OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 12, 2021

 कोविडस्य तृतीयतरङ्गम् इति सूचना। बंगलूरे गतपञ्चदिनाभ्यन्तरे २४२ बालकाः रोगबाधिताः इति दृढीकृताः।

   बंगलूरु > बंगलूरुदेशे गतपञ्चदिनाभ्यन्तरे २४२ बालकाः कोविड्रोगेण बाधिताः। ऊन-नववयस्कानां  १०६ बालकानां तथा नववयस्कादारम्य एकोनविंशति वयःपर्यन्तं १३६ बालकानां च रोगः दृढीकृतः। कोविडस्य तृतीयतरङ्गः अधिकतया बालकान् एव बाधिष्यते इति सूचनां प्रबलयति एतत् प्रतिवेदनम्। आगामि दिनेषु कोविड् रोगबाधितानां बालानां संख्या त्रिगुणीभविष्यति इति स्वास्थ्यसंस्थया पूर्वसूचना दत्ता अस्ति।  प्रौढजनापेक्षया बालकेषु प्रतिरोधक्षमता न्यूना एव। अतः बालकानां गृहे उपवेशनमेव रोगव्यापनं निरोद्धुम् उत्तमोपायः इति स्वास्थ्यविदाः वदन्ति।