OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 25, 2021

 परिदेवने लब्धे २४ होराभ्यन्तरे व्याजलेखाः निर्मार्जनीयाः इति सामाजिकमाध्यमान् प्रति भारतम् ।

   नवदिल्ली> परिदेवने लब्धे २४ होराभ्यन्तरे व्याजलेखा: निर्मार्जनीयाः इति सामाजिकमाध्यमान् प्रति भारतसर्वकारः निर्देशः अदात्। मुखपुस्तिका, ट्विट्टर् , इन्स्टग्राम्, युट्यूब् इत्यादि सामाजिकमाध्यमानां प्रति भवति निर्देशः। भारतस्य नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् अनुसृत्यैव भवति एषः निर्देशः।

यस्यकस्यापि व्यक्तेः नाम्नि व्याजलेखा अस्ति इति परिदेवनं लप्स्यते चेत् २४ होराभ्यन्तरे तत् निर्मार्जनीयम्। निर्देशो अवश्यं पालनीयः इत्यस्ति केन्द्रनूतनसूचनाप्रौद्योगिकमन्त्रालयेन सामूहिकमाध्यमान् प्रति प्रदत्तः आदेशः।

प्रमुखव्यक्तीनां नाम्नि व्याजलेखं निर्माय तेन दुष्टाशयानां प्रसारणं स्यात्। तद्वत् सामान्यजनानां नाम्नि व्याजलेखां निर्माय आर्थिकचौर्यमपि कर्तुं साहचर्यं वर्तते इत्यादीन् गणयित्वा एव भारतस्य नूतनसूचना-प्रद्यौगिक-विद्यामन्त्रालयस्य  नूतनाचरणनियमः।