OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 10, 2021

अफ्गानिस्थाने दिनत्रयाभ्यन्तरे २७ बालकाः मारिताः। 

   काबूल्> तालिबानभीकराः सुरक्षासेनया सह तीव्रयुद्धे अनुवर्तमाने अफ्गाने दिनत्रयाभ्यन्तरे २७ बालकाः मारिता इति संयुक्तराष्ट्रसभायाः आवेदनपत्रे सूचितम्। बालकान् विरुध्य क्रियमाणाः अतिनिष्ठुरातिक्रमाः राष्ट्रस्य विविधभागेषु अनुदिनं वर्धन्ते इति बालकेभ्यः प्रवर्तमानेन यू एन् उपसंघटनेन यूणिसेफ् इत्यनेन स्पष्टीकृतम्। काण्डहारं, खोस्त्, पकतिया प्रदेशेषु २७ बालकाः व्यापादिताः इति दृढीकृतमस्ति। १३६ बालकाः तीव्रतया व्रणिताः इति च यूणिसेफ् इत्यनेन उच्यते। 

  एतदाभ्यन्तरे षष्ठी प्रादेशिकराजधानी अपि तालिबानेन निगृहीता। सबन्गन् प्रदेशस्य राजधानीभूतस्य एबक् नगरस्य नियन्त्रणमेव तालिबानेन स्वायत्तीकृतमिति सर्वकारेण स्पष्टीकृतम्।