OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 5, 2021

 केरलीयजलाशयसंरक्षकः एन्.एस् राजप्पः अन्ताराष्ट्रपुरस्कारेण समादृतः।


कोट्टयम्> उपजीवनेन सह जलाशयसंरक्षणे निरतः राजप्पः ताय्वानराष्ट्रेण पुरस्कृतः। कोट्टयम् आर्पूक्करा मञ्चाटिक्करदेशीयः एषः "तायवान् सुप्रिं मास्टर् चिङ् हाय् इन्टर्नाषणल् वेल्ड् प्रोट्टक्षन्" पुरस्कारेण एव समादृतः। आहत्य १०,००० यु एस् टोलर् धनेन (७,३०,०८१ रूप्यकाणि) तथा प्रशंसापत्रेण च सम्मानितः। शरीरस्य श्रोणीभागतः अधोभागपर्यन्तं चलनरहितः सः नौकायां सञ्चरन् जलाशये परित्यक्ताः पलास्तिककूप्यः सञ्चित्य तेषां विक्रयणेनैव उपजीवनं करोति स्म। प्रशसनीयं परिस्थितिसंरक्षणप्रवर्तनमेव राजप्पः कुर्वन् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना 'मन् की बात्' मध्ये सूचितम्। प्रतिकूलसाहचर्याणि विगणय्य राजप्पेन क्रियमाणं परिस्थितिसेवनं सर्वेषां मार्गदर्शकं भवति। जलाशयसंरक्षणेन पृथिव्याः संरक्षणमेव सः करोति इति ताय्वान् प्रशंसापत्रे उल्लिखितम् अस्ति।