OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 1, 2021

 ब्रिट्टने कोविडस्य तृतीयतरङ्गः उद्भूतः इति विदग्धाः। 

  लण्टन्> ब्रिट्टनराष्ट्रे कोविड्रोगस्य तृतीयतरङ्गः आरब्ध इति तत्रस्थः गवेषकः सर्वकारस्य उपदेशकः प्रोफ.रविगुप्तः अब्रवीत्। भारते अधिगतस्य कोरोणावैराणोः रूपान्तरमेव इदानीं यू केमध्ये तृतीयतरङ्गाय कारणभूतमिति तेनोक्तम्। पिधानमभिव्याप्य तीव्रनियन्त्रणानि आवश्यकानि। नोचेत् अवस्था आशङ्काजनका भविष्यति इति पर्यावरणसचिवेन जोर्ज् यूस्टिस् इत्यनेनापि निगदितम्।

    गतदिने अनुस्यूततया षष्ठदिनेऽपि त्रिसहस्राधिकानि कोविड्प्रकरणानि प्रतिदिनमावेदितानि। किन्तु मरणानि नावेदितानि।