OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 26, 2021

 प्रकोपनम् अनुवर्तते चेत् ब्रिट्टणस्य युद्धनौकाः अग्निबाणेन विदारयिष्यति इति रष्यस्य पूर्वसूचना।

   मोस्को> ब्रिट्टणस्य नाविकसेनासकाशात् प्रकोपनपराणि प्रवर्तनानि भविष्यन्ति चेत् श्यामसमुद्रे आसीनां ब्रिट्टणस्य युद्धनौकाम् अग्निबाणेन विदारयिष्यति इति रष्येण पूर्वसूचना दत्ता। ब्रिट्टणस्य नाविकसेनानौकाः तेषां समुद्रसीमां उल्लङ्घितवत्यः इति संसूच्य रष्यस्थं ब्रिट्टणस्य स्थानपतिं आहूय रष्येण प्रतिषेधः प्रकाशितः। परन्तु सेनानौकाः युक्रैन् समुद्रसीमनि एव न तु रष्यासीमनि इति ब्रिट्टणेन तथा अन्यराष्ट्रैः च ईरिताः। ब्रिट्टणस्य एच् एम् एस् डिफन्टर् इत्याख्यायाः नाविकनौकायाः सञ्चारपथं रोद्धुं रष्येण परिश्रमः कृतः इति ब्रिट्टणेन आवेदितः। विंशत्यधिकविमानानि द्वे तीरसंरक्षण-सेनानौके च डिफन्टरं लक्षीकृत्य आगत्य नौकायां अग्निबाणं पातयिष्यति इति भीषाम् अकरोत् इति ब्रिट्टणस्य नाविकसेनया उक्तम्।