OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 8, 2021

 टोक्यो मध्ये भारताय सुवर्णचरितं विरचयन् नीरजचोप्रः। 

टोक्यो> टोक्यो ओलिम्पिक्स् महोत्सवस्य 'अतलटिक्स्' स्पर्धायां ह्यः नीरजचोप्रावर्येण प्रक्षिप्तं शूलं यदा ८७.५८ मीटर् परिमिते दूरे भूमिं निर्भिद्य स्थितम्। तदा भारतस्य कायिकचरिते नवयुगप्रसूतिरभवत्। १२५ संवत्सराणां प्रतीक्षायाः अन्ते ओलिम्पिक्स् कायिकमहोत्सवे अत्लटिक्स् विभागे कस्यचन भारतीयस्य प्रप्रथमं पदकं, तत्तु सुवर्णपदकम्! अनेन हरियानीयस्यास्य २३ वयस्कस्य दृढनिश्चयेन १३० कोटिजनानाम् आत्माभिमानं सुवर्णाञ्चितमभवत्। 

   शनिवासरे शूलप्रक्षेपस्पर्धायाः अन्त्यचक्रे प्रथमोद्यमे एव नीरजः ८७.०३मीटर् क्षिप्तवान्। द्वितीयोद्यमे क्षिप्तं ८७.५८ मीटर् दूरेण सुवर्णपदकं सुनिश्चितम्। चेक् रिप्पब्लिक् राष्ट्रस्य जाक्कूब वादलच् नामकः रजतपदकं, तद्राष्ट्रस्यैव वितेस्लाव् वेसलि नामकः कांस्यपदकं च प्राप्तवन्तौ।