OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 25, 2021

 डेल्टा विभेदः ४५ राष्ट्रेषु दृढीकृतः इति लोकस्वास्थ्यसंघटनम्।

जनीव> अतितीव्रव्यापनक्षमस्य कोविड्वैराणोः 'डेल्टा विभेदः' लोके ८५ राष्ट्रेषु दृढीकृतः इति लोकस्वास्थ्यसंघटनेन उक्तम्। तेषु एकादशराष्ट्रेषु गतसप्ताहाभ्यन्तरे एव एषः विभेदः दृढीकृतः। आल्फ, बीट्टा, गाम, डेल्टा इत्यादि वैराणुविभेदान् ससूक्ष्मं निरीक्ष्यमाणः अस्ति इति लोकस्वास्थ्यसंघटनेन प्रकाशिते कोविड् १९ वीक्लि एप्पिडमियोलजिक्कल् अप्डेट् मध्ये सूचितमस्ति। डेल्टाविभेदरोगबाधिताः अन्यविभेद -बाधितापेक्षया अधिकतया प्राणवायुम् अपेक्षते। अतः मरणसंख्या अपि अधिका एव इति सिंहपुरे कृताध्ययने प्रोक्तमस्ति। जप्पाने कृताध्ययने अपि आल्फा विभेदापेक्षया डेल्टाविभेदः शीघ्रतया व्यापनक्षमतायुक्तः इति च संसूचितमस्ति।