्वादशतलाट्टगृहं भग्नं जातम्।  ९९ जनाः अप्रत्यक्षाः जाताः। १०२ जनाः रक्षिताः।

अमेरिक्कादेशे मियामिनगरसमीपस्थं अट्टगृहम् एव भग्नं जातम्। त्रयः जनाः अपघाते मारिताः इति अन्तिमावेदनम्। ९९ जनाः अप्रत्यक्षीभूता: इति आरक्षकैः आवेदितम्। तेषां कृते अन्वेषणम् अनुवर्तते। इतः पर्यन्तं १०२ जनाः रक्षिताः। तेषु दश जनाः व्रणिताश्च। द्वादशतलाट्टगृहं भागिकतया भग्नमभवत्। अट्टगृहस्य अर्धभागः पूर्णतया भग्नं जातम्। अपघातस्य कारणम् अव्यक्तम् अस्ति।१३० यावत् भवनानि अट्टगृहे आसन्। रक्षां प्राप्तेषु स्त्रियः बालकाः च सन्ति। रक्षाप्रवर्तनं सुगमं कर्तुं प्रदेशे आपत्कालीनावस्था प्रख्यापिता। यावच्छक्यं साहाय्यं कर्तु सदा सन्नद्धोऽस्ति इति अमेरिक्कादेशस्य राष्ट्रपतिना जो बैडन् महोदयेन प्रोक्तम्।