OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 31, 2021

अफगान् प्रकरणे नरेन्द्रमोदिनः वाचः स्वागतार्हाः - कपिलसिबिलः।

नवदेहली> अफ्गानिस्थानस्य समस्यायां मोदिनः वाचं स्वागतीकरोति इति काँग्रस् दलस्य वरिष्ठनेता  कपिल सिबिल: अवदत्। पीडितेभ्यः जनेभ्यः साहाय्यं करणीयम् इति एतत् राष्ट्रस्य लोकतान्त्रिकमर्यादा भवति इति सः अवदत्। साहाय्यं सर्वधर्मानुद्दिश्य भवितव्यम्।   "यः कोपि भारतनागरिकः विश्वस्मिन् कोणे यत्रकुत्रापि भवतु लग्नः  चेत् आराष्ट्रं तस्य साहाय्यतायैः तेन सह स्थास्यति" इति शनिवासरे मोदिना उक्तमासीत्। दुरितबाधितः हैन्दवः वा अफगानिजना: वा भवतु तस्य साहायता अस्माभिः करणीया इति भारतस्य लोकतान्त्रिक-उत्तरदायित्वं भवति इति मोदिना उक्तं यत् तत् अहं स्वीकरोमि इति कपिल सिबिलः अवदत् । 

   असङ्ख्या: प्रतिरोधाः आसन् तथापि अफ्गानिस्थानतः भारतीयाः सर्वे ततः आनीता: इति अमृतसरसि नवीकृतं 'जालियन् वालाबाग्' स्मृतिमण्डपं राष्ट्राय समर्पणं कृत्वा मोदिना उक्तम् । 'ओपरेषन् देवी' इति रक्षायोजनया शतशः जनाः एवं भारतं नीताः सन्ति इति च महोदयः अवदत्।