OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 28, 2021

 चीने अटनार्थं प्रस्थितं गजयूथं  दक्षिणदिशं लक्ष्यीकृत्य गच्छदस्ति।


  बेय्जिङ्> चीने अटनम् आरब्धं गजयूथं समीपकाले यात्रायाः विरामं कर्तुं न उत्सुकम् इव दृश्यते। युनान् प्रविश्यातः वर्षात्पूर्वं यात्रां समारब्धम् एष्यायाः गजयूथम् इदानीं दक्षिणदिशं लक्ष्यीकृत्य गच्छन्नस्ति। सिष्वाङ्बेन्ना दाय् राष्ट्रियोद्यानतः एव यात्रा समारब्धा। प्रविश्यायां यु सि मध्ये इषान्कौण्डेः समीपे आहत्य दश गजाः सन्ति। गतचत्वारिदिनानि यावत् अनस्यूतं  दक्षिणदिशं लक्ष्यीकृत्यैव अटनं कुर्वन्तः सन्ति। विंशतिदिनात्पूर्वं यूथात् एकः गजः कुन्मिङ्देशस्थं जिन्निङ् जिल्लातः ३२.५ किलोमीट्टर् व्यतिचलित्वा सञ्चरति । विशेषसुरक्षायुक्तस्य गजयूथस्य अटनं सुगमं कर्तुम् उपत्रिसहस्रं जनाः  गजानां सञ्चारपथात् अन्यत्र नीतवन्तः। सञ्चारपथे तत्र तत्र गजयूथस्य कृते खाद्यानि सज्जीकृतानि। इषान्कौण्डि प्रदेशे इदानीं प्रचलिता अतिवृष्टि:  निरीक्षणाय विघातं सृजति। सिष्यान्बेन् उद्यानतः ५०० किलोमीट्टर् अतिक्रम्य एव गजसंघः कुन्मिङ् प्रदेशे आगतः। प्रायेण एष्यागजेषु दीर्घपलायनविशेषस्वभावः नास्ति। अतः वैज्ञानिकसङ्घै: इदानीं गजयूथाटनम् अधिकृत्य अध्ययनं क्रियते।