OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 7, 2021

 ओलिम्बिक्स् प्रासक्षेपे नीरज चोप्रेण सुवर्णपदकम् प्राप्तम्।

धन्यवादः नीरजाय धन्यवादः टोक्यो देशाय।


  टोक्यो> १३० कोटि भारतीयानां प्रतीक्षां सुवर्णपदकेन सफलीकृताय नीरजाय धन्यवादम् अर्पयन्ति जनाः। पुरुषाणां प्रासक्षेपस्पर्धाविभागे (javelin) ८७.५८ मीट्टर् दूरं क्षिपन् नीरज चोप्रः नाम तीरसेनायाः कार्यकर्तृणा सुवर्णपदकम् अलङ्कृतम्। ओलिम्बिक्स् इतिहासे प्रासक्षेपे प्रथमतया एव सुवर्णपदकप्राप्तिः। अभिनव् बिन्द्रस्य पश्चात् व्यक्तिगतसुवर्णं प्राप्तवान्   द्वितीयः भारतीयक्रीडकः भवति हरियाना देशस्थः सुबेदार् नीरज चोप्रः।  बेय्जिड् अनन्तरम् इदं प्रथमतया एव भारतेन ओलिम्बिकस् मध्ये सुवर्णपदकं प्राप्तम्।