OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 15, 2021

आगामि जूलाय् मासादारभ्य सकृदुपयोगाय निर्मितानां पलास्तिकवस्तूनां निरोधनम् भविष्यति।

लेखिका- ज्योतिलक्ष्मी जे, वेदपूर्णपुरी 

 नवदिल्ली> भारतसर्वकारेण पलास्तिकवस्तूनां उपयोगेषु नियन्त्रणं वर्धितम्। पलास्तिवस्तूनम् उत्पादनं, वितरणम्, देशान्तरादानयनं सम्भरणं, विक्रयणं इत्यादीनां निरोधनाय "पलास्तिकमालिन्यनियन्त्रण- संस्करणनियमाः २०२१" भारतसर्वकारेण प्रकाशिताः। २०२२ जुलै मासादारभ्य ७५ मैक्रोणतः ऊनानां पलास्तिकवस्तूनाम् निरोधनं भविष्यति।
         सामान्यतः ५० मैक्रोण् घनमितानि पलास्तिकस्यूतानि उपयोक्तुं शक्यते। परन्तु सेप्तंबर् ३० दिनाङकादारभ्य नियमे प्रबले जाते (सति), ततःपरं ७५ मैक्रोन् घनमानतः ऊनानि पलास्तिकस्यूतानि उपयोक्तुम् न शक्यते।