OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 28, 2021

 भारते समागतेभ्यः अफ्गान् नागरिकेभ्यः षण्मासीयं प्रवेशानुमतिपत्रं  दास्यति।

    नवदिल्ली> भारते समागतेभ्यः अफ्गान् नागरिकेभ्यः षण्मासीयं प्रवेशानुमतिपत्रं दास्यति इति भारतीयसर्वकारः। अधुना वर्तमाने काले अफ्गान् नागरिकाणाम् आगमनं षण्मासीयप्रवेशपत्रसुविधायाः अधीने एव इति विदेशकार्यमन्त्रालयवक्त्रा अरिन्दं बाग्चिना प्रोक्तम्। एषा एव षण्मासीया वर्तमानकालव्यवस्था। वातावरणानि परिणमेत तर्हि तदीयपत्रस्य दीर्घीकरणं वा स्थिरानुमतिः वा चिन्त्येत इति बाग्चिना निगदितम् । भारतम् अफ्गानिस्थानात् इतःपर्यन्तं ५५२ अधिकजनान् अरक्षत्। विविधैः षट्भिः विमानैरेव आसीत् आसीत् रक्षाप्रवर्तनम्।