OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 28, 2021

 जम्मूकाश्मीरे बृहत्स्फोटनाय अभियोजनायोजनम्। उदग्रछायाग्राही आक्रमणस्य पश्चात् षट् किलोपरिमितं स्फोटकवस्तु च संगृहीतम्।

  श्रीनगरः> जम्मूकाश्मीरेषु व्योमसेनापत्तनं लक्ष्यीकृत्य उदग्रछायाग्राही स्फोटनस्य पश्चात् षट्किलोपरिमितं स्फोटकवस्तु अपि संगृहीतम् । घटनायां अस्मिन् एक: लष्कर् इ तोयिबावादी संगृहीतः। जम्मूकाश्मीरस्य आरक्षकाधिपेन दिल्बाग्सिंहेन एव कार्यमिदम् आवेदितम्। नगरे व्यस्तप्रदेशे स्थापयितुं निश्चितं स्फोटकवस्तु एव आरक्षकेण संगृहीतम्। अनेन बृहत्स्फोटनाभियोजना एव जम्मोः आरक्षकैः विफलीकृता। घटना एषा आतङ्काक्रमणम् इति दृढीकृतम्।

अन्वेषणमपि विपुलीकृतम्। संग्रहीतेन सह परिप्रश्नम् अनुवर्तते। घटनायां अन्यान् अपि संग्रहीतुं साध्यता अस्ति इति जम्मूकाश्मीरस्य उप-आरक्षकेन आवेदितम्।