OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 29, 2021

 ट्विट्टर् माध्यमस्य भूमानचित्रे जम्मू तथा लडाकः च प्रत्येकराष्ट्रम्। प्रक्रमाय  भारतसर्वकारः।

 नवदिल्ली>  नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् संबन्ध्य भारतसर्वकारस्य ट्विट्टर् माध्यमस्य  च मिथः विवादे अनुवर्तमाने पुनः अपि ट्विट्टर् माध्यमः नूतनविवादे पतितः। केन्द्रशासनप्रदेशौ जम्मूः लडाकः च भारतस्य बहिः प्रत्येकं राष्ट्रे इति रूपेण ट्विट्टर् माध्यमः स्वजालपुटे (website) भूमानचित्रे सूचितः। नूतन विवादे भारतसर्वकारस्य कठिनप्रक्रमाः ट्विट्टर् माध्यमः अभिमुखीकरिष्यति इति सूचना। राष्ट्रस्य अपूर्णभूमानचित्रस्य प्रदर्शने सामूहिकमाध्यमादिषु प्रतिषेधाणि अनुवर्तन्ते। ट्विट्टर् माध्यमं विरुध्य कठिनप्रक्रमाः समालोचयन्ति इति एतद्विषयसंबन्धिभिः अधिकारिभिः निगदितम्।