OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 25, 2021

 अफगानस्य नागरिकाणां विमानपत्तनेषु  प्रवेशनं नास्ति। 

यु एस् सेना अस्मिन् मासे एकत्रिंशत्तम -दिनाभ्यन्तरे राष्ट्रात् गन्तव्यम् इति तालिबानः।

  काबूल्> पाञ्च्शीरस्थानां समस्यानां शान्तिपूर्णपरिहाराय ते प्रतिज्ञाबद्धाः इति तालिबानः। आगस्त् मासस्य एकत्रिंशत्तमदिनाभ्यन्तरे अमेरिक्कायाः सेनाः पूर्णतया अपसरणीयाः इति तालिबानः पुनरप्यवदत्। मङ्गलवासरे सायाह्ने कृते वार्तासम्मेलने तालिबानस्य वक्त्रा  रेण्डमाईजेशन सबीहुल्ला मुजाहिदेन एव कार्यमिदं स्पष्टीकृतम्। पञ्चशीरस्थां समस्यां परिहर्तुं  चर्चा प्रचलति इत्यपि मुजाहितेन प्रोक्तम्।