OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 23, 2021

 जेट् एयर्वेस् पुनः डयिष्यते। कम्पनी न्यायाधिकरणस्य अङ्गीकारः।

  मुम्बै> जेट् एयर्वेस् संस्थायाः उत्तरदायित्व योजनायै राष्ट्रिय-न्यायाधिकरणस्य अनुज्ञा लब्धा। यु के राष्ट्रस्य काल्रोक् क्यापिट्टलेन तथा यु ए इ राष्ट्रस्य संरम्भकै:  मुरारिलाल् जलानेन च समर्पितायै योजनायै एव अङ्गीकारो लब्धः। 

१३७५ कोटिरूप्यकाणि एव संस्थाद्वयेन व्ययीकर्तुं निश्चितः। कम्पनी न्यायाधिकरणस्य अङ्गीकारलब्ध्यनन्तरं षण्मासाभ्यन्तरे प्रवर्तनम् आरब्धुम्  निश्चितः। प्रथमस्तरे ३० विमानानि  सेवां करिष्यन्ति।

१९९३ तमे वर्षे नरेष् गोयलेन स्थापितस्य जेट् एयर्वेस् संस्थायाः  प्रवर्तनं गतएप्रिल्  मासस्य सप्तदश दिनाङ्के स्थगितम् अभवत्। १२४ विमानानि एतस्याः संस्थायाः स्वाधीने आसन्। अनन्तरकाले आर्थिकक्लेशेन अधिकतया ऋणं वर्धितम् अभवत्।