OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 31, 2021

 भारतीयसभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्ययनेन।

पालक्काट्> केरल-संसकृताद्ध्यापक-फेडरेषन् संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय  संस्कृत-दिनाचरणम् समायोजितम्। भारतीय सभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्यनेन स्वायत्तीकर्तुं  शक्यते इति उत्तराखण्डराज्यस्थ केन्द्रीय-संस्कृत-विश्वविद्यालयस्य वैदिकविभागस्य प्राध्यापकः डॉ. अमन्दमिश्रमहोदयः स्वीयोद्घाटनभाषणे अब्रवीत्। संस्कृतम् संस्कृतेनैव पठनस्य पाठनस्य च आवश्यकताम् अधिकृत्य केरल-सर्वकारीय महाविद्यालयीय ज्योतिषविभागस्थ प्राध्यापकः डोः सुधीष्  ओ एस् महाभागोवदत्। पालक्काट् डयट् संस्थायाः प्राचार्यः श्री के एन् सोमराज महाशयः विशिष्ठातिथि रूपेणोपस्थितः। श्री अनिल् कोन्नेलिक्कल् महोदयेन विरचितं मञ्जुभाषिणीति गीतम् आलप्य मेलने प्रकाशितम्। केरल-संसकृताद्ध्यापक -फेडरेषन् संस्थायाः प्रान्तीयाध्यक्षः श्री पि पद्मनाभः महाशयः, प्रान्तीयोपाध्यक्षः श्री के के राजेष् महोदयः, जनपदाध्यक्षः श्री एस् भास्करः, बि प्रमोद, श्रीमति रजिता, श्रीमति सि आर् सुजाता, श्रीमति पि राखी इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ जनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। जनपद स्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।